________________
भेदान्वयवादः ] व्युत्पत्तिवादः।
(१०५) न च स्वारसिकलक्षणाग्रहस्थले तत्र तादृशान्वयत्रोधस्य भयवादितिद्वत्वेपि निरूढलक्षणामत संबन्धितात्पर्यस्यानादित्वकल्पनागोरवम्. अनादितात्पयविषयी. भूतार्थतिष्ठलगाया एव निरूढलक्षणात्वादिति वाच्यम्, 'राजगुरुषः' इत्यादिवाक्यजन्यशाब्दबोधात् पूर्व नियमतो लुप्तविभक्तिस्मरणकल्पनापेक्षया तात्पर्य स्थाऽनादित्वकल्पनायां गौरवावरहादिति । __न चैवम्- 'दधि पश्यति' इत्यादावपि दध्यादिपदस्य दधिकर्मकादी लक्षणां स्वीकृत्य धात्वर्थन समं तस्याऽभेदान्वयबोधोपपादनसंभवात् तत्राये लुप्तविभक्तिस्मरणकल्पनमनुचितामति वाच्यम् , दध्यादिपदस्य दधिकर्मकादी लक्षणायहदशायामापे तस्य द्वितीयेतरविभक्त्यन्तत्वभ्रमदशायःम् 'दधिकर्नकः पश्यति' 'दधिकर्मकेण पश्यति' इत्यादाविवोक्तस्थलेपि दधिकर्मकदर्शनान्वयबोधानुदयात् । भवन्मते 'दधिकर्मकः पश्यति ' इत्यत्र 'दधि पश्य त ' इतिस्थलीयदधिपदोत्तरपश्यतिपदत्वरूपाकाङ्क्षाज्ञानादिघटितसामग्रोसत्त्वाद् दधिर्भकदर्श
नन्वऽनादितात्पर्यवती टक्षणा हि निरूढलक्षणेत्युच्यते ' राजपुरुषः । इत्यत्र च निरूढलक्षणास्वीकारे राजसंबन्धिनि राजपदस्यानादितात्पर्यकल्पनेन किं वा तात्पर्यस्यानादित्य कल्पनेन गौरव स्यात्. स्वारसिकलक्षगास्थले तु तात्पर्यस्यानादित्वकल्पना नास्तीति गौरवाभावात् स्वारसिकलक्षणादृष्टान्तेन निरूढलक्षणास्वीकारो नोचित इत्याशझ्याह-- न चेति । परिहारहेतुमाहराजेति, 'राजपुरुषः । इत्यादौ राजसंबन्धिनि राजपदस्याऽनादितात्पर्यकल्पना त्वकदैव कर्तव्या न वारं वारं लुप्तविभक्तिस्मरणं तु प्रतिवाक्यश्रवणं कर्तव्यमिति लुप्तविभक्तिस्मरणकल्पनायामेवाधिक गौरवमित्यर्थः ।
ननु यदि 'राजपुरुषः ' इत्यादी लक्षणां स्वीकृत्योक्तरीत्या लुप्तविभक्तिस्मरणं न स्वीक्रियते तदा 'दधि पश्यति' इत्यादावपि लुप्तविभक्तिस्मरणं न कर्तव्यं किं तु दध्यादिपदस्य दधिकर्मकादौ लक्षणा स्वीकर्तव्या तस्य दधिकर्मकस्य धात्वर्थेन दर्शनेन सह — दधिकर्मकं दर्शनम् । इत्येवमभेदान्वयस्य संभवेनाभेदान्वयबोधसंभवादित्याशङ्क्याह- न चेति । परिहारहेतुमाहदध्यादीति । तस्य दधिरदस्य । ' दधि पश्यति ' इत्यत्र दधिपदस्य दधिकर्मके लक्षणाग्रहदशायामपि यदा कस्यचित् दधीतिपदे प्रथमाविभक्त्यन्तत्वस्य तृतीयाविभक्त्यन्तत्वस्य वा भ्रमो जायते तदा दधिकर्मकस्य धात्वर्थेनाऽभेदान्वयबोधासंभवात् ' दधिकर्मकः पश्यति' 'दधिकर्मकेण पश्यति । इत्येव बोधो भवति न त्वमेदान्वयबोधस्तथोक्तस्थलेपि- 'दधि पश्यति ' इत्यत्र दधिपदे द्वितीयेतरविभक्त्यन्तत्वभ्रमाभावदशायामप्यऽभेदसंबन्धेन दधिकर्मकदर्शनान्वयबोधो न संभवति विनिगमनाविरहादिति हेतोरभेदान्वयबोधं प्रति द्वितीयान्तदधिपदोत्तरपश्यतिपदसमभिव्याहारस्य कारणत्वं वक्तव्यं तथा च लुप्तविभक्तिस्मरणमावश्यकमेव । एतदेवोपपादयति दोषान्तरं प्रदर्शयन्-भवन्मत इति । किं च भवन्मते लुप्तविभक्तिस्मरणास्वीकारे ह्यऽमेदान्वयबोधं प्रति द्वितीया
"Aho Shrutgyanam'