________________
केनहेतुनेस्यादिप्रयोगाः व्युत्पत्तिवादः।
(४३१) कतया.भाननियामकं तु तात्पर्यमेव । वहयादिविधयताया व्याप्त्यादिघटकाभावादिज्ञानप्रयोज्यत्वसत्त्वेपि ' पर्वतो वद्विमानऽभावात् ' इत्यादिर्न प्रयोगः-मुख्यविशेष्यतानिरूपितप्रकारताया एव निवेशनीयत्वादिति दिक। __ 'केन हेतुना' 'कस्मै हेतवे' इत्यादौ विभक्तिभिर्हेतुताविशिष्टे हेतुता बोधयितुम
शक्या-पौनरुत्त्यादिति तु नशक्यम्-हेतुशब्दस्य स्वरूपयोग्यपरत्वात् विभक्तेः प्रामाण्यं न स्यात्-संयोगसंबन्धावच्छिन्नप्रकारकत्वविशिष्टधूमज्ञानप्रयोज्यत्वस्यैव वहिनिष्ठविधेयतायां सत्त्वेन संयोगसंबन्धावच्छिन्नप्रकारकत्वविशिष्टधूमज्ञानप्रयोज्यत्वाभावस्याऽसत्त्वात्, यदा च तत्तत्संबन्धावच्छिन्नप्रकारकत्वविशिष्टमेव ज्ञानं ज्ञानप्रयोज्यत्वांशे प्रविष्टं तदा तु 'अयं वह्निमान् तपाद् न तु धूमात् । इत्यत्र समवायेनैव हेतोहेतुत्वममीष्टमस्तीति प्रयोजकीभूतहेतुज्ञाननिष्ट प्रकारकत्वं समवायसंबन्धावच्छिन्नं जातमिति समवायसंबन्धावच्छिन्नप्रकारकत्वविशिष्टहेतुज्ञानं प्रयोजकं ग्राह्य तथा च वह्निविधेयतायां संयोगेन धूमप्रकारकं यज्ज्ञानं तत्प्रयोज्यत्वसत्त्वेपि-संयोगसंबन्धावच्छिन्नप्रकारकत्वविशेषितधूमज्ञानप्रयोज्यत्वसत्त्वेपि समवायसंबन्धावच्छिन्ना या तत्प्रकारता धूमनिष्ठा प्रकारता तादृशप्रकारताशालि (समवायसंबन्धावच्छिन्नप्रकारकत्वविशिष्टम् ) यज्ञानं समवायेन धूमज्ञानं तादशज्ञानप्रयोज्यतात्वरूपं यदन्वयितावच्छेदकं तदवच्छिन्नाभावस्य समवायेन धूमज्ञानप्रयोज्यत्वाभावस्यात्र वह्निविधेयतायामऽबाधात्-संभवात्-चह्निविधेयतायां समवायेन धूमज्ञानप्रयोज्यत्वस्याऽसंभवात् वह्नित्वज्ञानप्रयोज्यत्वस्य च संभवात् ' अयं वह्निमान् तद्रूपान्न तु धूमात् । इति प्रयोगस्याऽयोग्यता=अनुपपत्तिर्नास्तीत्यर्थः । ननु साध्यनिष्ठविधेयतायां प्रयोजकीभूतज्ञाननिष्ठप्रकारतायां चामुकसंबन्धावच्छिन्नत्वमस्ति अमुकसंबन्धावच्छिनत्वं नास्तीत्यत्र किं नियामकमित्याशझ्याह-संबन्धविशेषेति, धर्मस्य=विधेयतात्वादेः । ननु वह्निविधेयतायां व्याप्तिविशिष्टधूमज्ञानप्रयोज्यत्वं वक्तव्यं व्याप्तिश्च साध्याभाववदऽवृत्तित्वमिति वह्निविधेयतायां व्याप्तिविशिष्टधूमज्ञानघटकाभावप्रयोज्यत्वमपि प्राप्तमिति ‘पर्वतो वह्निमानऽभावात् ' इत्यपि प्रयोगः स्यादित्याशङ्क्याह-वह्नयादीति । प्रयोगापत्त्यऽभावे हेतुमाहमुख्येति, अत्र मुख्यविशेष्यता पर्वतनिष्ठा प्राह्या तथा च पर्वतनिष्ठमुख्यविशेष्यतानिरूपिता प्रकारता धूमे एवं वर्तते न तूक्ताभावे इति न 'पर्वतो वह्निमानऽभावात् ' इति प्रयोगापत्तिः । धूमनिष्ठापि सा प्रकारता स्वनिरूपितप्रकारितावत्त्वसंबन्धेन धूमज्ञाने वर्तते स्वं धूमनिष्टप्रकारता । उक्ताभावे तु व्याप्तिनिष्ठविशेष्यतानिरूपितप्रकारता वर्तते. व्याप्तौ च धूमनिष्ठ. विशेष्यतानिरूपितप्रकारता वर्तते. धूमे च पर्वतनिष्ठविशेष्यतानिरूपितप्रकारता । मुख्यविशेध्यता पर्वते एवेत्यर्थः । __ केनेति- 'केन हेतुना' इत्यत्र तृतीयया हेतुत्वं बोध्यते प्रकृतिभूतहेतुशब्देन च हेतुत्वविशिष्टहेतुपदार्थों बोभ्यते हेतुत्वविशिष्ट हेतुत्वं च न बोधयितुं शक्यते पौनरुक्त्याद् उद्देश्यतावच्छेदकविधेययोरेक्यापाताचेत्यर्थः । उत्तरमाह-- हेतुशब्दस्येति, हेतुशब्देन स्वरूपयोग्यतामात्रविशिष्टो हेतुर्बो
"Aho Shrutgyanam"