________________
(४३८)
सादर्श:
[ तृतीयाकारकेमैवम्-सहशब्दार्थस्तक्रियाकालः क्वचित् तक्रियान्वयिनि प्रथमान्तपदार्थेन्वेति कचिच्च सममिव्याहृतक्रियायाम् । 'सपुत्र आगच्छति' इत्यस्य 'पुत्रेण सहागच्छति यः'इतिविग्रहात् प्रथमान्तान्यपदार्थे एव पुत्रागमनकालान्वयो न तु क्रियायामिति न समासानुपपत्तिः, न वाऽन्यपदार्थपुरुषाऽलाभः । __ न चैवं समासलभ्यस्य पुत्रागमनकालावच्छिन्नस्य पुंसो विग्रहवाक्येनापि प्रतिपादनाद् बहुव्रीहिमात्रस्यैव नित्यसमासत्वमिति भज्यतेति वाच्यम्, बहुव्रीहिमात्रस्य तथात्वाऽनियमात् । प्रथमान्तानुपस्थाप्याऽन्यपदार्थबोधकबहुव्रीहरेव तत्त्वाभ्युपगमात् । अत्र चान्यपदार्थस्य पुरुषस्य प्रथमान्तोपस्थाप्यत्वात् ।
अयेत्यादिना शङ्कितं परिहरति- मैवमिति, तक्रियाकाला-पुत्रकर्तृकागमनक्रियाकालः । कचित्-'पुत्रेण सहागतः' इत्यादिनसमभिव्याहारहीनस्थले तक्रियान्वयिनि यादृशक्रियायाः सहशब्दार्थे प्रवेशस्तादृश्या आगमनादिक्रियाया अन्वयिनि प्रथमान्तपदार्थे-पुरुषादावन्बयो भवति तथा च पुत्रागमनकालावच्छिन्नः पुरुष आगमनक्रियाकर्तेति शाब्दबोधः पुत्रागमनकाले आगत इति यावत् । कचित्='पुत्रेण सह नागच्छति' इत्यादौ स सहशब्दार्थ उक्तक्रियाकालः समभिव्याहृतक्रियायामन्धेति तथा च पुत्रागमनकालिका याऽऽगमनक्रिया तत्कर्तत्वाभावस्य पुरुषेऽन्वयो भवति पुत्रागमनकालिकागमनकर्तृत्वाभाववान् पुरुष इति शाब्दबोधः । सपुत्र इति-'सपुत्र आगच्छति' इत्यस्य पुत्रेण सहाऽऽगच्छति यः । इत्येवं विग्रहवाक्यं भवतीति प्रथमान्तयत्पदप्रतिपाद्यस्यान्यपदार्थस्यैव प्राधान्यात् तस्यैव — सपुत्रः - इति पदेन बोधनात् तस्मिन्नेव प्रथमान्तान्यपदार्थे प्रथमान्तपदवाच्यभूतेऽन्यपदार्थे पुरुषे पुत्रागमनकालस्य सहशब्दार्थस्यान्वयो भवति न तु क्रियायामिति या पूर्व ( ४३३ ) समासानुपपत्तिः प्रदर्शिता सापि नास्ति, अन्यपदार्थस्यैव प्राधान्यात् सहशब्दार्थान्वयित्वाचान्यपदार्थभूतपुरुषस्य प्रतीत्य. भावप्रसङ्गोपि नास्तीति पूर्वोक्ताः सर्वे दोषाः समुद्धृता ज्ञेयाः। 'सपुत्र आगच्छति' इत्यत्र पुत्रागमनकालविशिष्टपुरुषे आगमनकर्तृत्वान्वयः, 'सपुत्रो नागच्छति' इत्यत्र च पुत्रागमनकालिकागमनकर्तृत्वाभावस्य पुरुषेन्वयो विज्ञेयः। । ननु यदि य एव पुत्रागमनकालावच्छिन्नः पुरुषः ' सपुत्रः । इतिसमासेन प्रतीयते स एवोक्तविग्रहवाक्येनापि प्रतीयते तदा बहुव्रीहिमात्रस्यैव= ( एवकारोऽयोगव्यवच्छेदार्थः) सकलबहुव्रीहिसमासस्य नित्यत्वमस्तीति नियमव्याघातः स्यात्- समासलभ्यार्थस्य विग्रहवाक्येनाऽलभ्यत्वे ( समासस्थाने विग्रहवाक्यासंभवे ) एव समासस्य नित्यत्वस्वीकारादित्याशझ्याहन चैवंमिति । उत्तरमाह- बहुव्रीहीति, सकलबहुव्रीहिसमासस्य तथात्वानियमात्-नित्यत्वान-. भ्युपगमात, प्रथमान्तानुपस्थाप्यो योऽन्यपदार्थस्तद्बोधकबहुव्रीहेरेव तत्त्वाभ्युपगमात् नित्यत्वाभ्युपगमाद् यथा ' प्राप्तमुदकं यं स प्राप्तोदको ग्रामः ' ' पीतमम्बरं यस्य स पीताम्बरः । इत्यादौ द्वितीयाद्यन्तयत्पदेनान्यपदार्थोपस्थितिर्भवतीत्येतादृशबहुव्रीहिसमासस्य नित्यत्वम्, अत्र
"Aho Shrutgyanam"