________________
सादर्श:--
( ४२२ )
[ तृतीयाकारके
ऽतिप्रसङ्गश्च वह्निविधेयकानुमितित्वावच्छेदेन प्रयोजकतानिरूपकत्वभानाभ्युप गमेन वारणीयः 1
वस्तुतो जनकादिनिष्ठप्रयोजकतानिरूपकत्वं कार्यस्येव कार्यतावच्छेदकस्याप्यक्षतं प्रतीतिसाक्षिकं च तथा चानुमितिविशेषणतत्तद्विधेयकत्वरूपसुबन्तार्थे एव तृतीयार्थान्वय उपगम्यते । समूहालम्बनानुमितिनिष्ठघटादिविधेयकत्वस्य धूमाद्यप्रयोज्यतया नोक्तातिप्रसङ्गः । ' धूमेन वह्निमनुमिनोमि न घटेन' इत्यादावनुमितौ घटादिप्रयोज्यत्वाभावो नान्वेति, अपि तु नञर्थाभावप्रतियोग्यन्वयिनि वयादिविधेयकत्वे एव. अतो यत्र धूमादिलिङ्गकवचनुमितौ घटाटिरूपलिङ्गाधीनं द्रव्यत्वादिभानं तत्र 'धूमेन वह्निमनुमिनोमि न घटेन ' इति प्रयोगोपपत्तिःसमूहालम्बनरूपतादृशानुमितौ घटादिरूपलिङ्गप्रयोज्यत्वाभावस्याऽसवेपि वहया
तिप्रयोजकत्वं धूमेऽस्त्येवेति 'धूमेन घटमनुमिनोमि " इति प्रयोगापत्तिरूपोत्तिप्रसङ्गः स्यादित्याशङ्क्याह-उक्तेति, तत्र धूमनिष्ठप्रयोजकतानिरूपकत्वमुक्तरीत्या वह्निविधेयकानुमितित्वावच्छेदेन=वह्निविधेयकानुमितावेवास्ति न तु बढविधेयकानुमितावपीति न ' धूमेन घटमनुमिनोमि इति प्रयोगापत्तिरित्यर्थः ।
स्वाभिप्रायमाह - वस्तुत इति, जनकनिष्टं यत्प्रयोजकत्वं तन्निरूपकलं यथा कार्यस्य तथा कार्यतावच्छेदकस्यापि भवति - कार्यतावच्छेदकविशिष्टस्यैव कार्यस्य निरूपकत्वेन तद्विशेषणीभूतकार्यतावच्छेदकस्यापि प्रतीतिसाक्षिकं निरूपकत्वं प्राप्तमेव तथा च कार्यतावच्छेदकरूपं यदनुमितिविशेषणं तत्तद्विधेयकत्वम् वह्यादिविधेयकत्वं तदेव 'वह्निम्' इति सुबन्तार्थस्तस्मिन् प्रयोजकतानिरूपकत्वस्य सत्त्वात् तादृशनिरूपकतासंबन्धेन तत्र तृतीयार्थस्य = प्रयोज्यत्वस्यान्वयो मवतीत्यर्थः । धूमलिङ्गकवयनुमितौ यत्र लिङ्गान्तराद् घटादिभानं तादृशसमूहालम्बनानुमितौ यद् घटविधेयकत्वं तस्य लिङ्गान्तरप्रयोज्यत्वेन धूमप्रयोज्यत्वाभावात् 'धूमेन घटमनुमिनोस ' इत्यतिप्रसङ्गापत्तिर्नास्तीत्याह- समूहेति । धूमेनेति - 'धूमेन वह्निमनुमिनोमि न घटेन' इत्यत्र न घटेन ' इत्यस्य यो घटप्रयोज्यत्वाभावरूपोर्थस्तस्यानुमितावन्वधो न भवति किं तु नञभावस्य प्रतियोगिभूतं यत्प्रयोज्यत्वं निरूपकत्वसंबन्धेन तदन्वयिनि वह्निविधेयकत्वे एवान्वयो भवति तथा च यत्र धूमादिलिङ्गकवयनुमितौ घटादिरूपलिङ्गेन द्रव्यत्वादिमानं भवति तत्र घूमेन वह्निमनुमिनोमि न घटेन' इति प्रयोग उपपद्यते - वह्निविधेयकत्वे घटप्रयोज्यत्वाभावस्य सत्त्वादेव, यदि घटादिप्रयोज्यत्वाभावस्यानुमितावेवान्वयः स्यात्तदात्रानुमितौ घटेन द्रव्यत्वमानेन घटप्रयोज्यत्वस्यैव सत्त्वाद् घटप्रयोज्यत्वाभावस्य चासत्त्वात् ' धूमेन वह्निमनुमिनोमि न घटेन ' इति प्रयोगो न स्यादित्यर्थः । उक्तमुपपादयति- समूहालम्बनेति, यत्र धूमादिलिङ्गकवह्नयनुमितौ घटेन द्रव्यत्वादिभानं तादृशसमूहालम्बनानुमितौ घटादिरूप लिङ्गप्रयोज्यत्वस्यैव सत्त्वेन घटादिरूपलिङ्गप्रयोज्यत्वाभावस्याऽसत्त्वेपि तादृशानुमित्येकदेशभूतत्रह्निविधेयकत्वे
6
"Aho Shrutgyanam"
2