________________
तृतीयान्तप्रयोगविशेषविचारः ]
व्युत्पत्तिवादः।
(४२७)
प्रसङ्गः । द्रव्यत्वादेः प्रमेयत्वावच्छिन्नवत्यादिज्ञापकत्वेपि विशिष्टद्रव्यत्वत्वादिना वह्रित्वाद्यवच्छिन्नज्ञापकत्वेपि च 'पर्वतो पहिमान् द्रव्यत्वाद् द्रव्यत्वेन वा' इत्यादिर्न प्रयोगः-अन्वयितावच्छेदकवद्वित्वद्रव्यत्वत्वादिना ज्ञाप्यज्ञापकभावस्य तृतीयादिना बोधनात् तत्र तेन रूपेण ज्ञाप्यज्ञापकभावविरहात् ।
एवं ज्ञाप्यवढ्यादिमत्त्वान्वयितावच्छेदकपर्वतत्वावच्छिन्नांशे ज्ञापकत्वं ज्ञाप्यत्वं वा प्रतीयते इत्यपि नियमस्तेन 'पर्वतो वहिमान् महानसत्वात् तेन वा' इत्यादयो न प्रयोगाः।
अत्रेदमवधेयम्- 'पर्वतो वहिमान् धूमान्न द्रव्यत्वान्नापि महानसत्वात्' इत्यादौ ना वह्नयादौ द्रव्यत्वमहानसत्वादिज्ञानज्ञाप्यत्वाभावबोधने बाधः, तत्र प्रमेय. त्वादिना द्रव्यत्वादिज्ञानज्ञाप्यत्वस्य महानसादौ महानसत्वादिज्ञानज्ञाप्यत्वस्य च सत्त्वात्( सत्त्वेपि ) वह्नित्वादिना द्रव्यत्वादिज्ञाप्यत्वस्य पर्वतादौ महानसदित्यर्थः । द्रव्यत्वादेरिति-यत्र द्रव्यत्वं तत्र प्रमेयत्वं भवत्येवेति व्याप्त्या यद्यपि प्रमेयत्वेन रूपेण वढेझपकत्वं द्रव्यत्वस्यास्त्येव तथा वह्नित्वेन वढेझपकत्वमपि विशिष्टद्रव्यत्वत्वेन रूपेण द्रव्यत्वम्यास्त्येव यथा विशिष्टद्रव्यत्वं हि धूमविशिष्टपर्वतवृत्तित्वाद् धूमविशिष्टपर्वतत्वरूपमेव तच्च पर्वतेस्त्येवेति तस्य तत्र पर्वते वह्नित्वेन वह्वीपकत्वं विज्ञेयम् तथापि ' पर्वतो वह्निमान् द्रव्यस्वात् ' ' पर्वतो वह्निमान् द्रव्यत्वेन ' इत्यादयः प्रयोगा न भवन्ति-अत्रान्वयितावच्छेदकं यद् वह्नित्वं द्रव्यत्वत्वं च ताभ्यामेव रूपाभ्यां तृतीयादिना ज्ञाप्यज्ञापकभावो बोधयितुं शक्यते न तु प्रमेयत्वादिना रूपेण. तत्र उक्तोदाहरणे च तेन रूपेण वह्नित्वद्रव्यत्वत्वरूपेण वह्निद्रव्यत्वयोर्जाप्यज्ञापकभाव एव नास्ति यस्य तृतीयादिना बोधनं स्यादिति न ' पर्वतो वह्निमान् द्रव्यत्वात् , इत्यादिप्रयोगापत्तिरित्यर्थः । __एवमिति-यथा वद्वित्वेन धूमत्वेनैव ज्ञाप्यज्ञापकभावोस्ति एवं ज्ञाप्यो यो वह्निस्तादृशवह्निमत्त्वस्य यदन्वयितावच्छेदकं पर्वतत्वं तादृशपवर्तत्वावच्छिन्नस्यापि ज्ञापकत्वं ज्ञाप्यत्वं वा प्रतीयते यथा धूमविशिष्टपर्वतस्य ज्ञापकत्वं वह्निविशिष्टएर्वतस्य च ज्ञाप्यत्वमित्यपि नियमस्तथा च यथा ‘पर्वतो वह्निमान् धूमविशिष्टपर्वतत्वात् । इति प्रयोगो भवति तथा महानसत्वस्य पर्वतेऽसत्त्वेन ज्ञाध्यवह्निमत्त्वान्वयितावच्छेदकत्वाभावात् पर्वतवृत्तिवह्निज्ञापकत्वं न संभवतीति ' पर्वतो वह्निमान् महानसत्वात् । इत्यादयः प्रयोगा अपि न भवन्तीत्यर्थः। ___स्वाभिप्रायं प्रकटयति-अन्नेदमिति, यद्यपि तत्र पर्वते वह्नौ प्रमेयत्वेन रूपेण द्रव्यत्वज्ञानज्ञाव्यत्वमस्त्येव महानसे च वर्तेर्वह्नित्वरूपेणापि महानसत्वज्ञानज्ञाप्यत्वमस्ति तथापि 'पर्वतो वह्निमान् धूमान्न द्रव्यत्वान्नापि महानसत्वात् ' इत्यादौ नत्रा वह्नयादी द्रव्यत्वमहानसत्वादिज्ञानज्ञाप्यत्वाभावबोधनं न संभवति-वह्नित्वेन रूपेण बढेव्यत्वज्ञाप्यत्वस्याऽप्रसिद्धत्वात् पर्वते च वढेमहानसत्वज्ञाप्यत्वस्याऽप्रसिद्धत्वाद् अप्रसिद्धप्रतियोगिकामावस्य बोधनासंभवादिति
"Aho Shrutgyanam"