________________
सहशब्दार्थविचारः] व्युत्पत्तिवादः।
(४३७) एवमनागच्छन्तमाप पुरुषमधिकृत्य तथाप्रयोगात् तत्राऽयोग्यताप्रसङ्गाच । एतेन तत्र पर्युदासनवत् क्रियायोगपरित्याग इत्युक्तावपि न प्रतीकारः ।
न च तत्राऽऽगमनाभावकाल एव पुरुषान्वयी सहशब्दार्थः. तथा च पुत्राऽ. गमनाभावकालावच्छिन्नपुरुषे वर्तमानकालावच्छिन्नागमनकर्तृत्वाभावः प्रतीयते इति न काचिदनुपपत्तिरिति वाच्यम्, यत्रास्य पुत्र आयाति न त्वयं तत्रापि ताशप्रयोगाद् तत्र च पुत्रागमनकालावच्छिन्नस्याऽऽगमनकर्तृत्वाभावस्य सत्तेपि पुत्रागमनाभावकालावच्छिन्नपुरुषे वर्तमानकालावच्छिनांगमनकर्तृत्वाभावस्याऽसत्वेनाऽयोग्यतापातात् । स्थले निषेधस्य ननर्थाभावस्य प्राधान्यमिति प्राधान्येन भाननियमस्य व्याघातः स्यात, अस्ति चात्र प्रप्तज्यप्रतिषेध एव नमोऽसमस्तत्वाऽदित्यर्थः । दोषान्तरमाह- एवमिति, सहशब्दार्थपुत्रसाहित्यस्य पुरुषेऽन्वयसंभवे एव तदभावस्यापि पुरुषेऽन्वयः संभवति तत्र यः खलु कदापि पुत्रेण सह नागच्छति तस्मिन् सहार्थीभूतपुत्रसाहित्यस्य बाधेन योग्यताया अभावात् सहार्थप्रतियोगिकामावस्यापि योग्यता न स्यात्, भवति च तादृशमनागच्छन्तमपि पुरुषमधिकृत्य तथा= पुत्रेण सह नागच्छत्ययम्' इति प्रयोग इत्यर्थः । ननु यथा पर्युदासनगर्थस्य नामार्थेऽन्वयो भवति न क्रियायां तथा तत्र पुत्रेण सह नागच्छत्ययम्' इत्यत्रापि न नमर्थस्य :क्रियायामन्वयः स्वीक्रियते तथा चोक्तस्थले न नर्थाभावस्य प्राधान्यापेक्षा येन तस्य नामार्थे विशेषगत्वेनाऽप्रा. धान्ये काचिदनुपपत्तिः स्यादित्याशङ्याह- एतेनेति, एवमप्युक्तरीत्याऽनागच्छन्तं पुरुषमधिकृत्य तथाप्रयोगे ह्यऽयोग्यताप्रसङ्गः स्यादेवेति नायमपि पक्षो युक्त इत्यर्थः ।
ननु तत्र='पुत्रेण सह नागच्छत्ययम्' इत्यत्र पुत्रो नागच्छतीति पुत्रागमनाभावस्य सत्वात तादृशामावकाले पुरुषस्य च सत्त्वात् पुरुषे पुत्रागमनाभावकालावच्छिन्नत्वं वर्तते एवेति पुरुषान्वयी यः पुत्रागमनाभावकालः स एव सहशब्दार्थस्तथा चात्र पुत्रागमनाभावकालावच्छिन्ने पुरुषे ना धर्तमानकालावच्छिन्नागमनकर्तृत्वाभावः प्रतीयते इति नामावस्य कर्तृत्वेन्वयेन तद्द्वारा क्रियाथामप्यन्वयसंभवान्न प्रसज्यप्रतिषेधत्वानुपपत्ति:- नत्रामावस्यैव प्राधान्येन मानलाभादित्याशङ्क्याह- न चेति । परिहारमाह- यत्रेति, यदा पुत्र एवायाति न तु तदनन्तरमपि पिता तदापि 'पुत्रेण सह नागच्छत्ययम् ' इति प्रयोगो भवति तत्र च पुत्रागमनकालावच्छिन्नस्यागमनकर्तृत्वाभावस्य पुत्रागमनकालावच्छिन्ने पुरुषे वर्तमानकालावच्छिन्नागमनकर्तृत्वामावस्य सत्त्वेपि (पुत्रागमनस्य सत्त्वेन पुत्रागमनकालावच्छिन्नत्वस्य पुरुष संभवात् ) पुत्रागमनाभावकालावच्छिन्ने पुरुषे वर्तमानकालावच्छिन्नागमनकर्तृवाभावो नैव संभवति पुत्रागमनस्य जातत्वेन पुरुषे पुत्रागमनकालावच्छिन्नत्वस्यैव सत्त्वेन पुत्रागमनाभावकालावच्छिन्नत्वस्यासत्त्वात् पुत्रागमनामावकालावच्छिन्नपुरुषे ह्यसद्भूते वर्तमानकालावच्छिन्नागमनकर्तृत्वाभावस्यान्वयाऽसंभवेनाऽयोग्य. तापातादित्यर्थः ।
"Aho Shrutgyanam"