________________
तृतीयामित्यर्थविचार 1
व्युत्पत्तिवादः ।
( ४१९ )
6
धेपि ' चैत्रस्तुषेण न पचति किं तु दारुणैव ' इतिप्रयोगोपपत्तये समभिव्याहतकर्त्रन्तर्भावेण तृतीयायाः शक्तिकल्पनाया आवश्यकत्वात् तद्ब्राहकतयैव करणे तृतीयानुशासनस्यावश्यकत्वात् । शरैः शातितपत्रोयम् इत्यादौ तृतीयायाः कारकविभक्तित्वे एव तदर्थान्वितार्थ कशातितादिपदेन समासस्य साधुतानिर्वाहाच्च । न च तृतीयायाः समभिव्याहृतकर्त्रन्तर्भावेण करणत्वार्थत्वे तत्र समभिव्याहृत कर्त्रेऽभावादकारकविभक्तित्वं करणे तृतीयानुशासनेपि दुर्वारमेवेति वाच्यम्, एतदनुरोधेन तत्र कर्तुरध्याहरणीयत्वात् ।
"
वस्तुतः समभिव्याहृतकर्तृव्यापाराधीनत्वे व्यापारवत्कारणत्वे च तृतीयायाः शक्तिद्वयम् कर्त्रसमभिव्याहारस्थले व्यापारवत्कारणत्वमात्रं प्रतीयते, कर्तृसमभिव्याहारस्थले च व्यापारे तद्व्यापाराधीनत्वमपीति सामञ्जस्यम् ।
कर्त्रन्तर्भावेण तृतीयायाः करणत्वे शक्तिकल्पनाया अपेक्षास्ति तादृशशक्तिमहार्थं च करणे तृतीयानुशासनस्यावश्यकतास्तीति न समभिव्याहृतकर्त्रन्तर्भावस्य वा करणे तृतीयानुशासनस्य वा वैयर्थ्यम्, एवं हि तुषव्यापारस्य मैत्रव्यापाराधीनत्वेन चैत्रव्यापाराधीनत्वाभावात् तुषस्य पाक हेतुत्वेपि ' चैत्रस्तुषेण न पचति ' इति प्रयोग उपपद्यते. करणत्वे समभिव्याहृतकर्त्रन्तर्मावस्याभावे तु तुषस्यापि पाकहेतुत्वेन चैत्रस्य च पाककर्तृत्वेनोक्तस्थले ' चैत्रस्तुषेण पचति ' इति स्यादेव ' चैत्रस्तुषेण न पचति ' इति न स्यात्, न चैतदिष्टमित्यर्थः । तद्माहकतया=ठक्तशक्तिग्राहकतया । करणतृतीयाया आवश्यकत्वे हेत्वन्तरमाह-- शरैरिति, ' शरैः शातितपत्रोयम्' इत्यत्र शातितपदार्थैकदेशशातनक्रियायां हेतुतृतीयार्थस्यान्वयो न संभवति क्रियायां कार - कस्यैवान्यनियमात् तथा च शरपदोत्तरतृतीयायाः कारकविभक्तितत्वे एव : तदर्थान्वितार्थकशातितपदेन=कारकविभक्तिरूपतृतीयार्थेन करणत्वेनान्वितार्थकं यत् शातितपदं तेन सह पत्रपदसमासस्य साधुत्वं संभवतीत्येतदर्थमपि करणे तृतीयाया आवश्यकतेत्यर्थः । ननु यदि समभिव्याहृतकर्तृव्यापाराधीन व्यापारवत्कारणत्वं करणत्वमित्युच्यते तदा तत्र = ' शरैः शातितपत्रोयम् ' इत्यत्र कर्तृसमभिव्याहाराभावेन समभिव्याहृत कर्तृव्यापाराधीनव्यापारवत्त्वं शराणां न संभवतीति शरदोत्तरतृतीयायाः कथं कारकविभक्तित्वं स्यादित्याशङ्क्याह- न चेति । उत्तरमाह-- एतदनुरोनेति, कर्तृसमभिव्याहारं विना शराणामुक्तकरणत्वं न संभवति इष्टं च करणत्वमित्यनुरोधेन तत्र='शरैः शातितपत्रः' इत्यत्र कर्तुरप्याहारः कर्तव्यस्तथा चाव्याहृत कर्तृव्यापाराधीनव्यापारवत्त्त्रं शराणां भविष्यतीति न शरपदोत्तरवृतीयायाः कारकविभक्तित्वानुपपत्तिरित्यर्थः ।
स्वाभिप्रायमाह - वस्तुत इति, शक्तिद्वयम् = खण्डशः शक्तिद्वयम् । कर्त्रऽसमभिव्याहारस्थळे= 'शेरेः शातितपत्र: ' इत्यादौ व्यापारवत्कारणत्वमात्ररूपं करणत्वं प्रतीयते । कर्तृसमभिव्याहारस्थले = ' चैत्रः काष्ठेन पचति ' इत्यादौ व्यापारे काष्ठादिरूपकरणव्यापारे तद्व्यापाराधीनत्वम् = कर्तृव्यापाराधीनत्वमपि प्रतीयते इति न कोपि दोष इत्यर्थः ।
"Aho Shrutgyanam"