________________
सहशब्दार्थविचारः ]
व्युत्पत्तिवादः ।
( ४३३)
तदा सहशब्देनैव तत्तक्रियाकर्तृत्वबोधने क्रियापदवैयर्थ्यम् - द्विधाक्रियाभानस्वाऽनुपयुक्तत्वात्, क्रियान्वयिनि क्रियान्वयबोधस्योद्देश्यतावच्छेदकविधेययोरभेदेन निराकाङ्क्षतयाऽसंभवाच्च ।
न च तत्तत् क्रियासमानकालीनत्वमात्रं सहशब्दार्थः तस्य च क्रियापदोपस्थापित क्रियायामेवान्वय इति क्रियापदसहित सहशब्दादेवोक्तविशिष्टार्थलाभ इति वाच्यम्, एवं सति 'पुत्रेण सहागतः ' इत्यादी सहशब्दार्थस्य क्रियापदार्थान्वायत्वेनान्यसापेक्षतया तेन सह पुत्रशब्दस्य समासाऽसंभवेन सपुत्रः इत्यादिप्रयोगानुपपत्तिः, न ह्यत्र समासे सहार्थस्य प्राधान्यं येनान्यसापेक्षत्वेपि समासो भवेत् किं तु बहुव्रीहित्वादन्यपदार्थप्राधान्यमेवेति चेत् ?,
"
न - समभिव्याहृत पदोपस्थाप्यक्रियाकाल एक सहशब्दार्थः तस्य क्रियान्व
मोदने प्रतीयते इत्यन्वयः । स्वाभिप्रायं प्रकटयति - तदेति, एवं हि सहशब्देनापि क्रियाकतृत्वादिकं बोध्यते क्रियापदेनापि क्रियाकर्तृत्वं बोध्यते तत्र द्विधा क्रियाकतृत्वबोधनस्योपयोगाभावात् क्रि पापदवैयर्थ्यम्, किं च क्रियान्वयिनि क्रियान्वयः संभवत्यपि न - क्रियान्वयन उद्देइयत्वेन क्रियाया एवोद्देश्यतावच्छेदकत्वात् क्रियाया एव च विधेयत्वात् उद्देश्यतावच्छेदकविधेययोरैक्ये च शाब्दबोधस्यानभिमतत्वादित्याह - क्रियान्वयिनीति | " द्विधाक्रियामानस्यानुपयुक्त • स्वात् " इति पाठस्तु काचित् एत्र । अत्र च " क्रियाभानस्य " इत्यत्र समानक्रियामानस्य ' इत्येवं पाठो युक्तः ।
ननु न क्रियाकर्तृत्वं सहशब्दार्थः किं तु तत्तत् क्रियासमानकालीनत्वमात्रम् = पुत्रादिकर्तृकागमनादिक्रियासमानकालीनत्वम्ः दध्यादिकर्मकभोजनादिक्रियासमानकालीनत्वम्, तस्य च सह - शब्दार्थस्य क्रियापदोपस्थापित क्रियायाम् = पित्रादिकर्तृकक्रियायामन्वयः - पुत्रकर्तृकागमनक्रियासमानकालीना याssगमनक्रिया तत्कर्ता पितेति वाक्यार्थस्तथा च क्रियापदसहितादेव सहशब्दादुक्तविशिष्टार्थस्य = पुत्रादिकर्तृकागमनादिक्रियासमानकालीन क्रियाकर्तृत्वस्य लाभः संभवति नः तु क्रियापदरहितादपि सहशब्दादिति न क्रियापदवैयर्थ्यमित्याशङ्कयाह- न चेति । उक्ते दोषमाह - एवमिति, यदि ' पुत्रेण सहागतः इत्यादौ सहशब्दार्थस्य क्रियायामन्त्रयः स्यात्तदा सहशब्द प्याऽन्यसापेक्षतया=क्रियासापेक्षतया तेन सहशब्देन सह पुत्रशब्दस्य समासो न स्यात् परस्परसापेक्षयोरेव समाससंभवादिति ' सपुत्र भागतः ' इति प्रयोगो नोपपद्येतेत्यर्थः । उक्ते हतुमाह- न हीति, प्राधान्ये सति त्वन्यसापेक्षत्वेपि समासो भवति यथा 9 राजपुरुषः इत्यत्र पुरुषपदार्थस्य प्रधानत्वात् तेन सह सुन्दरपदसमासेन सुन्दरराजपुरुषः' इत्येवं समासो भवति । सपुत्रः' इत्यत्र तु बहुव्रीहिसमासत्वादन्यपदार्थस्य - पितृपदार्थस्यैव: प्राधान्यं न सहार्थस्य येनान्य सापेक्षत्वेपि समासो भवेदित्यर्थः ।
"
८
7
<
"Aho Shrutgyanam"
7.
C
अथेत्यादिनाशङ्क्तिं परिहरति-- नेति, समभिव्याहृतपदम् = भागत इत्यादिपदम् । तस्य=
२८