________________
(४३४)
सादर्श:
[ तृतीयाकारके - यिनि नामार्थे एवान्वयः । तादृशकालविशिष्टे नामार्थे क्रियान्वये च क्रियायामपि ताशकालावच्छिन्नत्वं भासते- उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयस्य व्युत्पत्तिसिद्धत्वात्, अतः क्रियाद्वयसमानकालीनत्वलाभ इति सामञ्जस्यात् ।
अथ वागमनसमानकालीनाऽऽगमनादिकमेव सहशब्दार्थः तस्य कर्तृत्वादिसंबन्धेन पुरुषादावन्वयः, तादृशसंबन्धेन तद्विशिष्टे च 'आगतः' 'आगच्छति' इत्यादिपदोपस्थाप्याऽऽगमनकर्तृत्वादीनामन्वये न व्युत्पत्तिविरोधःविधेयस्योद्देश्यतावच्छेदकप्रकाराऽभेदविरहात् । न च सहशब्दार्यान्वयबलादेव तक्रियाकर्तृत्वस्य पुरुषादौ लाभे प्रकारतयापि क्रियापदेन तत्प्रतिपादनमफलमिति तत्प्रयोगो व्यथे इति वाच्यम् , समभिव्याहृतपदेन तत्तक्रियाया अनुपस्थाने सहशब्देनापि तत्तक्रियाघटितसाहित्यस्य शक्यस्य बोधनं न संभवसहशब्दार्थभूतस्यागमनादिक्रियाकालस्य । क्रियान्वयिनामार्थे=पित्रादौ । तादृशेति- उक्तसहशब्दार्थभूतकालविशिष्ट नामार्थे पित्रादावागमनादिक्रियान्वये कृते क्रियायामपि पित्रादिसमवेतागमनादिक्रियायामपि तादृशकालावच्छिन्नत्वम् सहशब्दार्थभूतपुत्रकर्तृकागमनक्रियाकालावच्छिन्नत्वं भासते-- क्रियाया उक्तसहार्थभूतकालस्य च पित्रादौ सत्त्वात् सामानाधिकरण्येन सहार्थभूतकालावच्छिन्नत्वं पित्रादिकर्तृकक्रियायां प्राप्तमित्यर्थः । उक्ते हेतुमाह- उद्देश्यतेति, उद्देश्यतावच्छेकावच्छेदेन उद्देश्यतावच्छेदकावच्छिन्ने विधेयान्वयस्य स्वीकारात्- उद्देश्यतावच्छेदकं चात्र सहशब्दार्थभूत उक्तकालः कालाधिकरणे क्रियान्वये कृते क्रियायामपि तादृशकालावच्छिन्नत्वं प्राप्तमेव । उपसंहरति- अत इति, क्रियाद्वयस्य-पुत्रकर्तृकागमनादिक्रियायाः पितृकर्तृकागमनादिक्रियायाश्च समानकालिकत्वलाम इत्यर्थः। · पक्षान्तरमाह- अथ बेति । तस्य उक्तसहशब्दार्थस्य । आदिपदात् कर्मत्वादिसंग्रहः । तादशसंबन्धेन कर्तृत्वसंबन्धेन तद्विशिष्टे-सहशब्दार्थीभूतागमनसमानकालीनागमनादिविशिष्टे । व्युत्पत्तिविरोधाभावे हेतुमाह- विधेयस्येति, 'पुत्रेण सहागतः । इत्यत्र विधेयमागमनकर्तुत्वं तस्योक्तागमनविशिष्टेऽन्वयाद् उद्देश्यमाऽऽगमनविशिष्टम् उद्देश्यतावच्छेदकीभूतप्रकारश्चागमनमेव तयोश्चागमनकर्तृत्वागमनयोः परस्परं भेदान्न व्युपत्तिविरोधः- उद्देश्यतावच्छेदकविधेययोरभेदे एव न्युत्पत्तिविरोधस्योक्तत्वात् । ननूक्तसहशब्दार्थस्य कर्तृत्वादिसंबन्धेनैव पित्रादावन्वय उक्तः संबन्धभूतं कर्तृत्वं च तत्क्रियाकर्तृत्वमेव तथा च सहशब्दार्थान्वयबलादेव पित्रादौ तक्रियाकर्तखादिकस्य लाभः संभवतीति पुनः प्रकारतयापि क्रियापदेन तत्प्रतिपादनम् कर्तत्वप्रतिपादनम् निष्फलमेवेति तादृशकर्तृत्वप्रतिपादकक्रियापदस्य प्रयोगो व्यर्थ एवेत्याशडक्याहन चेति, "आगच्छति' 'गच्छति' 'भुङ्क्ते' इत्यादिक्रियापदप्रयोगे सत्येव क्रियापदोपस्थाप्यतत्तक्रियाघटितस्य स्वशक्यार्थस्य सहशब्देन बोधनं संभवति सममिव्याहृतक्रियापदोपस्थाप्याया एव क्रियाया सहशब्दार्थेन्तर्भावादिति न क्रियापदप्रयोगो व्यर्थः किं त्वावश्यक एवेत्यर्थः ।
"Aho Shrutgyanam"