________________
सहशब्दार्थविचारः] व्युत्पत्तिवादः।
(४३५) तीति क्रियापदप्रयोगस्यावश्यकत्वात् । सहशब्दार्थक्रियायाः कर्तृत्वादिसंबन्धेन नामार्थेऽन्वयश्च न व्युत्पत्तिविरुद्धः-सहशब्दस्याऽधातुत्वाद् निपातत्वाच।।
न च "प्रासोष्ट शत्रुघ्नमुदारचेष्टमेका सुमित्रा सह लक्ष्मणेन" इत्यादौ शत्रुनप्रसवलक्ष्मणप्रसवयोः समानकालीनत्वाभावात् क्रियाद्यसमानकालीनतायाः सहशब्दार्थत्वाऽसंभव इति वाच्यम्, तत्रापि स्थूलकालघटितसमानकालीनत्वसवात् । न च कालत्वेनैव कालस्य तदर्थान्तर्भावे पुत्रागमनपूर्वमागन्तार 'आगतोयं न पुत्रेण सह' इति प्रयोगानुपपत्तिः-पुत्रागमनाधिकरणस्थूलकालवृत्त्या.
गमनकर्तृत्वसत्त्वेनाऽन्वयितावच्छेदकरूपावच्छिन्नप्रतियोगिताकसाहित्याभावबाधादिति वाच्यम्, तत्र क्षणत्वेनैव कालस्य सहशब्दार्थेऽन्तर्भावनीयत्वात् । .
एवं यत्रैककालोप विभिन्नस्थले भुञ्जानमधिकृत्य 'न सह भुङ्क्ते' इति ननु कर्तृत्वसंबन्धो हि भेदसंबन्ध एवेति सहशब्दार्थस्य नामार्थे पुरुषे कथं भेदसंबन्धेनान्वयः स्यात् "निपातातिरिक्तनामार्थयोः ६८ " इत्याद्युक्तव्युत्पत्तिविरोधादित्याशङ्क्याह- सहशब्दार्थेति, नामार्थे निपातातिरिक्तनामार्थस्य धात्वर्थस्य च भेदसंबन्धेनान्वयो व्युत्पत्तिविरुद्धोस्ति न तु निपातार्थस्यापि सहशब्दश्च निपात एव न धातुरिति सहशब्दार्थस्य पुरुषे कर्तृत्वलक्षणभेदसंव
धेनाप्यन्वये न व्युत्पत्तिविरोध इत्यर्थः । ' दना सहौदनो भुज्यते' इत्यत्र तु भोजनसमानकालीनभोजनं सहशब्दार्थस्तस्य कर्मत्वसंबन्धेनौदनेऽन्वयः ।
प्रथमं सहार्थमतमुद्दिश्याशङ्कते- न चेति, प्रसवद्वयस्यैकस्मिन् काले ह्यऽसंभवात् लक्ष्मणप्रसवक्रियायाः शत्रुघ्नप्रसवक्रियायाश्चैककालिकत्वं न संभवतीत्यर्थः । उत्तरमाह-- तत्रापीति. तत्र प्रसोष्ट ' इत्युक्तोदाहरणे, स्थूलकालगतैक्येन शत्रुघ्नप्रसवलक्ष्मणप्रसवक्रिययोः समानका लिकत्वं संभवतीत्यर्थः । ननु यदि कालत्वेनैव रूपेण कालस्य सहशब्दार्थघटकत्वमस्ति तदा पुत्रापेक्षया यः पुरुषः पूर्वमेवागतस्तमुद्दिश्य 'आगतोयं न पुत्रेण सह' इतीष्टोपि प्रयोगो नोपपछेत- पितृपुत्रागमनक्रिययोः सूक्ष्मकालस्य भेदेपि स्थूलकालस्यैक्येन समानकालिकत्वसंभवात. पुत्रागमनपूर्वमागन्तरि पुरुषे पुत्रागमनाधिकरणीभूतो यः स्थूलकालस्तादृशस्थूलकालवृत्ति यदागमनं तत्कर्तृत्वस्य सत्त्वेन अन्वयितावच्छेदकं यद्रूपमाऽऽगमनकर्तृत्वसमानाधिकरणपुत्रत्वं तादृशरूपावच्छिन्नप्रतियोगिताकं यत्साहित्यं तादृशसाहित्याभावस्य बाधात् अत्र स्थूलकालघटितस्य पुत्रप्रतियोगिकसाहित्यस्यैव सत्त्वात्, साहित्याभावे एव च 'आगतोयं न पुत्रेण सह' इति प्रयोगस्येष्टत्वादित्याशङ्क्याह- न चति । उत्तरमाह-तत्रेति, तत्र''आगतोयं न पुत्रेण सह ' इत्यत्र कालस्य क्षणत्वेनैव रूपेण- सहशब्दार्थेऽन्तर्भावो विज्ञेयस्तथा च पुत्रागमनपित्रागमनयोरेकक्षणऽसत्वेन साहित्याभावस्य सत्त्वादेव नोक्तप्रयोगानुपपत्तिरित्यर्थः ।
एवमिति-- यथोक्तस्थले क्षणत्वेनैव कालस्य सहशब्दार्थेन्तर्भावस्तथा एककालेपि विभिन्न स्थल मजानमधिकृत्य 'न सह भुङ्क्ते' इति प्रयुक्तस्थ वाक्यस्योपपत्त्यथै शालादिरूपभोजनाधिकरण
"Aho Shrutgyanam"