________________
.
व्युत्पत्तिवादः ।
८
इत्थम्भूतलक्षण तृतीया ]
( ४३९ )
न च प्रथमार्थे बहुव्रीहिरेवाऽसाधुस्तदुक्तम्- प्रथमार्थे न भवति- ' वृष्टे देवे गतः ' इति " इति वाच्यम्, “ अनेकमन्यपदायें " इतिसूत्रानुशिष्टबहुव्रीहावेक तनियमात्, अत्र च सूत्रान्तरेणैव समासविधानात् एतदर्थमेव तत्सूत्रप्रणयनात् । ' पुत्रेण सह नागच्छति' इत्यादौ च क्रियायामेव तादृशसहार्थान्वय इति पुत्रागमनकालीनागमनकर्तृत्वाद्यभावः प्रथमान्तार्थे प्रतीयते इति सबै सुस्थम्, तथापि ' सपुत्रो नागच्छाते' इत्यादौ पूर्वोक्तदिशानुपपत्तिर्द्रष्टव्या । भारमनुद्वहन्तं पुत्रमनुद्वहन्त्यामपि गर्दभ्याम् ' सहैव दशभिः पुत्रैः' इत्यादौ वर्तमाना ' इत्यध्याहाराद्वर्तमानत्वक्रियामादायैव साहित्यबोध इति वदन्ति ।
"6"
" इत्थंभूतलक्षणे " इत्यनेन लक्षणवाचिपदात् तृतीयानुशिष्यते । लक्षणत्वं च
८८
* सपुत्र: इत्यत्र स्वन्यपदार्थस्य पुरुषस्य प्रथमान्तेनैव यत्पदेनोपस्थितिर्भवति - उक्तविप्रहवाक्ये प्रथमान्तस्यैव यत्पदस्य प्रवेशादिति न समासस्य नित्यत्वमित्यर्थः । विग्रहवाक्येऽन्यपदार्थोंपस्थापकयत्पदस्य यद्विभक्त्यन्तत्वं भवति बहुव्रीहेरपि तद्विभक्त्यन्तबहुव्रीहित्वं ज्ञेयम् । ननुं प्रथमार्थे बहुव्रीहिरेव न भवति अन्यथा ' वृष्टे देवे गतः ' इति विग्रहवाक्येपि बहुव्रीहिसमास" अनेकमन्यप्राप्तौ तन्निषेधो नोपपद्येतेत्याशङ्क्याह- न चेति । परिहारमाह- अनेकेति, पदार्थों " इतिसूत्रेण प्रथमार्थे बहुव्रीहिर्न भवतीति तत्सूत्रानुशिष्ट प्रथमार्थबहुव्रीहावेव तन्नियमात्=असाधुत्वनियमात्, अत्र = ' सपुत्रः ' इत्यत्र तु सूत्रान्तरेण = " तेन सहेति तुल्ययोगे " इति सूत्रेणैव समासविधानमस्तीति नाऽसाधुत्वम्, एतदर्थमेव = : ' सपुत्र: ' इतिप्रयोगसिद्धयर्थमेव " तेन सह " इतिसूत्रं प्रणीतमस्तीति कथम् ' सपुत्रः' इतिसमासस्यासाधुत्वं स्यात्, अन्यथैतत्सूत्रमेव व्यर्थं स्यादित्यर्थः । समभिव्याहृतक्रियायां सहशब्दार्थान्वयस्योदाहरणमाह- पुत्रेणेति, नञ्समभितादृशसहार्थान्वयः = पुत्रकर्तृकागमनक्रियाकालान्वयः । उपसंहरति- इतिसर्वमिति, व्याहारस्थले सहार्थस्य क्रियायामन्वयो भवतीत्युक्तमिति सहशब्दार्थस्य क्रियासापेक्षतया तेन सहशब्देन पुत्रशब्दस्य समासो न स्यादिति ' सपुत्रो नागच्छति' इति प्रयोगः पूर्वोक्तंदिशा ( ४३३ पृष्ठोक्तदिशा ) नोपपद्यते इत्याह- तथापीति । भारमिति-- गर्दभीपुत्रो न भारमुद्वसहैव दशभिः पुत्रैर्भारं हति तादृशपुत्रं च गर्दभ्यपि नोद्वहति किं तु भारमाश्रमुद्वहतीति 'वहति गर्दभी " इत्यत्र 'वर्तमाना' इतिपदस्याध्याहारः कर्तव्यः अध्याहृतवर्तमानपदबोध्यक्रियायामेव सहशब्दार्थसाहित्यस्यान्वयो ज्ञेयः - ' दशभिः पुत्रैः सह वर्तमाना ( दशसंख्याकपुत्रवर्त - नकालिकवर्तनक्रियावती ) गर्दभी भारं वहति ' इत्यन्वयः, ' वर्तमाना ' इतिपदस्याऽनध्याहारे ' पुत्रैः सह भारं वहति ' इत्यन्वयापत्त्या गर्दमीपुत्राणामपि भारवाहकत्वं प्राप्नुयात्. न चैतदिष्टमिति ' वर्तमाना ' इतिपदस्याध्याहारः कार्य इत्यर्थः ।
इत्थंभूतलक्षणतृतीयानिरूपणमारभते- इत्थमिति । लक्षणवाचिपदात्-लक्षणभूतजटा दिवाचकपदात् तृतीया भवति यथा ' जटाभिस्तापसः ' इति । लक्षणत्वस्वरूपमाह- लक्षणत्व
"Aho Shrutgyanam"
LE