________________
विशेषणोपलक्षणपरिभाष ]
व्युत्पत्तिवादः ।
(४४३)
संबन्धिन्युपलक्षणम्. अत: ' दण्डपुरुषौ ' इत्यादिसमूहालम्बनबोधो दण्डाद्युपलक्षित पुरुषादिविषयको न तु विशिष्टविषयक इत्युच्यते ।
विशेष्यसंबद्धा संबन्ध्यपि तत्संबन्धितावच्छेदकतया तद्वति विशेषणम्, अतः एव संज्ञाविशिष्टसंज्ञादिज्ञाने संज्ञादेर्विषयत्वमनङ्गीकुर्वतां प्राभाकराणां प्राचीननैयायिकानां च मते तटस्थज्ञानविषयतयैव विषयतावच्छेदकत्वात् संज्ञादेः
14
पान्तरमाह कचिदिति । उदाहरति-अत इति, यथा ' दण्डपुरुषौ ' इत्यत्र धर्मी पुरुषः तत्संबद्धधर्मान्तरं वर्तमानकालिकसत्त्वादिकं तत्सबन्ध्यपि धर्मो दण्डः - दण्डेपि वर्तमानकालिक सत्त्वस्य सत्वात् स च दण्डो धर्मान्तरस्य = उक्तवर्तमानकालिकसत्त्वस्य संबन्धितावच्छेदकं नास्ति संबन्धितावच्छेदकत्वेनाऽप्रतीयमानखादिति धर्मान्तरसंबन्धिनि = उक्तसत्त्वविशिष्टे पुरुषे दण्ड उपलक्षणमिति 'दण्डपुरुषौ ' इति समूहालम्बनात्मको बोधो दण्डोपलक्षितविषयक एव न तु दण्ड विशिष्टविषयक इत्यन्वयः । यस्य धर्मस्य धर्मिणि स्वसमानकालिकधर्मान्तरे चान्वयो भवति स विशेषणमित्युच्यते यथा ' अस्ति दण्डी ' इत्यत्र वर्तमानकालिकं सत्त्वं पुरुषे तदन्वितदण्डे चान्वेतीति विशेषणमित्युच्यते ।
उक्तवैपरीत्येन विशेषणपरिभाषामाह - विशेष्येति, धर्मि संबद्धधर्मान्तरसंबन्ध्यपि धर्मो धर्मा - न्तरसंबन्धितानवच्छेदकतयोपलक्षणं भवतीति यदुक्तं तद्वैपरीत्ये विशेष्यसंबद्धा संबन्ध्यपि धर्मो तत्संबन्धितावच्छेदकतया - विशेष्य संबद्धधर्मान्तरसंबन्धितावच्छेदकतया तद्वति धर्मान्तरवति विशेष्ये विशेषणं भवतीत्यभिप्रायः, यथा 'घटो घटपदवाच्यः' इत्यत्र विशेष्यो घटस्तत्संबद्धो घटत्वं सदऽसंबन्ध्यपि = घटत्वासंबन्ध्यपि संज्ञा तत्संबन्धितावच्छेदकतया = घटसंबद्धघटत्वसंबन्धितावच्छेदकतया = घटे वाच्यत्वसंबन्धेन संज्ञा विशेषणं तत्र च घटे घटत्वसंबन्धिता वर्तते इति संज्ञायां घटत्वसंबन्धितावच्छेदकतास्त्येवेति संज्ञा तद्वति घटत्ववति घटे विशेषणमित्यन्वयः, तथा च विशेष्यसंबद्धधर्मान्तरसंबन्धितानवच्छेदकमुपलक्षणम्, विशेष्यसंबद्धधर्मान्तरसंबन्धितावच्छेदकं विशेषणमिति फलितम् । उदाहरति- अत एवेति, तटस्थेति-- संज्ञाया घटज्ञानविषयत्वं नास्ति घटस्य प्रत्यक्षादिविषयत्वात् संज्ञायाश्च स्मर्यमाणत्वेन स्मृतिविषयत्वादिवि संज्ञायास्तटस्थज्ञानविषयत्वं तटस्थज्ञानविषयत्वेपि संज्ञाया विषयतावच्छेदकत्वमस्त्येव - 'घटो घटपदवाच्यः' इत्यत्र संज्ञाया घटे विशेषणतया घटनिष्ठविषयतावच्छेदकत्वेन भासमानत्वात्, विषयता विच्छेदकत्वाच्च संज्ञाया ज्ञानविषये घटे विशेषणत्वं प्राप्तमिति भावः । उक्तं च प्रामाकरैः - " नामकल्पनापि प्रत्यक्षा- इन्द्रियानुविधायित्वात् ' देवदत्तोयम् ' इति । तत्र यद्यपि वर्णात्मकं नाम स्मरणनिष्ठम् ( न प्रत्यक्षविषयः ) तेन सह वाच्यवाचकभावोपि स्मृति समारूढ एव ( न प्रत्यक्षविषयः ) तथापि संज्ञा प्रत्यक्षतां न मुञ्चति, न हि संज्ञा तत्संबन्धो वा तदानीमेकज्ञाने विशेष्यत्वेन प्रतिभातः किं तु तौ स्मृत्यारूढावेव, संज्ञिनि हि दृश्यमाने प्रागनुभूतौ तौ स्मृतिमारोहत अत एवोक्तम्
"Aho Shrutgyanam"