________________
(४२४)
सादर्शः
[ तृतीयाकारके - न चोक्तस्थले बढ्यादिविधेयकत्वावच्छेदेन घटादिरूपालङ्गज्ञानजन्यसावदनुमितिमत्वाभावः पुरुषनिष्ठो नना प्रत्याय्यते तादृशानुमितिघंटादौ वयादिालेङ्गस्वभ्रमदशायां प्रसिद्धति वाच्यम्, 'धूमेन वझेरनुमानमिदं न घटेन' इत्यादावनुमितिमत्वाधभावबोधानुपपत्तेरिति प्राहुः ।
'पर्वतो धूमेन वहिमान् ' इत्यादौ क्रियायोगाभावाद्धेतुतृतीयैव सत्र ज्ञापकज्ञानविषयत्वरूपं हेतुत्वं ज्ञानज्ञाप्यत्वरूपं वा हेतुमत्वं तृतीयार्थः। हेतुशब्दो यद्यपि कारणपर्यायो न तु नापकपर्यायस्तथापि “ हेतौ " इति सूत्रस्थहेतुपदं न सम
ननूक्तस्थले= धूमेन वहिमनुमिनोमि न घटेन । इत्यत्र घटरूपलिङ्गज्ञानजन्यतावती याऽनुमितस्तादृशानुमितिमत्त्वस्याभावो योऽनुमातृपुरुषनिष्ठः स एव नत्रा सामानाधिकरण्यसंबन्धेन वह विधेयकत्वावच्छिन्नायामनुमितो प्रत्याय्यते तथा च नोक्तः कोपि दोषः, सादृशानुमिति:घटादिरूपलिङ्गज्ञानजन्यतावत्यऽनुमितिश्च घटादौ यदा वहयादिलिङ्गत्वप्रमो भवति तदा घटादिना वह्नयनुमितेर्जायमानत्वान्नाऽप्रसिद्धति तादृशानुमितिमत्वस्यापि प्रसिद्धत्वान्नाऽप्रसिद्धप्रतियोगिकाभावप्रत्यायनोपालम्भोपि संभवतीत्याशझ्याह- न चेति । अत्र वह्नयादिविधेयकत्वावच्छिभानुमितिरपि पुरुषे एव घटादिलक्षणलिङ्गज्ञानजन्यतावदनुमितिमत्त्वाभावोपि पुरुषे एवेति सामाना• धिकरण्येन तादृशानुमितिमत्वाभावो वयादिविधेयकानुमितौ प्राप्त इति ध्येयम् । परिहारमाहधमेनेति, 'धूमेन वहिमनुमिनोमि न घटेन । इत्यत्र तिपाऽऽप्रयोपस्थितिसंभवेन तादृशाश्रयीभूतानुमातरि वर्तमानस्यानुमितिमत्त्वाभावस्य वह्निविधेयकानुमिती सामानाधिकरण्येन नना प्रत्यायनसमवेपि 'धूमेन वहेरनुमान मिदं न घटेन' इत्यत्र सिपोऽभावासन्न संभवति तथा वहिपदो. सरद्वितीयाया विधेयत्वार्थिकाया अभावाद् वह्निविधेयकत्वस्याप्युपस्थितिर्न संभवति यदवच्छिन्ने पुरुषनिष्ठानुमितिमत्त्वाभावस्यान्वयः स्यादित्यर्थः ।
पर्वतेति- 'धूमेन वह्निमनुमिनोमि । इत्यत्र क्रियापदोपस्थाप्यक्रियायोगसंभवात् करणततीयासमवेपि 'धूमेन वहिमान् ' इत्यत्र तु हेतुतृतीयेव न करणतृतीया संभवति क्रियायोगाऽसंभवादित्यर्थः । तत्र 'धूमेन वहिमान् ' इत्यत्र । तृतीयार्थ:-धूमपदोत्तरहेतुतृतीयार्थः । ज्ञापकं यद्भूमज्ञानं तद्विषयत्वरूपं हेतुत्वं धूमेस्ति- ज्ञापकहेतो पकज्ञानविषयत्वरूपत्वस्वीकारात्, धूमज्ञानज्ञाप्यत्वरूपं हेतुमत्वं तु वहो- ज्ञाप्यत्वसंबन्धेन वहौ हेत्वन्वयात् । ननु हेतुशन्दः कारणपर्याय एव न तु ज्ञापकपर्यायो धूमश्च बहेपिक एव न कारणमिति कथमत्र घूमपदोत्तरम् " हेतो" इति सूत्रेण तृतीया स्यादित्यत्राह- हेतुशब्देति, यद्यपि हेतुशब्दः कारणपर्यायो न ज्ञापकपर्यायस्तथापि “हेतौ" इति सूत्रघटकं हेतुपदं न समभिव्याहृतं यद्वयादि तन्निरूपितहेतुतामात्रपरं किं तु यथा समभिव्याहृतं यत्कार्य तन्निरूपितहेतुतापरं तथा सममिव्याहृतं यद्
"Aho Shrutgyanam"