________________
( ४३६ )
सादर्श:
[ तृतीयाकारके -
प्रयुज्यते तत्रैकशालारूप भोजनाधारोपि सहशब्दार्थेऽन्तर्भावनीयः । अत एव “ आलापाद् गात्रसंस्पर्शान्निश्वासात सहभोजनात्" इत्यादिना पतितभीजनसमानकालीनभोजनमात्रस्य पापजनकत्वं न बोध्यते - एकपङ्क्तेरपि विवक्षणात् । एवम् -
८८
याजनं योनिसंबन्धं स्वाध्यायं सह भोजनम् । सद्यः पतति कुर्वाणः पतितेन न संशयः ॥ " इत्यादावेकदेकपात्रभोजनस्यैव सद्यःपातहेतुत्वं प्रतीयते तत्र तादृशार्थस्यैव सहशब्देन विवक्षणात् ।
C
अथ नामार्थस्यैव सहार्थविशेष्यतयाऽन्वयोपगमे 'पुत्रेण सह नाऽऽगच्छत्ययम्' इत्यादौ सहशब्दार्थपुत्रसाहित्याभाव एव पुरुषांशे नत्रा बोध्यते इत्युपगन्तव्यं तच्च नोपपद्यते, तथा सत्याख्यातार्थोद्देश्यतावच्छेदकतयैव नञर्थमानस्यो - पगन्तव्यतया प्रसज्यप्रतिषेधस्थले निषेधस्य प्राधान्येन भाननियमव्याघातात् । स्यापि सहशब्दार्थन्तर्भावो विज्ञेयस्तथा च समानाधिकरणकभोजनं सहशब्दार्थस्तस्योक्तरीत्या कर्तृत्वसंबन्धेन भोजनकर्तर्यऽन्वय इत्येकस्मिन् स्थले भोजने सति 'सह भुङ्क्ते' इति संभवति सहशब्दार्थीभूतसमानाधिकरणकभोजनाभावे च न सह भुङ्क्ते' इत्यप्युपपद्यते, अन्यथा समानकालिकभोजनस्य सत्त्वादेव 'न सह भुङ्क्ते' इति नोपपद्येतेत्यर्थः । अत एवेति - सहशब्दार्थे दैशिकसामानाधिकरण्यस्यापि प्रवेशात् " आलापाद् गात्रसंस्पर्शात्" इत्यत्र पतितभोजनसमानकालिकभोजनस्य न पापजनकत्वं प्रत्याय्यते अन्यथैकस्मिन् काले विभिन्नस्थलेपि भोजनेन पापं स्यादित्येकस्मिन् काले एकपङ्क्तौ पतितेन सह मोजनेन पापं भवतीति बोध्यते तथा चात्र समानपङ्क्तिकभोजनं सहशब्दार्थ इत्यर्थः । एवमिति - यथोक्तस्थले समानपङ्क्तिकत्वस्य सहशब्दार्थेन्तर्भावस्तथा समानपात्रकत्वस्यापि सहशब्दार्थेन्तर्भावो विज्ञेयस्तथा च " याजनं योनिसंबन्धम्" इत्यत्रैककालिकैकपात्रभोजनस्यैव सद्यः पातहेतुत्वं प्रतीयते न तु विभिनपात्रकभोजनस्यापीत्यर्थः । पतितेन = पतितेन सहेत्यर्थः । तादृशार्थस्य = ऐककालिकैकपात्रभोजनस्य सहशब्दार्थत्वात् ।
यदुक्तम् - " तस्य ( सहशब्दार्थस्य ) क्रियान्वयिनि नामार्थे एवान्वयः " इति तत्राशद्कते - अथेति, यत्र प्रतियोगिनोऽन्वयों भवति तत्रैव तदभावस्याप्यन्वयो भवतीति नामार्थस्यैव यदि सहार्थविशेष्यत्वं नाम 'पुत्रेण सहागच्छति' इत्यत्र सहार्थस्योक्तरीत्या यदि नामार्थे पुरुषेऽन्व यस्तदा 'पुत्रेण सह नागच्छत्ययम्' इत्यत्र सहशब्दार्थ पुत्र साहित्याभावस्यापि नञर्थस्य पुरुषे एवान्वयः स्यात् स च न संभवति तथा सति= सहशब्दार्थ पुत्रसाहित्याभावस्य पुरुपेऽन्वये सति आख्यातार्थो य आश्रयत्वं तदुद्देश्यः पुरुषस्तनिष्ठा योद्देश्यता तादृशोद्देश्यतावच्छेदकत्वं नञर्थाभावस्य स्यादिति नञर्थाभावस्य पुरुषविशेषणत्वात् प्राधान्यं न स्याद् इष्टं व प्रसज्यप्रतिषेध
" Aho Shrutgyanam"