________________
( ४३० )
सादर्श:
[ तृतीयाकारके
विधेयतायास्तत्तत्संबन्धावच्छिन्नविधेयतात्वेन पञ्चम्याद्यर्थत्वं स्वीकरणीयं तेन 'अयं जानाति आत्मत्वान्न द्रव्यत्वात्' इत्यादौ विषयतासंबन्धावच्छिन्नायां प्रकृत विशेष्यतानिरूपितज्ञानविधेयतायां द्रव्यत्वादिरूपलिङ्गज्ञानप्रयोज्यत्वसत्त्वेपि नावच्छेदकावच्छेदेनाऽभावान्वयायोग्यत्वम्- संबन्धविशेषावच्छिन्नविधेयतात्वरूपाऽन्वयितावच्छेदकावच्छेदेनाऽभाववत्त्वबोधात् ।
एवं ज्ञानप्रयोज्यत्वमविष्टं ज्ञानमपि तत्तत्संबन्धावच्छिन्नप्रकारकत्वविशेषितमर्थ:, तेन समवायेन हेतुत्वपरस्य ' अयं वह्निमान् तद्रूपान्न तु धूमात् ' इति - प्रयोगस्य नाऽयोग्यता - वह्निविधेयतायां संयोगेन धूमप्रकारकज्ञानप्रयोज्यत्वसत्त्वेपि समवायसंबन्धावच्छिन्नतत्प्रकारताशा लिज्ञान प्रयोज्यतात्वरूपान्वयितावच्छेदकावच्छिन्नाभावस्यांऽबाधात् । संबन्धविशेषघटितधर्मस्यान्वयितावच्छेद
नवीनमतं परिष्करोति - विधेयताया इति, तत्तत्संबन्धावच्छिन्नैव विधेयता पञ्चम्यर्थ इत्यर्थः । फलमाह - तेनेति, यदि तत्तत्संबन्धावच्छिन्नविधेयता पञ्चम्यर्थो न स्यात्तदा " अयं जानाति आत्मत्वान्न द्रव्यत्वात् ' इति प्रयोगस्याप्रामाण्यं स्यात् वटादिद्रव्येपि विषयतासंबन्धेन ज्ञानं वर्तते इति तत्र ज्ञानत्वावच्छिन्नविधेयत्तायां द्रव्यत्वज्ञानाप्रयोज्यत्वस्याभावात् तत्र द्रव्यत्वस्यैव ज्ञानप्रयोजकत्वात् यदा च तत्तत्संबन्धावच्छिन्नविधेयता पञ्चम्यर्थस्तदा विषयतासंबन्धावच्छिनायां प्रकृत ( घटादिनिष्ट ) विशेष्यतानिरूपितज्ञाननिष्टविधेयतायां द्रव्यत्वरूपलिङ्गज्ञान प्रयोज्यत्वस्य सत्त्वेपि अवच्छेदकावच्छेदेन ज्ञानत्वावच्छिन्नविधेयतात्वावच्छेदेनाऽभावान्त्रयस्य== द्रव्यत्वज्ञानप्रयोज्यत्वाभावान्वयस्याऽयोग्यत्वं नास्ति - संबन्धविशेषावच्छिन्नविधेयतात्वरूपं यदन्वयितावच्छेदकं तदवच्छेदेनैवाऽमाववत्त्वबोधात् = अभावान्वयबोधस्य जायमानत्वात्, तथा च 'भयं जानाति ( ज्ञानवान् ) आत्मत्वान्न द्रव्यत्वात् ' इत्यत्र समवायसंबन्धावच्छिन्नैव विधेयता पञ्चम्यर्थोस्ति समवायसंबन्धावच्छिन्नज्ञानीयविधेयतायां च आत्मत्वज्ञानप्रयोज्यत्वमेवास्ति न तु द्रव्यत्वज्ञानप्रयोज्यत्वमिति द्रव्यत्वज्ञानप्रयोज्यत्वामात्राऽन्वययोग्यतायाः सत्त्वान्न अयं जानाति आत्मत्वान्न द्रव्यत्वात् ' इति प्रयोगस्यानुपपत्तिरित्यर्थः ।
साध्यनिष्ठविधेयतां परिष्कृत्य विधेयताप्रयोजकज्ञानं परिष्करोति - एवमिति, यथा विधेयतायां तत्तत्संबन्धावच्छिन्नत्वस्य निवेशः कृत एवं ज्ञानप्रयोज्यत्वमपि यद्विधेयतायां वर्तते तत्प्रविष्टं यज्ज्ञानं प्रयोजकीभूतज्ञानं तन्निष्ठप्रकारकत्वेपि तत्तत्संबन्धावच्छिन्नत्वस्य निवेशः कार्य इति यद् धूमपदस्य धूमज्ञानमर्थ इत्युक्तं तत्र धूमपदस्य तत्तत्संबन्धावच्छिन्नप्रकारकत्वविशिष्टं ज्ञानमर्थ इत्यर्थः । फलमाह - तेनेति, अयम् = वयवयवः वह्निमान् तद्रूपात् = यह्नित्वात् वह्न्यवयवे समवायेन वह्नित्वं वर्तते तदेव हेतुः, वह्नयवयवे समवायेन धूमस्य वह्निज्ञापकत्वं न संभवतीत्युक्तम् ' न धूमात् ' इति । अयोग्यताsभावमुपपादयति-वहीति । यदि तत्तत्संबन्धावच्छिन्नप्रकारकत्व विशिष्टज्ञानस्य ज्ञानप्रयोज्यत्वाशे प्रवेशो न स्यात्तदा ' अयं वह्निमान् तद्रूपान्न तु घूमात् ' इति प्रयोगस्य
" Aho Shrutgyanam"