________________
प्रकृतविवाद:
व्युत्पत्तिवादः। यत्र पद्वित्वावच्छिन्नविधेयतात्वमन्वयितावच्छेदकं तत्रैव तदवच्छेदेनेतरान्वयः संभवति. अत्र च वद्वित्वावच्छिन्नत्वाविशेषितं विधेयतास्वमेव तथेति कथं तदरच्छेदेनाभावान्वय इति तु न शक्यम्-पञ्चम्याद्यर्थविधेयताया वहयादौ वहित्वाधवच्छेदेनाऽन्वयोपगमात् तदवच्छेदेन तदन्वये चावच्छेदकतद्रूपस्य तद्विशेषणांशे धर्मिपारतन्त्र्येण प्रकारस्वात् । प्रकृते स्वरूपसंबन्धरूपवदित्वाद्यवच्छिन्नत्वेन सहितस्य विधेयतात्वस्यैवान्वयितावच्छेदकत्वात् ।। _ वयादिपदमेव तदवच्छिन्नविधेयताशालिज्ञानपरं तदुसरमतुबादिप्रत्ययो विशेष्यतारूपसंबन्धपर इति प्राचीनमते तु बहित्वाद्यवच्छिन्नविधेयतात्वस्यान्वयितावच्छेदकत्वमविवादमेव ।। ऽविशेषितमेव विधेयतात्वं तथा अन्वयितावच्छेदकमस्तीति कथं तदवच्छेदेन वह्नित्वावच्छिन्नविधेयतात्त्रावच्छेदेनाऽभावान्वयः धूमत्वावच्छिन्नविषयकज्ञानप्रयोज्यत्वाभावस्यान्वयः स्यात् ? तथा च किंचिद्विधेयतायामभावान्ययो वक्तव्यस्तद्विधेयतायां च धूमत्वावच्छिन्नविषयकज्ञानप्रयोज्यत्वाऽभावस्य न बाध इति 'पर्वतो वह्निमान् न धूमात् । इति प्रयोगः स्यादेवेति “ पर्वतादिविशेष्यतानिरूपित " इत्यादिपरिहारो न युक्तिसंगत इत्याशङ्कायामाह-योति । परिहारमाह-पञ्चम्याद्यर्थेति, तदवच्छेदेन-वह्नित्वावच्छेदेन तदन्वये पञ्चम्यर्थविधेयताया अन्वये चावन्छेदकतद्रूपस्य-वह्रित्वस्य तद्विशेषणांशे वह्निविशेषणीभूतपञ्चम्यर्थविधेयतायां धर्मिपारतन्त्र्येण= पहिद्वारा प्रकारत्वादित्यन्वयः । उपसंहरति-प्रकृते इति, अत्र विधेयतायां यद्यप्यनतिप्रसक्तत्वरूपं वह्नित्वावच्छिन्नत्वं न संभवति-जलत्वाद्यवच्छिन्नत्वस्यापि संभवात् तथापि स्वरूपसंवन्धरूपं तु संभवतीति स्वरूपसंबग्धरूपं यद् वह्नित्वावच्छिन्नत्वं तेन सहितस्यैव विधेयतात्वस्यान्वयितावच्छेदकत्वं प्राप्त तथा च वह्नित्वस्य विधेयताविशेषणत्वे प्राप्ते वह्नित्वावच्छिन्नविधे. यतात्वमेवाऽन्वयितावच्छेदकं जातं वह्नित्वावच्छिन्नविधेयतात्वावच्छेदेन तु धूमत्वावच्छिन्नविषयकज्ञानाऽप्रयोज्यत्वं नास्त्येवेति न ' पर्वतों वहिमान् न धूमात् ' इति प्रयोगस्यापत्तिरित्यर्थः ।
प्राचीनमतमाह-वयादिपदमिति, वह्निपदं वहित्वावच्छिन्नविधेयताशालिज्ञानपरं वयादिपदोत्तरवर्तमानमतुबादिप्रत्ययश्च विशेष्यतारूपसंबन्धपरः पञ्चम्यर्थश्च पूर्ववत् प्रयोज्यत्वं तथा च 'पर्वतो वहिमान् । इत्यत्र 'धूमज्ञानप्रयोज्यं यद् वहिवावच्छिन्नविधेयताकज्ञानं तद्विशेष्यताश्रयः पर्वतः । किं वा 'विशेष्यतासंबन्धेनोक्तविधेयताकज्ञानवान् पर्वतः । इति शाब्दबोधः, उक्तानुमिती पर्वते विशेष्यता भासते एव । एतादृशप्राचीनमते तु कह्नित्वावच्छिन्नविधेयतात्वस्याऽन्वयिसावच्छेदकत्वमऽविवादमेव-वह्निपदस्यैव वहित्वावच्छिन्नविधेयताशालिज्ञानपरत्वात्, वह्नित्वाव. च्छिन्नविधेयतात्वावच्छेदेन तु धूमत्वावच्छिन्नविषयकज्ञानप्रयोज्यत्वाभावस्य बाधात् ' पर्वतो यहिमाल धूमात् । इत्यादिप्रयोगस्यापत्तिर्नास्त्येवेत्यर्थः ।
"Aho Shrutgyanam"