________________
सादर्श:
[ तृतीयाकारकेभावरूपबन्धादितास्तथात्वासंभवात् । नापि धर्ममात्रपरम्- गगनादेरापे कालिकसंबन्धेन धर्मतयाऽव्यावर्तकत्वात् । समवायादिना धर्मत्वं चाऽभावाद्यसंग्रा हकम् । नापि द्रव्याश्रितत्वम्- 'सत्तावान् गुणत्वात् ' इत्यादौ पञ्चम्यन्तस्याsorक्षणिकत्वपक्षे पञ्चम्यनुपपत्तेः । किं तु कार्यस्य ज्ञाप्यस्य वाऽऽश्रये आश्रितत्वम्, जाडयादेः स्वप्रयोज्यबन्धाश्रये धूमादेश्व स्वज्ञाप्यवह्नयाद्याश्रये आश्रित - त्वाद् गुणत्वम् । हेतौ तद्विशेषणप्रयोजनं च ' पितुः पाण्डित्येन पुत्र आहूतः धूमस्य स्वस्मिन् सत्त्वेन पर्वतो वह्निमान् ' इत्यादौ पञ्चमीवारणम् ।
C
ज्ञापकत्वं च तज्ज्ञानजनकप्रमाविषयत्वम्- ज्ञाप्यत्वमपि प्रमाजन्यज्ञानविषय त्वम् अतो वहयादेव्र्व्याप्यताभ्रमेण धूमादिज्ञापकत्वसत्त्वेपि वह्निना वह्नेर्वा धूमवानयम्' इत्यादयो न प्रयोगाः । प्रमात्वं च यावद्धमभिन्नत्वरूपं विवक्षणीयं तेन 'धूमव्याप्यो वह्निः' इत्यादिज्ञानस्य वह्नित्वाद्यंशे प्रमात्वमादाय नोक्ताति
6
( ४२६ )
L
वर्तकमिति न गुणपदं धर्ममात्रपरमित्याह - नापीति । नापि समवायसंबन्धेन धर्मत्वं गुणत्वमिति युक्तम् - अभावादीनां समवायेन धर्मत्वाभावात् ' विद्याऽभावाद् दरिद्रः ' इत्यत्र विद्याभावपदात् पञ्चमी न स्यादित्याह - समवायादिनेति । नापि गुणत्वं द्रव्याश्रितत्वम्- सत्तावान् गुणस्वात् ' इत्यत्र गुणत्वस्य गुणवृत्तित्वेन द्रव्याश्रितत्वाभावाद् गुणत्वपदात् पञ्चमी न स्यादित्याहनापीति, गुणत्वपदस्य लक्षणया गुणबोधकत्वे तु गुणस्य द्रव्याश्रितखेन गुणत्वपदात् पञ्चमी संभवत्येवेत्युक्तम् - अलाक्षणिकत्वपक्षे इति । गुणपदार्थमाह- किं त्विति, उदाहरति- जाड्या देरिति । तौ गुणत्वविशेषण प्रयोजनमाह - हेताविति, ' पितुः पाण्डित्येन पुत्र आहूतः ' इत्यत्राह्नाने पाण्डित्यस्य हेतुत्वेपि पितृवृत्तित्वेन पुत्रवृत्तित्वाभावात् पुत्रगुणत्वं नास्तीति पञ्चमीपरिहारस्तथा धूमस्य स्वस्मिन् सत्त्वेन पर्वतो वह्निमान् ' इत्यत्र सत्त्वस्य धूमगुणत्वमस्ति न तु पर्वतगुणत्व मिति सत्त्वपदात् पञ्चमीवारणमेव प्रयोजनमित्यर्थः । अत्र च " विभाषा गुणेsस्त्रियाम् "" इति सूत्रं द्रष्टव्यम् ।
ज्ञापकत्वमिति - यथा - वह्निज्ञानजनिका या धूमप्रमा तादृशप्रमाविषयत्वं ज्ञापकत्वं धूमस्य । घूमप्रमाजन्यं यद्वह्निज्ञानं तादृशज्ञानविषयत्वं ज्ञाप्यस्वं तच्च वह्नेरित्यर्थः । प्रमात्वप्रवेशस्य फलमाहअत इति, वह्नौ धूमव्याप्यत्वभ्रमे जाते वह्नेर्धूमज्ञापकत्वसंभवेपि धूमज्ञानजनकप्रमाविषयत्वरूपस्य धूमज्ञापकत्वस्य वह्नावऽसत्त्वात् ' वह्निना धूमवान्' 'वह्नेर्धूमवान्' इत्यादयः प्रयोगा न भवन्ति । उक्तज्ञाप्यज्ञापकलक्षणप्रविष्टप्रमायां यावद्भमभिन्नत्वस्य ( व्याप्यवृत्तित्वस्य ) विवक्षायाः फलमाह - तेनेति, 'धूमव्याप्यो वह्निः" इत्यादिज्ञानस्य वह्नयाद्यंशे प्रमात्वाद् वह्नेस्तादृशप्रमाविषयत्वेपि उक्तातिप्रसङ्ग := ' वह्नेर्धूमवान्' इत्यादिप्रयोगापत्तिर्नास्ति- 'धूमव्याप्यो वह्निः ' इत्यादिज्ञानस्य धूमव्याप्यत्वांशे भ्रमात्मकत्वाद् वशे प्रमात्वेपि साकल्येन प्रमात्वाभावेन यावद्मभिन्नत्वाभावा
"
"Aho Shrutgyanam"