________________
(४२८)
सादर्श:
[ तृतीयाकारकेत्वादिज्ञाप्यत्वस्प चाप्रसिद्ध्या नाभावप्रत्यायनसंभव इति ज्ञानप्रयोज्यत्वं ज्ञानजन्यवावच्छेदकलरूपं समभिव्याहतपर्वतादिविशेष्यतानिरूपितं विधेयत्वं च विश. कलितं पञ्चम्यर्थः, विशिष्टलाभोऽन्वयबलात्, एवं चोक्तस्थले नबा. विधेयतार्या द्रव्यत्वमहानसत्वादिज्ञानप्रयोज्यत्वाभावः प्रत्यारपते, तत्प्रयोज्यत्वं च प्रमेय. स्वाद्यवच्छिन्नविधेयतायां प्रसिद्धम् ।
न चैवम् 'पर्वतो वरिमान न धूमात्' इत्यादेरपि प्रसन:- धूमत्वाबवच्छिन्नविषयकज्ञानाप्रयोज्यतत्तद्वित्वाद्यवच्छिन्नविधेयताया वह्नयादावऽबाधितत्वादिति वाच्यम्, पर्वतादिविशेष्यतानिरूपित्तवहित्वाद्यवच्छिन्नविधेयतात्वावच्छेदेन विधेयतायां नजाऽभावान्वयबोधोपगमात् ।
हैतो नजन्यतावच्छेदकत्वरूपं यज्ज्ञानप्रयोज्यत्वं समभिव्याहृतपर्वतादिविशेष्यतानिरूपितं यद् विधेयत्वं च तयोः पञ्चम्या विशकलिता खण्डश एव शक्तिः स्वीक्रियते विशिष्टलाभः ज्ञानप्र. योज्यविधेयत्वलाभश्चाकाङ्क्षावशादेव जायते तथा चोक्तस्थले द्रव्यत्वज्ञानप्रयोज्यवह्निविधेयत्वस्य महानसत्वज्ञानप्रयोज्यपर्वतीयवह्निविधेयत्वस्य च विशिष्टस्याऽप्रसिद्धया तदऽभावबोधनाऽसंभवेपि वहिविधेयतायां द्रव्यत्वमहानसत्वादिज्ञानप्रयोज्यत्वाभावो नना बोधयितुं शक्यते-द्रव्यत्वज्ञानप्रयोज्यत्वस्य प्रमेयत्वावच्छिन्नविधेयतायां प्रसिद्धत्वात्. महानसत्वज्ञानप्रयोज्यत्वस्य महानसीयवहिविधेयतायां प्रसिद्धत्वान् तदभावबोधने विरोधाभावादित्यर्थः।
ननु ज्ञानप्रयोक्फ्रके विशेयवे च पृथक पृथक् शक्तिस्वीकारेण यथोक्तरोत्या. वहिविधेयतायां द्रव्यत्वज्ञानप्रयोज्यत्वामावस्य सत्वात् 'पर्वतो वन्हिमान् धूमान द्रव्यत्वात् ' इति प्रयोगो मदिर एवं तत्तद्वह्नित्वावच्छिन्नविधेयता हि तत्तद्धमत्वावच्छिन्नविषयकज्ञानप्रयोज्या भवति न तु सामान्यतो धूमत्वावच्छिन्नविषयकज्ञानप्रयोज्येति धूमत्वावच्छिन्नविषयकज्ञानाऽप्रयोज्यायास्तत्तद्वहित्वावच्छिन्नविधेयताया वह्नावऽबाधितत्वात् ' पर्वतो वह्निमान् न धूमात् । इत्यपि प्रयोगः स्पादित्याशङ्क्याह-न चैवमिति । उत्तरमाह-पर्वतादीति, 'पर्वतो वहिमान् न घूमात ' इत्यत्र नत्रा पर्वतनिष्ठविशेष्यतानिरूपिता या बह्नित्वावच्छिन्ना यावद्विधेयता ताइविधेयतास्वावच्छेदेन धूमत्वावच्छिन्नविषयकज्ञानाऽप्रयोज्यत्वं बोधयितुं शक्यते तत्तु न संभवतिपर्वतनिष्ठविशेष्यतानिरूपितवद्वित्वावच्छिन्नविधेयतात्वावच्छेदेन धूमस्वावच्छिन्नविषयकज्ञानाऽप्रयोज्यत्वस्याऽसत्त्वादिति न ' पर्वतो वहिमान् न धूमात् । इति प्रयोगस्यापत्तिरित्यर्थः ।
ननु ' पर्वतो वह्निमान् न धूमात् । इत्यत्र विधेयतात्वेनेक विधेयता पञ्चम्यर्थोस्ति न तु बहित्वावच्छिन्नविधेयता पञ्चम्यों न वा वहित्वावच्छिन्न विधेयत्तात्वमन्वयितावच्छेदकं तथा च पत्र वह्नित्वावच्छिन्नविधेयतात्वमन्वयितावच्छेदकं स्यात्तत्रैव तदवच्छेदेन बहित्वावच्छिन्नविधे. यतात्वावच्छेदेनेतरस्य=अभावादिपदार्थस्यान्वयः संभवति न त्वत्रापि-अत्र तुवहिवावच्छिन्नत्वेना
"Aho Shrutgyanam"