________________
सादर्श:
·
(४४० )
व्यावर्तकत्वम्, तच्च विशेष्यतावच्छेदकसमानाधिकरणाभावाऽप्रतियोगित्वम्, तदाश्रयश्च धर्मो द्विविधः - विशेषणमुपलक्षणं च । विद्यमानं सद् व्यावर्तकं विशे षणम् - पुरुषादौ वर्तमानकालावच्छेदेन विद्यमानो दण्डादिः । अविद्यमानं सद् व्यावर्तकमुपलक्षणम्- तापसादेः कालान्तरणजटादिकम् । विशेवणस्य संबन्धो मतुबादिभिः प्रत्याय्यते- अस्तीत्यर्थे विहितानां वर्तमान संबन्धार्थकत्वात्, अतः 'जटाभिस्तापसः इत्यादावsविद्य नानजटादेः संबन्धावेवसायां मतुवाद्यनवकाशात् तृतीयैव । तृतीयया चाऽविद्यमानत्वस्येव विद्यमानत्वस्यापि प्रत्यायनाद विशेषणवाचिपदादपि तृतीया यथा- ज्ञायमानत्वेन लिङ्गं करणम्' इत्यादौ ।
"
6
मिति । व्यावर्तकत्वम् = व्यवच्छेदकत्वम् ( परिचायकत्वमिति यावत् ) तञ्च = व्याकत्वं च । विशेष्यतावच्छेदकेति- यया विशेष्यतावच्छेदकं यत्तापसत्वं तत्समानाधिकरणाभावाऽप्र तयो गत्वं जटायामस्त्येव तापसत्वावच्छिन्ने कस्मिंश्चित्तापसे जटाया वर्तमानत्वात्, सकछेषु तापनेषु जटा
C
संभवाद् विशेष्यतावच्छेदकावच्छेदेनेति त्यक्त्वा विशेष्यतावच्छे दक समानाधिकरणेत्युक्तम् । सदाश्रयः उक्ष गत्वाश्रयः । विशेषगोदाहरणमाह- पुरुषादाविति । यथेत्यादिः । उपलक्षणोदा- हरणमाद - तापसादेरिति, ' काकवन्तो देवदत्तस्य गृहाः ' इति वत् तापसे जटानामसत्त्वेप्युपलक्षणत्वं भवत्येव, जटानां वर्तमानकाले तु तापसविशेषणत्व मेव । विशेषणत्वोपलक्षणत्वयोः परिचायकमाह-- विशेषणस्येति । अस्तीत्यर्थ इति- " तदस्याऽस्त्यऽस्मिन्निति मतुप् ” इत्यादिसूत्रैर्विहितानां मतुत्रादिप्रत्ययानां वर्तमानसंबन्धार्थ कत्वात् = वर्तमानपदार्थ संबन्धबोधकत्वाद् विशेषगस्य वर्तमानत्वाच्च विशेषणत्राचकपदात् मतुवादयः प्रत्यया भवन्ति यथा दण्डवान् दण्डो' इत्यादि । एतावत्पर्यन्तन तेपादनस्य निष्कर्षमाह-- अत इति, यतो मनुत्रादयो विद्यमानस्यैव संबन्धत्रोवका नाऽविद्यमानस्यापि जटादीनां चाविद्यमानानामेव तापसाद्युपलक्षगत्वं मवति अतो जटादिवाचकपदान्मतुवाद्य नवकाशात् तृतीयैव भवति यथा--- C जटाभिस्तापसः इति । मतुवायपेक्षया तृतीयाया विशेषमाह - तृतीयेति मतुवादयस्तु विद्यमानमात्रस्य संबन्धवोधका भवन्ति तृतीया तु विद्यमानाविद्यपानयोरुभयोरपि संबन्धवोधिका भवतीति विशेषवाचकपादपि कचित् तृतीया भवति यथा- 'ज्ञायमानखेन लिङ्गं करणम् ' इत्यत्र लिङ्गविशेवाचकाज्ज्ञायमानत्वपदात् तृतीया जाता । जटाभिस्तापसः' इत्यत्र तृतीयया जटानामवियमानत्वं प्रत्याय्यते, ' ज्ञायमानत्वेन लिङ्गं करगम् ' इत्यत्र ज्ञायमानत्वस्य विद्यमानत्वं प्रत्याययते--- ज्ञायमानस्यैव लिङ्गस्य करणत्वस्वीकारात् । तृतीयया विद्यमानत्वात्रियमानत्वयोः प्रत्यायने योग्यतैव निपामिकेति विज्ञेयम् - कचिज्जटानां विद्यमानत्वेपि 'जटाभिस्तापसः * इतिप्रयोगदर्शनादिति ।
6
"Aho Shrutgyanam"
[ तृतीयाकारके
"
"