________________
भेदान्वयवादः ]
व्युत्पत्तिवादः ।
( १०७ )
' तण्डुलं पचति ' इत्यादौ, तण्डुलादिपदस्यैव तण्डुलादिकर्मके लक्षणा विभक्तिस्तु साधुत्वार्था । एवम्- राज्ञः पुरुषः ' इत्यादावपि राजादिपदस्य संबन्ध्यादौ लक्षणा विभक्तिः साधुत्वार्था । तत्तद्विभक्त्यन्तसमभिव्याहारस्य तत्तल्लाक्षणिकार्थबोधनियामकत्वान्नातिप्रसङ्गः । विभक्तेरेवं प्रकृत्यर्थविशेषितस्वायें लक्षणेति तु न संभवति - विभक्तेः कुत्रापि शक्तेरक्लृप्ततया तत्र शक्यसंबन्धरूपलक्षणाया असंभवात् । ' तण्डुलः प्रमेयः' इत्यादौ विभक्तयर्थाऽमिश्रितस्यैव प्रकृत्यर्थस्य भानात् प्रकृतिशक्तेः स्वार्थे क्लृप्ततया तत्र लक्षणासंभवादिति तु चिन्तनीयम् ।
८
तथा च लुप्तद्वितीयादिस्मरणमावश्यक मेवेत्यसमासस्थले लुप्तविभक्तिस्मरणं भवति समासस्थले च न भवतीति स्वीकार्यमित्यर्थः ।
"
पुनः पूर्वपक्षिमतमनुवदति-- तण्डुलमिति । यदुच्यते- 'तण्डुलं पचति' इत्यत्र तण्डुलपदस्य तण्डुलकर्मके लक्षणया मेदान्वयबोधः संभवति 'तण्डुलकर्मकः पाकः' इति, विभक्तिस्तु साधुत्वार्था निरर्थकैवेति तच्चिन्तनीयम् । तथा यदुच्यते यथा - 'राजपुरुषः' इत्यत्र राजपदस्य राजसंबविनि लक्षणां स्वीकृत्याभेदान्वयबोधः स्वीक्रियते तथा राज्ञः पुरुषः ' इत्यत्रापि राजपदस्य राजसंबन्धिनि लक्षणां स्वीकृत्याभेदान्वयबोध एव स्वीकार्यो न तु ङस्पदोपस्थितस्वत्वद्वारा मेदान्वयः - विभक्तेः साधुत्वार्थत्वेन निरर्थकत्वादिति तदपि चिन्तनीयमित्यन्वयः । नन्वेवं तण्डुलादिपदस्यैव तण्डुलकर्मके लक्षणास्वीकारे विभक्तेश्व निरर्थकत्व स्वीकारे ' तण्डुलः पचति । इत्यादावपि तण्डुलादिपदस्य तण्डुलकर्मके लक्षणापत्त्या मेदान्वयबोधापत्तिः स्या विश्याशङ्कयाह- तत्तद्विभत्तयन्तेति विभक्तेर्निरर्थकत्वेपि स्वरूपेण स्थितिसंभवाद् द्वितीयातण्डुलपदस्यैव तण्डुलकर्मके लक्षणास्वीकारात् तण्डुलकर्मकाभेदाश्वयबोधं प्रति द्वितीयासमभिव्याहारज्ञानस्य कारणत्वान्नातिप्रसङ्गः = ' तण्डुलः पचति । इत्यत्र नाभेदान्वयबोधापत्तिरित्यर्थः । ननु प्रकृतेः किमर्थं लक्षणा स्वीक्रियते ? विभक्तेरेव प्रकृत्यर्थविशेषितस्वार्थे= तण्डुलकर्मकादो लक्षणा किं न स्यादित्याशङ्कयाह - विभक्तेरेवेति । परिहारहेतुमाह - विभक्तेरिति, यदि विभक्तेः कचिदप्यर्थे शक्तिः स्यात्तदा विभक्तिशक्यस्य सत्त्वात् शक्यसंबन्धरूपा लक्षणापि कचिदर्थे विभक्तेः स्यात् नं चैवमस्ति - विभक्तेः कचिदप्यर्थे शक्तेरक्लृप्तः स्यात् । तत्र=विभक्तौ । ननु ' तण्डुलं पचति ' इत्यत्र विभक्तिप्रकृत्योरुभयोरपि सत्त्वात् तण्डुलकर्मके प्रकृतिभूततण्डुलपदस्यैव लक्षणा न विभक्तेरित्यत्र विनिगमनाविरह इत्याशङ्क्य विनिगमनामाह - तण्डुल इति, तण्डुलः प्रमेयः ' इत्यत्र तव मते प्रथमायाः प्रातिपदिकमात्रार्थकत्वात् तदर्थस्तु कर्मत्वादिः कोपि न संभवति विभक्त्यर्थामिश्रितस्तण्डुलपदार्थस्तु भासते एवेति तत्र प्रकृतिशक्तेरवश्यं स्वीकर्तव्यत्वात् प्रकृतेरेव तण्डुलकर्मकादो लक्षणास्वीकार उचितो न विभक्तेरिस्यर्थः । तत्र=प्रकृतौ । स्वार्थे तण्डुलपदार्थादौ ।
"
"Aho Shrutgyanam"