________________
(४१२)
सादर्श:
[तृतीयाकारकेविशेषणस्य न कर्तृताघटकत्वम्, तथाप्यनुष्ठीयमानत्वप्रविष्टकृतेरेवाऽदृष्टाद्वारकमरणानुकूलत्वं विवक्षितं विशिष्टकर्तृत्वं चाऽदृष्टाद्वारकत्वविशषितमरणानुकूलत्वेन कृतिविशेषणेन घटितमिति मिश्राशयः।
तथा चैवं पर्यवसितम्-हिनस्तेः प्रवृत्तिनिमित्तं मरणरूपफलावच्छिन्नव्यापारत्वमेव “न हिंस्यात्" इत्यादौ फलविशिष्टस्वनिरूपितकर्तृत्वसंबन्धेन हिनस्त्याधर्थस्यानिष्टविशेषसाधनत्वं प्रतीयते, श्येनस्य हिनस्त्याद्यर्थत्वपि न तस्य ता. शकारणतावच्छेदकसंबन्धेन कचिदपि सत्त्वम्- तत्कर्तुरदृष्टाद्वारकानुकूलताघटितफलकर्तृत्वविरहेण विशिष्टाकर्तृत्वादिति नाऽनिष्टविशेष प्रति हिंसात्वेन साधनत्वमिति न क्रियायां विध्यर्थान्वयमतेपि श्येनविध्यर्थबाधः ।। क्षणे यद् व्यापारनिष्ठे मरणरूपफलानुकूलत्वेऽदृष्टाद्वारकत्वं विशेषण प्रक्षिप्तं तत् यद्यपि कर्तृताघटकं नास्ति-क्रियानिष्ठफलानुकूलत्वघटकत्वेन कृतिनिष्ठक्रियानुकूलत्वघटकत्वाभावात् तथाप्यनुष्ठीयमानत्वघटका या कृतिस्तनिष्ठं यन्मरणानुकूलत्वं तस्मिन्नेवाऽदृष्टाऽद्वारकत्वं विशेषण विवक्षितमस्ति विशिष्टकर्तृत्वम्-वधकर्तृत्वं च कृतिविशेषणेनाऽदृष्टाद्वारकत्वविशिष्टमरणानुकूलत्वेन घटितमस्ति-अदृष्टाद्वारकमरणानुकूलकृतिजन्यव्यापारकर्ता हिंसक इति बोधोदयादिति एवं चाहष्टाद्वारकत्वविशेषणस्य कर्तृताधटकत्वं लभ्यते इति मिश्राशयः । तथा च कर्तृत्वमदृष्टाद्वारकमपेक्ष्यते अन्यथा श्येनकर्तुरपि वधकर्तृत्वप्राप्त्या संपूर्णप्रायश्चित्तं स्यादिति भावः । यः खलु मन्त्रादिद्वारा पाकं करोति सोऽदृष्टद्वारा पाकानुकूलकृतिमान् विज्ञेयः । अनुष्ठीयमानत्वं च कृतिविषयत्वमेवेत्यनुष्ठीयमानत्वस्वरूपे कृतिप्रवेशो विज्ञेयः।
पर्यवसन्नमर्थमाह-तथा चेति, मरणानुकूलव्यापार एव हिंसार्यकधात्वर्थः । " न हिस्यात् " इत्यत्र च जनकतासंबन्धेन फलविशिष्टं यत्स्वं व्यापारः अदृष्टाद्वारकमरणानुकूलव्यापारस्तादृशव्यापारकर्तृत्वसंबन्धेन हिनस्त्याद्यर्थस्य हिंसाया अनिष्टविशेषसाधनत्वम्-नरकादिसाधनत्वं प्रतीयते अर्थात् अदृष्टाद्वारकमरणानुकूलव्यापरकर्तुरनिष्टं भवतीति प्रतीयते,हिंसके उक्तविशेषकर्तृत्वेन वर्तमाना हिंसा तत्रानिष्टं नरकादिकमुत्पादयन्ती तेन कर्तृत्वसंबन्धेनानिष्टस्य साधनं भवतीत्यर्थः । श्येनश्च शत्रुमरणार्थमेव क्रियते इति श्येनस्य हिनस्त्याद्यर्थत्वेपि हिंसार्थव्यापाररूपत्वेपि न तस्य-श्येनस्य तादृशकारणतावच्छेदकसंबन्धेन उक्तफलविशिष्टव्यापारनिरूपितकर्तृत्वसंबन्धेन कचिदपि सत्त्वं येन श्येनोऽनिष्टसाधनं स्यादित्यर्थः । उक्तसंबन्धेन श्येनस्य सत्त्वाभावे हेतुमाह-तत्कर्तुरिति, श्येनकर्तुरदृष्टाऽद्वारकानुकूलताघटितफलकर्तृत्वाभावेन विशिष्टकर्तृत्वाभावात अदृष्टाऽद्वारकवधकर्तृत्वाभावात्. श्येनकर्तुरदृष्टद्वरिव वधकर्तृत्वात् श्येनकर्तरि संबन्धभूतमदृष्टाद्वारकमरणविशिष्टव्यापारकर्तृत्वमेव नास्ति येन तादृशकर्तृत्वसंबन्धेन श्येनस्य सत्त्वमनिष्टसाधनत्वं च स्यादित्यर्थः । तथा च श्येनस्यानिष्टसाधनत्वेपि हिंसास्वेनाऽनिष्टसाधनत्वं नास्ति श्येनस्य हिंसाफलकत्वेन हिंसारूपत्वाभावात् । तथा च विध्यर्थस्य इष्टसाधनत्वस्य क्रियायामेवान्वयो भवतीत्यस्मिन्
"Aho Shrutgyanam"