________________
(४४२)
सादशे:
[ तृतीयाकारके___ अथ · दण्डवानयमासीद् दण्डी गतवान् ' इत्यादौ दण्डस्याऽतीततया विशेषणत्वासंभवाद् मतुबाद्यनुपपत्तिरिति चेत् ?, न-प्रकृतशब्दप्रयोगाधिकरणकालावच्छिन्नस्येव विधेयान्तरसमभिव्याहारस्थले तदधिकरणकालावच्छिन्नसंबन्धस्यापि मतुबादिना प्रत्यायनात् तत्राऽतीतकालिकसत्त्वादिरूपविधेयाधिकरणाऽतीतादिकालावच्छिन्नसंबन्धस्यैव मतुबाद्यर्थत्वात् । अविद्यमानोपि दण्डा. दिर्धर्मान्तरसंबन्धसमानकालीनतया धर्मान्तरान्वयिनि विशेषणम्. तत्प्रकारेण भासमाने धर्मान्तरान्वयबोधो विशिष्टवैशिष्टयमित्युच्यते, न त्वसावऽन्वयिन्युपलक्षणम्. न वा तादृशबोधस्तदुपलक्षितान्वयबोध इत्युच्यते ।
कचिद्विधेयान्तरसमानकालीनमपि विशेषणं तदनन्वयितया तदन्वयिन्युपलक्षणमुच्यते यथा-' रूपवान् रसवान् , इत्यादी रूपादिकं रसान्वयिनि, 'सास्त्रावान् गोपदवाच्यः' इत्यादौ सास्त्रादिकं गवादिपदवाच्ये । क्वचिद्रमिसंबद्धधर्मान्तरसंबन्ध्यपि धर्मों धर्मान्तरसंबन्धितानवच्छेदकतया धर्मान्तरवादित्याशङ्कते--अयेति । परिहरति-नेति, मतुबादिना दण्डादीनां यथा प्रकृत=दण्डादिशब्दप्रयोगाधिकरणकालिकः संबन्धः 'दण्डवानस्ति ' इत्यादौ प्रत्याय्यते तथा विधेयान्तरसममिव्याहारस्यले तदधिकरणकालावच्छिन्नसंबन्धः-विधेयान्तराधिकरणकालावच्छिन्नसंबन्धोपि प्रत्याय्यते तथा च तत्र=' दण्डवानयमासीद् , 'दण्डी गतवान् ' इत्यत्राऽतीतकालिकं यत्सत्त्वादिरूपं विधेयं तादृशविधेयाधिकरणीभूतो योऽतीतकालस्तादृशातीतकालावच्छिन्न एव संबन्धःदण्डादिसंबन्धो मतुबाद्यर्थोस्ति तस्य चात्र बाधाभावात् न मतुबाद्यनुपपत्तिरित्यर्थः । ननु विशेषगवाचकपदान्मतुबादयो भवन्ति विशेषणत्वं च विद्यमानस्यैव भवतीति कयमविद्यमानस्य दण्डादेविशेषणत्वं येन मतुबादय उपपद्यरन्नित्याशङ्याह-अविद्यमानोपीति, यथात्र धर्मान्तरसंबन्धसमानकालीनतया अतीतकालिकसत्त्वसंबन्धसमानकालिकतया ( यस्मिन् काले सत्त्वमासीत् तस्मिन् काले दण्डोप्यासीदेव ) धर्मान्तरान्वयिनि-अतीतकालिकसत्त्वान्वयिनि पुरुषे दण्डो विशेषणमेव, तत्प्रकारेण:-दण्डप्रकारेण (बहुव्रीहिः) भासमाने पुरुषे धर्मान्तरान्वयबोधःअतीतकालिकसत्त्वबोधो विशिष्टवैशिष्टयबोध इत्युच्यते- दण्डविशिष्टेऽतीतकालिकसत्त्ववैशिष्टयस्य सत्त्वात्, न त्वसौदण्डः अन्वयिनि-पुरुषे उपलक्षणम्, न वा तादृशबोधः= दण्डवानयमासीत् । इत्यादिवाक्यजन्यबोधस्तदुपलक्षितान्वयबोधः-दण्डोपलक्षितविषयकशाब्दबोध इत्यविद्यमानोपि दण्डादिविशेषणमेवात्र न तूपलक्षणमित्यर्थः ।
विशेषणोरलक्षणयोः परिभाषामाह-कचिदिति, यथा विधेयान्तरसमानकालीनमपि रससमानकालिकमपि विशेषगं रूपं तदनन्वयि तया रसानन्वयितया तदन्वयिनि-रसान्वयिन्युपलक्षणमित्युच्यते इत्यन्वयः, सास्नेति-यथा विधेयान्तरं गोपदवाच्यत्वं तत्कालिकमपि विशेषणं सास्ना तदनन्वयितया गोपदवाच्यत्वानन्वयि तया गवि उपलक्षणमित्यन्वयः । उपलक्षणस्य स्वरू
"Aho Shrutgyanam"