________________
( ४४४ )
सादर्श:
[ तृतीयाकारके
"
प्रकारस्य ज्ञानविषयविशेषणत्वम् । अत एव द्वित्वनाशकालीनायाम् ' दे द्रव्ये ' इतिबुद्धौ न द्वित्वविषयकत्वमपि तु द्वित्वविशिष्टविषयकत्वमेव- द्वित्वरूपविशे'षधीजन्यत्वादित्याचार्याः ।
एवमप्रतियोगित्वाविशेषेपि घटसामान्याभावादिप्रतियोगिनि घटत्वादिकं . विशेषणं नीलादिकमुपलक्षणमित्युच्यते । क्वचिच्च विद्यमानमप्यतदूव्यावृत्तिन्यूनाधिकवृत्तितया तत्र न विशेषणमित्युच्यते किं तूपलक्षणं यथा विद्यमानापि जटा तापसे उपलक्षणं न तूपलक्ष्यतावच्छेदकशमदमादिवद्विशेषणम्, इत्यलमप्रस्तुत परिभाषाविचारबाहुल्यन ।
८८
'संज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते ।
न
संज्ञिनः, सा तटस्था हि न रूपाच्छादनक्षमा || " इति " इति । ( हि यतः ) विशेषणस्य स्वरूपान्तरमाह - अत एवेति प्रत्यक्षात्मकज्ञानस्य नष्टपदार्थविषयकत्वं संभवतीति द्वित्वनाशकालिकायाः 'द्वे द्रव्ये' इत्याकारक बुद्धेर्नष्टद्वित्वविषयकत्वाभावेपि द्वित्वविशिष्टविषयकत्वमक्षतमेव- द्वित्वरूप विशेषणज्ञानजन्यत्वात् तथा च नष्टस्याप्यत्र द्वित्वस्य द्रव्यविशेषणत्वमेव - उक्तबुद्धेर्द्वित्वविशिष्टविषयकत्वात्, अपेक्षाबुद्धिजन्यस्य द्वित्वस्यापेक्षाबुद्धिनाशेन नष्टत्वादुक्त बुद्धिविषयत्वं नास्तीत्यन्यदेतत्. नैतावता विशेषणत्वस्य काचित् क्षतिरित्यर्थः । अत एव = विशेष्य संबद्धा संबन्धिनोपि तत्संबन्धितावच्छेदकतया तद्वति विशेषणत्वस्वीकरादेव. अत्र च द्रव्यलक्षणविशेष्य संबद्धं यद् वर्तमानकालिकसत्त्वादिकं तदसंबन्धिनोपितेंद्रहितस्यापि द्वित्वस्य तत्संबन्धितावच्छेदकतया तद्वति-उक्तसत्त्ववति द्रव्ये विशेषणत्वमित्यर्थः ।
विशेषणोपलक्षणयोः स्वरूपान्तरमाह - एवमिति, नीले घंटे नष्टे यथा घटत्वस्य समवायस्तथा नीलस्याप्यस्त्येव - समायस्य नित्यत्वादिति घटत्वनीलयोरभावाऽप्रतियोगित्वाविशेपेपि घटत्वं प्रतियोगितावच्छेदकत्वेन विशेषणं नीलं च प्रतियोगितानवच्छेदकत्वेनोपलक्षणमित्यैव परिभाषास्तीत्यर्थः । उपलक्षणस्य स्वरूपान्तरमाह- कचिदिति, अतद्व्यावृत्तिरदेन विशेष्यतावच्छेदकरूपा जातिर्ग्राह्या, तत्र = अन्वयिनि । अत्र तापसत्वमेव विशेष्यतावच्छेदकम तद्द्व्यावृत्तिपदेन ग्राह्यं यत्र यत्र च तापसत्वं तत्र तत्र जटा वर्तते इत्यपि नियमो नास्ति यत्र तापसत्वं नास्ति तत्र जटा न भवतीत्यपि नियमो नास्तीति तापसत्वन्यूनाधिकवृत्तितया तत्र तापसे जटा न विशेषणं किं तूपलक्षणमेव । शमदमादिकं तु तापसे विशेषणमेव शमादिकं विना तापसत्वानुपपत्तेरित्यर्थः । विशेषणोपलक्षणपरिभाषाप्रतिपादनमुपसंहरतिइत्यलमिति ।
"Aho Shrutgyanam"