________________
तृतीयाविभक्त्यर्थविचारः] व्युत्पत्तिवादः ।
(४२१) मानस्य करणत्वस्य निरूपकत्वभानोपगमात् । निरूपकत्वं तु करणतामात्रस्य
नृतीयार्थतावादिनां प्राचां मते संसर्गः, नव्यमते तु करणतानिरूपकत्वस्यैव नर्थाभावे प्रतियोगित्वेनाऽन्वयानुरोधात् तावत्पर्यन्तस्प तृतीमार्थत्या प्रकार एक्त्यन्यदेतत् ।
परे तु लिङ्गज्ञानस्प करणत्वेपि 'धूमेन पनिमनुमिनोमि ' इत्यादौ धूमादिपवं मुख्यार्थपरमेव “हेतौ” इति सूत्रेण तत्र तृतीया-हेतुत्वस्य कारणतावच्छे. दकसाधारणप्रयोजकत्वरूपस्य तत्र विवक्षितत्वाद, जनकज्ञानविषयधूमादेश्चानुमितिकारणतावच्छेदकतया प्रयोजकत्वमक्षतमेव । उक्तसमूहालम्बनस्थले 'धूमेन घटमनुमिनोमि' 'घटेन वह्निमनुमिनोमि । इति वा प्रयोगापत्तिरित्यर्थः । धूमज्ञाने धूमज्ञानत्वमप्यस्ति करणत्वमप्यस्तीति करणत्वस्य धूमज्ञानत्वावच्छिन्नत्वेन मासमानत्वं प्राप्तम् । अनुमितौ यत्करणतानिरूपकत्वमुक्तं तनिरूपकत्वं संसर्गो वा प्रकारो वेत्याशङ्क्याहनिरूपकत्वमिति, करणत्वं तृतीयार्थ इति प्राचीनमतं तत्र हेतुनिष्ठतृतीयार्थकरणत्वस्य निरूपकवसंबन्धेनानुमितावन्वय इति निरूपकत्वं संसर्गः । करणत्वनिरूपकत्वमनुमितावुक्तमेव तथा च निरूपकत्वसंबन्धेन करणत्वविशिष्टानुमितिरित्यर्थः । नवीनमते ' घूमेन वह्निमनुमिनोमि न घटेन । इत्यत्र घटज्ञानकरणतानिरूपकत्वस्य नार्थाभावे प्रतियोगित्वरूपेणान्वयो :मवति तादृशविशिष्टाभावस्य च वह्नयनुभितावऽन्वयो मवति-'घटज्ञानकरणतानिरूपकत्वाभावविशिष्टा चयनुमितिः' इति तावत्पर्यन्तस्य करणतानिरूपकत्वस्य तृतीयार्थत्वेन तद्घटकस्य निरूपकस्वस्यापि तृतीयार्थत्वात् प्रकारत्वं प्राप्तमेवेत्यर्थः । अन्न च निरूपकत्वं प्रकार एवेत्यन्वयः । एकमेव 'जलसेकेन घठमनुमिनोमि न धमेलः । इत्थर कानुमिली धूमज्ञाननिष्ठकरणतानिरू, पकत्वाभाववैशिष्टयं बोध्यम् ।। ___ मतान्तरमाह-परे विति, लिङ्गज्ञानस्यापि करणत्वे इत्यन्वयः । धूमं विना धूमज्ञानस्याऽसंभवादनुमितिकारणतावच्छेदकरूपप्रयोजकत्वरूपं हेतुत्वं धूमस्याप्यस्त्येव धूमस्य च हेतुत्वे प्राप्ते तत्र धूमादिपदोत्तरम् “हेतो" इति सूत्रेण तृतीया उपपद्यते एवेति धूमादिपदं मुख्यार्थपरमेव तथा चानुमितौ धूमादिज्ञानकरणकत्वं किं वा धूमादिवानस्य करणत्वमार्थमेवेत्यर्थः । "हेतौ इति सूत्रघटकहेतुत्वस्वरूपमाह-हेतुत्वस्येति, हेतुत्वं हि प्रयोजकत्वरूपमेव तच्च द्विविधं भवति कारणतावच्छेदकस्वरूपं साक्षात् कारणत्वरूपं च तथा च तत्र" हेतौ " इतिसूत्रे कारणतावच्छेदकसाधारणप्रयोजकत्वरूपं हेतुलं विवक्षितमस्ति जनकज्ञानविषयधूमादे-अनुमितिजनकं बडूमज्ञानं तद्विषो यो धूमस्तादृशधूमस्य चानुमितिकारणे धूमनाने विशेषणत्वादनुमितिकारणतावच्छेदकलं प्राप्त तेन चानुमितिप्रयोजकत्वं प्राप्तं तथा च प्रयोजकत्वरूपहेतुत्वस्य धूमे सत्त्वादूमपदात् 'धूमेन वह्निम् ' इत्यत्र " हेतौ " इति सूत्रेण तृतीया प्राप्तेति नेयं करणतृतीयेत्यर्थः। नन्वेवं धूमलिङ्गकवयनुमितौ यत्र लिङ्गान्तराद् घटादिभानं तत्र तादृशसमूहालम्बनात्मकानुमि-.
"Aho Shrutgyanam"