________________
-इत्थम्भूतलक्षणतृतीया ]
व्युत्पत्तिवादः ।
( ४४१ )
अथ तत्र ज्ञायमानत्वादिवैशिष्ट्यं तृतीयया लिङ्गादौ न प्रत्याय्यते. अपि तु पदार्थकदेशे करणत्वादावेव तदवच्छिन्नत्वमिति चेत् ?, तथापि सा विशेषण - यैव- अनुशासनान्तराभावात् । वस्तुतो लिङ्गादो ज्ञायमानत्वादिवैशिष्ट्यबोसिंबन्धविधा करणत्वज्ञायमानत्वाद्योवच्छेद्यावच्छेदक मावभान संभवादेकदेशान्वस्वीकारोऽनुचितः । न च संबन्धविधया करणत्वे एकदेशेऽवाच्छन्नभनेप्येकदेशान्वयौव्यमिति वाच्यम्, करणाभेदरूपे करणत्वे करणस्य संबन्धविधया भासमाने ज्ञायमानत्वावच्छिन्नत्वस्याऽवच्छेदकतया भानोपगमेनै"कदेशान्वयं विनाप्यवच्छेद्यावच्छेदकभावभानात् ।
7
प्रसङ्गसङ्गत्या शङ्कते - अथेति, लिङ्गमेव करणमिति करणत्वं लिङ्गैकदेशत्वात् पदार्थैकदेशः । तदवच्छिन्नत्त्रम्=ज्ञायमानत्वावच्छिन्नत्वम् । धूमादौ करणत्वज्ञाने वर्तमाने सत्येव धूमादीनां करणत्वस्वीकाराज्ञायमानत्वं करणत्वविशेषणमिति भावः । उत्तरमाह - तथापीति, तथापि = ज्ञायमानत्वस्य करणत्वविशेषणत्वेपि सा = ' ज्ञायमानत्वेन इतिवृतीया विशेषणतृतीयैव. अनुशासनान्तराभावात्=" इत्थंभूतलक्षणे " इतिसूत्रेणैव प्राप्तत्वादिति यावत् । स्वाभिप्रायमाह - वस्तुत इति ज्ञायमानत्वस्य करणत्वविशेषणाभ्युपगमस्य करणत्वे ज्ञायमानत्वावच्छिन्नत्व प्राप्तिरेव फलं करणत्वस्य ज्ञायमानत्वावच्छिन्नत्वं तु ज्ञायमानत्वस्य लिङ्गविशेषणत्वेपि प्राप्नोत्येव यथा लिने एव ज्ञायमानत्वमस्ति लिने एव च करणत्वमिति करणत्वज्ञायमानत्वयोः संबन्धविधयासामानाधिकरण्येन परस्परमऽवच्छेद्यावच्छेदकभावः प्राप्त इति करणत्वे ज्ञायमानत्वावच्छिनत्वं प्राप्तमेवेति ज्ञायमानत्वस्य करणत्वरूपै कदेशेऽन्ययस्वीकारो नोचित इत्यर्थः । नन्वेवमपि करणत्वरूरैकदेशे ज्ञायमानत्वस्यान्वयः प्राप्त एवेत्याशङ्क्याह-न चेति । परिहारहेतुमाह- करणादरूपे इति, त्वया हि करणत्वे ज्ञायमानत्वस्यान्वय उक्तस्तत्र करणकरणत्वयोरमेदपक्षे करणत्वे ज्ञायमानत्वस्यान्वयेन करणेपि तदन्वयः प्राप्त इति करणे करणत्वसंबन्धेन ज्ञायमानत्वस्यान्वयः कर्तव्यः, करणत्वं चाभेदपक्षे करणे तादात्म्येन वर्तत एव संबन्धमूतं करणत्वं ज्ञायमानत्वं च करणे एवेति सामानाधिकरण्येन करणत्वमपि ज्ञायमानत्वावच्छिन्नं जातमित्तिरीत्या ज्ञायमानत्वावच्छिन्नत्वस्य अवच्छेदकतया = संसर्गतावच्छेदकतया मानोपगमेनैकदेशान्वयं विनापि करणत्वज्ञायमानत्वयोरवच्छेद्यावच्छेदकभावस्य मानं संभवत्येवेत्येकदेशान्वयस्वीकारोऽनुचित एवेत्यर्थ: । प्रकारभूत पदार्थैकदेशेनान्वयस्यैव व्युत्पत्तिविरुद्धत्वात् संसर्गभूतपदार्थैकदेशे नान्वये दोषाभावाद् अत्र च करणत्वस्य करणामिन्नत्वं संसर्गत्वं च स्वीकृतमिति तेनान्वये न कोपि दोष इति भावः । करणाभिन्नस्यैव करणत्वस्य ज्ञायमानत्वान्वये संसर्गत्वाश्रयणादुक्तम्- " करणस्य संबन्धविधया भासमाने " इति ।
>
ननु यदि मतुबादयो विद्यमानमात्रस्यैव संबन्धबोधकास्तदा ' दण्डवानयमासीद् दण्डी गतवान् ' इत्यादौ दण्डादिपदोत्तरं मतुबादयो न स्युः - दण्डादीनामतीतत्वेन विद्यमानस्वामा
" Aho Shrutgyanam"
“