________________
(१०४)
सादर्शः
[प्रथमाकारकेतदसत्- स्वारसिकलक्षणाग्रहस्थलानुरोधेन तादृशप्समभिव्याहारज्ञानादेस्तथाविधबोधजनकतायाः क्लप्तत्वात् तत्र निरूढलक्षणास्वीकारे गौरवाभावात् । यत्र राजपदम्य राजसंवन्धिनि स्वारसिकलक्षणाग्रहस्तत्र तादृशबोधस्योभयमतसिद्धतया तादृशसमाभिव्याहारज्ञानस्य राजसंबन्ध्यभिन्नपुरुषबोधे। कारणतायाः क्लप्तत्वात् तयैव निर्वाहेण सर्वत्र लुप्त विभक्तिस्मरणकल्पने मानाभावात् ।
अत्र कृष्णभट्टो यथा- “ तदुक्तम्- “ सविशेषणानां वृत्तिर्न वृत्तस्य विशेषगयोगो न" इति, विशेषणसहितानां विशेष्यागामेव वृत्तिन लुप्त विशेषणानां विशेष्याणामपि तेन सविशेषणानां मातङ्गानां राजरूपविशेपगेन सह समास उपपन्नः । एवं वृत्तस्य विशेषणस्य विशेषणयोगो नेत्यर्थस्तेन 'सुन्दरा राजमताङ्गाः' इत्यत्र सुन्दरविशेषणस्य राजमातङ्गे विशेष्येऽन्वयः। समासघटकेत्येतदमित्रायकमेव । ऋविशेषणयुक्तस्य विशेषगस्य राज्ञः समाररूपा वृत्तिर्न, एवं च वृत्तस्य=समस्तस्य राज्ञो विशेषगस्य ऋतस्येति विपणयोगोपि नेति तदर्थः । तत्सापेक्षत्वं तदर्था न्वतस्वार्थपरत्वम्-- समासाऽघटकऋद्धपदार्थान्वितो यः स्वार्थो राजपदार्थस्तत्परं तात्पर्य यस्य तत् तदर्थान्वितस्वार्थपरं राजपदं तत्त्वं राजपदस्ति, स्वार्थश्च स्वीयवृत्तिग्रहविशेष्य:-स्वं राजपदं तच्छक्तिग्रहो ' राजा राजपदशक्यः । इत्याकारकस्तद्विशेष्यो राजा तदर्थानि तः स्वार्थो राजपदार्थः स च राजपदशक्तिग्रहविशेष्य इत्यर्थकरणादेव । " " शरैः शातितपत्रश्चैत्रस्य दासभार्येत्यादौ न समस्यमानशातितदासपदादेः सापेक्षता तदर्थे कदेशशातनदासत्वादाव शरकरणकत्वचत्रनिरूपितत्वादीनामन्वयादिति मूलम्-तत्यपदं समासाऽघटकं तृतीयापदं तदर्थः शरकरण. करवं तदन्वितस्वार्थः शातितपदशक्तिग्रहविशेष्यं शातनकर्म पत्रादिकं न भवति किं तु शातितपदार्थैकदेशशातनक्रियैव भवति शरकरणकत्ववती या शासन क्रिया तत्कर्म पत्रं यस्येत्यर्थात् । एवम् ' चैत्रस्य दासभर्या ' इत्यत्र तत्पदं समासाऽघटक चैत्रस्येति षष्टीपदं तदर्थों निरूपितत्वं तदन्वितः स्वार्थो दासपदशक्तिमहविशेष्यो दासो न भवति कि तु दासपदार्थैकदेशः सेवारूपचैत्रनिरूपित्तत्ववदासत्वं तद्वती भार्येत्यर्थात. तेन न समस्यमानशातितदासपदादः समासाऽघटकशरितिचैत्रस्येतिपदसापेक्षत्वं येनाऽसमर्थत्वात् समासो न स्यादित्यर्थः ।। इति ।
प्रकारतावादी परिहरति-- तदसदिति, यदा 'राजपुरुषः' इत्यत्र कस्य चिट् राजपदस्य राजसंबन्धिनि स्वारसिकलक्षणाग्रहो भवति तदा तादृशसमभिव्याहारज्ञानादेः राजपदाव्यवहितो. 'तरपुरुषपदसमभिव्याहारज्ञानस्य तथाविधशाब्दबोधजनकतायाः= 'राजसंबन्ध्यभिन्नः पुरुषः । इति बोधजनकताया उभयमतक्लप्तत्वात् तत्र-राजसंबन्धिनि राजयदस्य निरूढलक्षणास्वीकारे गौरवाभावात्- स्वारसिकलक्षणास्वीकारस्य गले पतितत्त्वादित्यर्थः । उक्तमेव विशदयतियत्रेति । तत्र-स्वारसिकलक्षणाग्रहस्थले । तादृशबोधस्य 'राजसंबन्ध्यभिन्नः पुरुषः । इति बोधस्य । तादृशसमभिव्याहारज्ञानस्य-राजपदाव्यवहितोत्तरपुरुषपदसममिव्याहारज्ञानस्य । तयैव= लक्षणयैव । सर्वत्र' दधि पश्य ' इत्यत्रेव 'राजपुरुषः । इत्यादौ लुप्तविभक्तिकल्पने मानाभावात्, युक्त्यभावाचेत्यर्थः ।
"Aho Shrutgyanam"