________________
( ४३२ )
सादर्श:
[ तृतीयाकारकेफलोपधानपरत्वात्, ' दण्डवान् रक्तदण्डवान्' इतिवत् कार्यविशेषानुपरक्तहेतुताविशिष्टे कार्यविशेषोपरक्तहेतुताबोधेऽनाकाङ्क्षताविरहाच्च । न चान्वय बोधसंभवेपि हेतुशब्दप्रयोगवैयर्थ्यम् - फलोपधायकतालाभे स्वरूपयोग्यताया अर्थालाभ संभ वादिति वाच्यम्, विभक्तेरन्यार्थताया अप्यन्यत्र दृष्टत्वाद् हेतुतापरस्त्वनिश्वयार्थं तत्प्रयोगात् ।
सहार्थयोगेपि साहित्यप्रतियोगिवाचकपदात् तृतीया - 'पुत्रेण सहागतः' इत्यादौ । अथ यदि सहशब्दार्थः समभिव्याहृत पदोपस्थाप्यक्रियासमानकालीनक्रियान्वयित्वम्, तदन्वयित्वं च समभिव्याहृतक्रियाबोधकपदेन क्रियाया यादृशः संबन्धः साहित्यान्वयिनि प्रत्याय्यते तादृशतत्संबन्ध एव स च 'पुत्रेण' इत्यादी कर्तृत्वम्, 'दध्ना सहौदनो भुज्यते' इत्यादौ कर्मत्वादिः, तृतीयार्थीपि स एव संबन्धः, तथा च पुत्रकर्तृकागमनसमानकालीनागमनकर्तृत्व-दधिकर्मकभोजनसमानकालीन भोजनकर्मत्वादिकं पुरुषौदनादौ तत्रतत्र प्रतीयते इत्युच्यते ?
"
भ्यते तृतीयया च फलजनकत्वविशिष्टहेतुत्वं बोध्यते तथा च यथा दण्डवान् रक्तदण्डवान् इत्यत्र पूर्वोक्तरीत्या नान्वयबोधानुपपत्तिस्तथात्रापि नान्वयबोधानुपपत्तिरित्यर्थः । ननु यत्र फलोपधायकता=फलजनकता भवति तत्र स्वरूपयोग्यतापि भवत्येवेति तृतीयया फलोपधायकताया लाभे स्त्ररूपयोग्यताया अप्यर्थालाभसंभवाद्धेतुशब्दप्रयोगवैयर्थ्यं तु स्यादेवेत्याशङ्क्याहन चेति । परिहारमाह- विभक्तेरिति, तृतीया तु करणत्वादावपि भवतीति हेतुशब्दप्रयोगं विना तृतीयाया हेतुत्व परत्वनिश्चयो न संभवतीति न हेतुशब्दप्रयोगवैयर्थ्यम् । तत्प्रयोगात् = हेतु शब्दप्रयोगात् ।
सहार्थेति - सहार्थयोगे - प्रतियोगित्वसंबन्धेन साहित्यार्थः साहित्यप्रतियोगिपुत्रादौ वर्तते इति पुत्रादिपदात् सह युक्तेऽप्रधाने " इत्यनेन तृतीया भवतीत्यर्थः ।
८
शङ्कते - अथेति, ' पुत्रेण सहागतः ' इत्यत्र समभिव्याहृतपदम् आगतः इति क्रियाबोधकपदं तदुपस्थाप्या या पुत्रनिष्ठाऽऽगमनक्रिया तत्समानकालिका या पितृनिष्ठाऽऽगमनक्रिया तदन्वयित्वं ( तदाश्रयत्वम् ) सहशब्दार्थः । उक्तक्रियान्वयित्वस्वरूपमाह - तदन्वयित्वमिति, साहित्यान्वयिनि - पितरि पुत्रे वा तादृशतत्संबन्ध एव तादृश एव तत्संबन्ध: - क्रियासंबन्धस्तदन्वयिश्वपदार्थः । सः क्रियासंबन्धश्व ' पुत्रेण सहागतः ' इत्यादौ कर्तृत्वम् ' दघ्ना सहौदनो मुज्यते ' इत्यादी कर्मप्रत्ययस्थले कर्मत्वं तथा च ' पुत्रेण सहागतः ' इत्यत्र सहशब्दार्थ आग - मनकर्तृत्वम् ' दध्ना सहौदनो भुज्यते ' इत्यादौ च भोजनक्रियाकर्मत्वं सहशब्दार्थः । तृतीयाथपि स एव = कर्तृश्वकर्मत्वादिरूपः संबन्ध एव । एतेन य एव सहशब्दार्थः स एव तृतीयार्थ इति प्राप्तम, तथा च पुत्रेण सहागतः ' इत्यत्र पुत्रकर्तृकागमनसमानकालीनागमनकर्तृत्वं पुरुषे प्रतीयते ' दना सहौदनो भुज्यते ' इत्यत्र च दधिकर्मकभोजनसमानकालीनभोजनकर्मत्व
C
f
" Aho Shrutgyanam"
"
3