________________
(४२०)
सादर्शः
[तृतीयाकारकेएवं हेत्वनुशिष्टतृतीयायाः “ अकर्तर्येणे" इत्यनेन बाधनात् करणत्ववियक्षायाम् ' धनवता ऋणेन बद्धोयम् ' इत्यत्र तृतीयाया, उपपत्तये करणे तृतीयानुशासनस्यावश्यकता । कारणत्वं च फलोपधानतारूपमेव करणताघटकम्, अन्यथा कुठारादिकरणकच्छिदादौ दात्रादेरपि स्वरूपयोग्यतया. करणत्वापत्तेः।
लिङ्गज्ञानस्यानुमितिकरणतामते 'धूमेन वहिमनुमिनोमि' इत्यादौ धूमादिपदं तज्ज्ञानपरम्, व्याप्तिविशिष्टहेतुज्ञानस्य व्यापारस्तद्विशिष्टवैशिष्टयावगाही परामर्शः, स चात्ममनोयोगादिरूपानुमातृपुरुषव्यापाराधीन इति सस्प निरुक्तकरणत्वमबाधितमेव । धूमादिलिङ्गकवड्यनुमितौ यत्र लिङ्गान्तराद् घटादिभानं तत्र'धूमेन घटमनुमिनोमि ' इति न प्रयोगः-अन्वयितावच्छेदकतद्विधेयकानुमितित्वावच्छेदेनैवाऽन्वयितावच्छेदकधूमादिविषयकज्ञानत्वावच्छिन्नत्वेन भास
करणतृतीयाया आवश्यकत्वे उपपत्त्यन्तरमाह-एवमिति, हेत्वनुशिष्टतृतीयाया:=" हेतौ" इति सूत्रोक्ततृतीयायाः " अकर्तर्यणे " इतिपञ्चमी विधायकसूत्रेण बाधो भवतीति करणतृतीयाया अभावे 'धनवता ऋगेन बद्धः ' इत्यत्र तृतीया न स्यादिति ऋणस्य करणत्वविवक्षायामत्र तृतीयोपपत्त्यर्थमपि करणे तृतीयानुशासनस्यावश्यकतास्तीत्यर्थः । स्वाभिप्रेत कारणस्वस्वरूपमाह-कारणत्वमिति, ' व्यापारवत्कारणत्वं करणत्वम् । इतिकरणत्वस्वरूपप्रविष्टं यत्कारणत्वं तत्फलोपधानतारूपम् फलजनकतारूपं ग्राह्यम् । विपक्षे बाधकमाह-अन्यथेति, फलोपधानतारूपस्य कारणत्वस्याग्रहणे कुठारादिकरणकच्छेदनक्रियायां दात्रादेरपि स्वरूपयोग्यतारूपकारणतायाः सत्त्वात् करणत्वं स्यात्, न चैतदिष्टमित्यर्थः।।
लिङ्गेति, तज्ज्ञानपरम्=धूमादिज्ञानपरम्, तथा च धूमज्ञानज्ञाप्यो वह्रिरित्यर्थः । धूमज्ञानस्यानुमितिकरणत्वसिद्धयर्थं कर्तृव्यापाराधीनव्यापारवत्त्वमुपपादयति-व्याप्तीति, व्याप्तिविशिष्टो यो धूमादिर्हेतुस्तज्ज्ञानस्य तविशिष्टवैशिष्ट्यावगाही व्याप्तिविशिष्टो यो हेतुस्तवैशिष्ट्यावगाही 'वहिव्याप्यधूमवान् पर्वतः ' इत्याकारको यः परामर्शः स एव व्यापारः सः परामर्शरूपव्यापारश्चात्ममनःसंयोगादिरूपस्यानुमातृपुरुषव्यापारस्याऽधीन एव-आत्ममनःसंयोगं बिना परामर्शानुत्पत्तेरिति तस्य हेतुज्ञानस्य निरुक्तकरणत्वम् कर्तृव्यापाराधीनव्यापारवत्त्वरूपं करणत्वं प्राप्तमेवेत्यर्थः । धूमादिलिङ्गेन वपनुमितो यदा लिङ्गान्तराद् घटादिभानं भवति तदापि 'धूमेन घटमनुमिनोमि ' इति प्रयोगो न भवतीत्याह-घूमादिलिङ्गकेति । उक्ते हेतुमाह-अन्वयितावच्छेदकेति, धूमादिलिङ्गकवयनुमितौ यत्र लिङ्गान्तराद् घटादिभानं तत्राऽन्वयितावच्छेदकं पदमादिविषयकज्ञानत्वं तदवच्छिन्ननिष्ठं यद् भासमानं करणत्वं तादृशकरणत्वनिरूपकत्वम् अन्वयितावच्छेदकं यत् तद्विधेयका ( वयादिविधेयका) नुमितित्वं तदवच्छिन्ने एव स्वीक्रियते तथाच धूमझाननिष्ठकरणत्वनिरूपकत्वं वह्निविधेयकानुमितावेवास्ति न तु घटाद्यनुमितावपीति न
"Aho Shrutgyanam"