________________
तृतीयाविभक्त्यर्थविचारः] व्युत्पत्तिवाद ।
(४२३ ) दिविधेयकत्वे तदबाधात् । न ह्यनुमितावपि द्रव्यत्वादिविधेयकत्वावच्छिन्नस्य घटोदिलिङ्गप्रयोज्यत्वत्य वयादिविधेयकत्वावच्छेदेनाऽभावो बाधित इति संभवति-प्रयोज्यताया व्याप्यवृत्तित्वविरहात् ।
एतेन- अनुमितौ धूमादिलिङ्गज्ञानकरणकत्वं तृतीयया प्रत्याय्यते करणे एव तृतीया तत्रेतिमतं प्रत्युक्तम्-उक्तस्थलेऽनुमितौ नअर्थान्वययोग्यताया अनुपपत्तेः। वढ्यादिविधेयकत्वे धूमादिज्ञानरूपकरणजन्यतावच्छेदकत्वतदभावौ तृतीयान्तत
समाभिव्याहृतनञ्भ्यां प्रत्याय्यते इत्यपि न सत्- कारकविभक्त्यर्थस्य क्रियातिरिक्तेऽनन्वयात् । तदबाधात्-घटादिरूपलिङ्गप्रयोज्यत्वाभावस्थाऽबाधात् 'धूमेन वह्निमनुमिनोमि न घटेन' इति प्र. योग उपपद्यते एवेत्यर्थः । ननु यद्युक्तसमूहालम्बनानुमितो घटप्रयोज्यत्वाभावो बाधितस्तदा तदेकदेशभूतवतिविधेयकत्वेपि घटप्रयोज्यत्वाभावो बाधित एव भविष्यतीत्याशङ्क्याह- न हीति, उक्तसमूहालम्बनानुमितावपि वहिविषधेयकत्वावच्छेदेन नाम वह्निविधेयकत्वे घटग्रयोज्यत्वस्यामावो बाधितो नास्ति- प्रयोज्यताया व्याप्यवृत्तित्वाभावात् तथा चोक्तस्थले द्रव्यत्व विधेयकत्वे घटप्रयोज्यत्वसत्त्वेपि वह्निविधेयकत्वे घटप्रयोज्यत्वाभावोप्युपपद्यते एवेत्यर्थः । यत्र घटप्रयोज्यत्वं तत्रैव द्रव्यत्वविधेयकत्वमिति द्रव्यत्वादिविधेयकत्वावच्छिन्नस्येति घटप्रयोज्यत्वस्य विशेषणम् । अपिभिन्न. क्रमस्तेन 'वह्निविधेयकत्वावच्छेदेनापि' इत्यन्वयः । __ एतेनेति- यत् केनाप्युक्तम्- 'धूमेन वह्निमनुमिनोमि ' इत्यत्र तत्र धूमपदोत्तरं करणस्वे एव तृतीया तथा च तृतीयया धूमादिलिङ्गज्ञानकरणकत्वमनुमितो प्रत्याय्यते इति तदपि परास्तं वेदितव्यम्- यदि धूमादिलिङ्गज्ञानकरणकत्वमनुमितावेव प्रत्याय्यते न विशेषरूपेण वह्नयादिविधेयकत्वे तदोक्तस्थले यत्र धूमादिलिङ्गकंवह्नयनुमितो घटेन द्रव्यत्वभानं तत्रानुमितौ घटज्ञानकरणकत्वस्यैव सत्त्वेन नअर्थान्वयस्य घटप्रयोज्यत्वाभावान्वयस्य योग्यताया अनुपपत्तेः असत्त्वात् *धूमेन वह्निमनुमिनोमि न घटेन ' इति प्रयोगो नोपपद्येत, यदा च लिङ्गज्ञानप्रयोज्यत्वस्य तत्तत्साध्यविधेयकत्वेऽन्वय उपगम्यते तदा तूक्तरीत्यायं प्रयोग उपपद्यते इत्यर्थः । वयादिविधेयकत्वे इति-यत् केनाप्युक्तम्-धूमादिज्ञानरूपं यत् करणं तादृशकरणनिष्ठजनकतानिरूपितजन्यतावच्छेदकत्वं करणतृतीयार्थभूतं तृतीयान्तेन धूमादिपदेन वह्नयादिविधेयकत्वे एव प्रत्याय्यते तथा तृतीयान्तसमभिव्याहृतनत्रा च 'न घटेन ' इत्यादी घटादिज्ञानरूपकरणजन्यतावच्छेदकत्वाभावोपि धयादिविधेयकत्वे एव प्रत्याय्यते तथा च ' धूमेन वह्निमनुमिनोमि न घटेन ' इति प्रयोगानुपपत्तिर्नास्तीति, तदपि न युक्तम्- धूमादिपदोत्तरतृतीयायाः कारकविभ क्तित्वाश्रयणात् कारकविभक्त्यर्थस्य च क्रियातिरिक्ते वयादिविधेयकत्वेऽन्वयासंभवादित्यर्थः तस्माद्भूमादिपदोत्तरं हेतुतृतीयेवेति यदुक्तं तदेव युक्तम् ।
"Aho Shrutgyanam"