________________
हेतुतृतीया } व्युत्पत्तिवादः।
(४२५) भिव्याहृतनिरूपितहेतुतामाऋपरमपि तु समभिव्याहवतज्ज्ञानान्तरनिरूपितहेतुतापरमेवेति समभिव्याहृतवयादिज्ञानहेतुज्ञानविषयधूमादिपदादापिः तृतीया तत्सूत्रेणानुशिष्यते । गुणहेतौ पञ्चम्या विकल्पेन विधायकसूत्रान्वमप्यऽन्यतरनिरूपितहेत्तुताविषयकमेव. अत: 'जाड्यान्दो जाडचेन बा' इत्यत्र जाड्य. स्य हेतुतावद् 'धूमाडिमान् धमेन वा' इत्या धूमादेवव्यादिज्ञानहेतुवा प्रती. यते। हेतुत्वं च पूर्वोक्तं प्रयोजकत्वमेव । गुणपदं च न चतुर्विशतिपरम्धूमादिहेतौ तत्त्वासंभवात् ।
न च तत्र धूमादिपदं तज्ज्ञानपरमेवेवि तादृशगुणत्वमेव. वयादिहेतोरिति वाच्यम्, तत्र धूमादिपदस्य ज्ञानलाक्षणिकत्वेपि 'अज्ञानाद्रदः' इत्यादावs. वहयादि तज्ज्ञाननिरूपितहेतुतापरमपि तस्माद् यथा 'दण्डेन घटः' इत्यत्र सममिन्याहृतघटरूपकार्यनिरूपितहेतुवाचकदण्डपदात्तृतीया तथा 'धूमेन वह्निमान् ' इत्यत्र धूमपदं समभिव्याइतो यो वहिस्तज्ज्ञाननिरूपितहेतुतापरमस्तीति सममिव्याहृतो यो वह्विस्तादृशवविज्ञानस्य हेतुभूतं यमज्ञानं सद्विषयो यो धूमस्तादृशधूमवाचकधूमपदादपि तत्सूत्रेण=" हेतौ " इति सूत्रेण तृतीया प्रामोत्येवेत्यर्थः । एवं गुणरूपहेतुवाचकपदात विकल्पेन एकपक्षे “ विभाषा गुणेऽस्त्रियाम् " इति पञ्चमी भवति तत्रास्मिन् सूत्रेपि “हेतौ " इति सूत्रादेव हेतुपदस्य प्राप्तत्वाद् विधायकसूत्रान्तरम्="विभाषा गुणेऽस्त्रियाम्" इति सूत्रमपि अन्यतरनिरूपितहेतुताविषयकमेव नाम यथा समभिव्याइतकार्यनिरूपितहेतुताविशिष्टहेतुवाचकपदोत्तरं पश्चमी विधायकं तथा समभिव्यातविषयकज्ञाननिरूपितहेतुताविशिष्टहेतुवाचकपदोत्तरमपि पञ्चमीविधायकं तथा च यथा "जाड्याद्वद्धः ' इत्यत्र जाड्यस्य बन्धहेतुता प्रतीयते तेन च जाडयपदात् पञ्चमी प्राप्ता तथा 'धूमावहिमान्' इत्यत्र धूमस्य वह्निज्ञानहेतुता प्रतीयते इति धूमपदादपि पञ्चमी प्राप्तेत्याह-गुणहेताविति । गुणरूपहेतुवाचकपदात् पञ्चमी भवतीत्यत्र यद्धेतुवं तत्स्वरूपमाह- हेतुत्वमिति । पूर्वोक्तम्-(४२१) " हेतुत्वस्य " इत्यादिनोक्तम् । गुणपदार्थमाह- गुणप. चेति । चतुर्विशतिपरम् नैयायिकोक्तचतुर्विंशतिसंख्याकगुणघटककिंचिद्गुणपरं नेत्यर्थः । तत्त्वाऽसंभबार-ताशगुणत्वासंमवात् । “हेतुतावत्" इत्यत्र ‘बन्धहेतुतावत् ' इत्येवं पाठो युक्तः।
नम्वत्र धूमपदं धूमज्ञानपरमेव ज्ञानं च चतुर्विंशतिगुणमध्यप्रविष्टमेवेति वह्नयादिहेतुभूतधूमादिज्ञानस्य तादृशगुणत्वम् चतुर्विशतिगुण-मूहघटककिंचिद्गुगत्वं प्राप्तमेवेत्याशक्याह- न चेति । उत्तरमाह- तत्रेति, तत्र धूमादहिमान् ' इत्यत्र धूमपदस्य धूमज्ञानपरत्वेन हेतुभूतस्य धूमझानस्य चतुर्विशतिगुणत्वसंभवेपि 'अज्ञानारदः । इत्यत्र बन्धहेतुभूतस्याऽज्ञानस्य ज्ञानाभावरूपत्वात् चतुर्विशतिगुणघटकगुणत्वं न संभवताति गुणपदं न चतुर्विंशतिगुणपरम् । नापि गुणपदं धर्ममात्रपरम् - कालिकसंबन्धेन गगनादेरपि धर्मतया सर्वेषामेव पदार्थानां धर्मत्वं संभयतीति गुगपदं कस्यापि व्यावर्तकं न स्यात्. अस्ति च धनेन कुलम्' इत्यादौ धनादिव्या
"Aho Shrutgyanam"