________________
(४१८)
सादर्श:
[ तृतीयाकारकेयत्रैकैव पाकादिक्रिया चैत्रेण काष्ठादिना मैत्रेण तुषादिप्रक्षेपेण निष्पाद्यते तत्र 'चैत्रस्तुपैमैत्रः काष्ठैः पचति' इतिप्रसङ्गः समभिव्याहृतकर्तृव्यापाराधीनत्वस्य तत्तत्करणव्यापारे भानमुपगम्य वारणीयः । न च समभिव्याहृतकत्रन्तर्भावेण तृतीयार्थत्वे कत्रऽसमभिव्याहारस्थले करणे तृतीयाया अप्रयोगाप. त्तिरिति वाच्यम्, तत्रापि “ हेतौ " इतिसूत्रेण हेतुतामात्रार्थकतृतीयासंभवात् 'धनेन कुलम् ' 'विद्यया यशः । इत्यादिवत् । न हि तत्र करणे तृतीयाक्रियायोगाभावात् ।
न चैवमुक्तस्थले चैत्रस्तुषेण पचति ' इति प्रयोगस्य “हेतौ” इतिसूत्रबलादापत्ताविष्टापत्ति विनोत्तराभावात् समभिव्याहृतकञन्तर्भावस्य करणे स्वतन्त्रतृतीयानुशासनस्यैव वा वैयमिति वाच्यम्,उक्तस्थले पाके तुषहेतुकत्वाभाववा
नन्वेवमपि यत्रैकैव पाकक्रिया चैत्रेण काष्ठेन संपाद्यते मैत्रेण च तुषेण संपाद्यते तत्र करणभूततुषकाष्ठाद्यपेक्षया चैत्रमैत्रयोर्मिनत्वादेव ' चैत्रस्तुङ्गमैत्रः काष्ठैः पचति' इति प्रयोगः किं न स्थादित्याशझ्याह- यत्रेति । एतत्प्रयोगापत्तिपरिहारोपायमाह- समभिव्याहृतेति, तथा च समभिव्याहृतस्वमिनकर्तृव्यापाराधीनव्यापारवत्कारणत्वं करणत्वमिति वक्तव्यम्, अत्र च तुषव्यापारे सममिव्याहृतचैत्रव्यापाराधीनवं नास्ति काष्ठव्यापारे च मैत्रव्यापाराधीनवं नास्तीति नोक्तस्थले 'चैत्रस्तुषैः । इत्यादिप्रयोगापत्तिः । किं तु काष्ठव्यापारस्य चैत्रव्यापाराधीनत्वात् तुषव्यापारस्य च मैत्रव्यापाराधीनत्वात् ' चैत्रः काष्ठमैत्रस्तुषैः पचति । इत्येवोक्तस्थले प्रयोगो भवतीत्यर्थः । ननु यदि 'समभिव्याहतस्वभिन्नकर्तृव्यापाराधीनव्यापारवत्कारणत्वं करणत्वम्' इत्येवं सममिव्याहृतक–न्तर्भावेन करणवस्य तृतीयार्थत्वम् करणत्वे सममिव्याहृतकर्तुरप्यन्तर्भावस्तदा कर्बऽसमभिव्याहारस्थले ' काष्ठेन पचति । इत्यादौ करणत्वे तृतीया न स्यात्- विशेषणीभूतकर्तुः समभिव्याहाराभावेन करणत्वस्याप्यसंभवादित्याशङ्क्याह- न चेति । परिहारमाह- तत्रापीति, काष्ठेन पचति । इत्यत्र ‘धनेन कुलम् ' इत्यत्रेव “ हेतौ " इति सूत्रेण हेतुतृतीया बोध्या । ननु — धनेन कुलम् ' इत्यत्र करणतृतीयैव किं न स्यादित्याशङ्क्याह- न हीति । तत्र= धनेन कुलम्' इत्यादौ । क्रियायोगाभावात्-क्रियावाचकपदाभावेन क्रियायोगाभावः। ___ ननु ' काष्ठेन पचति ' इत्यत्र यदि " हेतो " इति सूत्रेण तृतीया संभवति तदोक्तस्थले= यत्रैकैव पाकक्रिया चैत्रेण काष्ठादिना मैत्रेण तुषेण च निष्पाद्यते तत्र पाके तुषस्यापि हेतुत्वेन तुषपदोत्तरम् “ हेतौ " इतिसूत्रेण तृतीयासंभवात् चैत्रकर्तृकपाकस्य तुषकरणकत्वाभावेपि 'चैत्रस्तुषेण पचति' इति प्रयोगः स्यादेवेति करणत्वे समभिव्याहृतकन्तर्भावस्य वा करणे पृथक् तृतीयानुशासनस्य वा वैयर्थ्य स्यादेवेत्याशझ्याह- न चेति । उत्तरमाह- उक्तस्थले इति, उक्तस्थले=" यत्रैकैव पाकादिक्रिया " इत्युक्तस्थले पाके तुषहेतुकत्वस्यापि सत्त्वेन तुषहेतुकस्वाभावस्य वाधेपि ' चैत्रस्तुषेण न पचति किं तु काष्ठेन । इतिप्रयोगोपपत्त्यर्थं समभिव्याहृत
"Aho Shrutgyanam"