________________
(१०६)
सादर्श:
[ प्रथमाकारकेनान्वयस्यापत्तद्धितीयान्तदध्यादिपदत्वावच्छिन्नधर्मिकतादृशधात्वादिसमभिन्याहारज्ञानस्य तादृशान्वयबोधे हेतुताया आवश्यकत्वात् , 'दधि पश्यति' इत्यादौ लप्तद्वितीयानुसंधानस्यावश्यकत्वात् ।।
राजसंबन्धिपुरुषाद्यन्वयबोधे च राजादिपदाऽव्यवहितोत्तरपुरुषादिपदत्वप्रकारकज्ञानस्य हेतुतायाः स्वारसिकलक्षणाग्रहस्थलानुरोधेनावश्यकल्पनीयतया 'राजपुरुषः' इत्यादौ राजादिपदस्य तृतीयाधन्तत्वभ्रमदशायां राजसंबन्धिपुरुपाद्यन्वयबोधापत्त्यऽसंभवात् तृतीयादिविभक्त्या व्यवधानात् । दधि पश्यति' इत्यादौ दधिपदाव्यवहितोत्तरत्वप्रकारकधातुपदज्ञानस्य हेतुताया अक्लसत्वात् । 'पश्यति दधि ' 'पश्यति चैत्रो दधि' इत्यादावपि दधिकर्मकदर्शनान्वयबोधात् वादृशज्ञानहेतुताया अशक्यकल्पनीयत्वाच्चेति । न्सदधिपदोत्तरपश्यतिपदसमभिव्याहारज्ञानस्य तु हेतुता न वक्तुं शक्यते लुप्तद्वितीयानुसंधानापत्तेः, तस्मादऽभेदान्वयबोधं प्रति दधिपदोत्तरपश्यतिपदसमभिव्याहारज्ञानस्य कारणत्वं वक्तव्यं तत्तु यथा ' दधि पश्यति' इत्यत्रास्ति तथा ' दधिकर्मकः पश्यति । इत्यत्राप्यस्त्येवेति 'दधिकर्मकः पश्यति ' इत्यत्राप्यभेदान्चयापत्तिः प्राप्ता तद्वारणाय द्वितीयान्तदधिपदोत्तरपश्यतिपदसम-- भिन्याहारज्ञानस्याऽभेदान्वयबोधं प्रति कारणत्वं वक्तव्यं तथा च ' दधि पश्यति' इत्यादौ लुप्तद्वितीयादिस्मरणं प्राप्तमेवेत्यर्थः । तादृशान्वयबोधे-अभेदान्वयबोधे । __ ननु ' दधि पश्यति ' इत्यत्रेय ' राजपुरुषः । इत्यत्रापि लुप्तविभक्तिस्मरणं कथं न स्वीक्रियते ? इत्याशङ्कय ' राजपुरुषः । इत्यस्य वैषम्यमुपपादयति- राजसंबन्धीति, राजपदस्य राजसंबन्धिनि स्वारसिकलक्षणाग्रहस्थलानुरोधेन 'राजपुरुषः' इत्यत्र राजसंबन्धिपुरुषयोरमेदान्वयबोध प्रति राजपदाव्यवहितोत्तरपुरुषपदसमभिव्याहारज्ञानस्य कारणत्वमस्तीति तस्य 'राजपुरुषः । इत्यत्र सत्त्वादऽभेदान्वयबोधो जायते, 'राजपुरुषः ' इत्यत्र राजपदस्य तृती. याद्यन्तत्वभ्रमदशायां च भ्रमविषयीभूततृतीयादीनां राजपदाने स्मरणेन तेन तृतीयादिना व्यवधानात् राजपदाव्यवहितोत्तरपुरुषपदसममिव्याहारज्ञानस्याभावादऽमेदान्वयबोधापत्तिर्नास्तीति नातिप्रसङ्गो न वा 'राजपुरुषः । इत्यत्र लुप्तविभक्तिस्मरणापेक्षेत्यर्थः । नन्वेवम् 'दधि पश्यति' इत्यादावस्यभेदान्वयबोधं प्रति दधिपदाव्यवहितोत्तरपश्यतिपदसमभिन्याहारस्य कारणत्वं वक्ष्याम इति 'दधिकर्मकः पश्यति । इत्यत्र मध्ये कर्मकपदेन व्यवधानात्कारणामावान्नामेदान्वयबोधापत्तिरित्याशङ्कयाह- दधि पश्यतीति । 'पश्यति दधि । 'पश्यति चत्रो दधि ' इत्यादी दधिपदाव्यवहितोत्तरपश्यतिपदसमभिव्याहाराभावेण्यऽभेदान्वयबोधस्वीकारादभेदान्वयबोधं प्रति तादृशज्ञानहेतुताया: दधिपदाव्यवहितोत्तरपश्यतिपदसमभिव्याहारज्ञानस्य हेतुत्वं नैव वक्तुं शक्यते इति द्वितीयान्तदधिपदसमभिव्याहारसहकृतपश्यतिपदसमभिव्याहारज्ञानस्य हेतुत्वं वक्तव्यं
"Aho Shrutgyanam"