________________
(१०८)
[ प्रथमाकारके -
राजादिपदस्य राजसंबन्ध्यादौ शक्तत्वभ्रमदशायामिव तदर्थलक्षणाग्रहदशायामापे 'राजसंबन्धिसंबन्धी पुरुषः' इत्याद्यन्वयबोधस्य सर्वजनानामनुभवसिद्धत्वात् ।
'पवति चैत्रः' इत्यादावपि कृतिसंबन्धेन पाकादेश्चैत्राद्यंशे विशेषणत्वोपगमे 'चैत्रों न पचति' इत्यादावन्वयबोधानुपपतिर्द्रष्टव्या - कृतिसंबन्धस्यापि वृत्त्यनियाँमकतया तत्संबन्धावच्छिन्नप्रतियोगिताकाभावस्याप्रसिद्ध्या तद्बोधनासंभवात् । अथैवमपि 'चैत्रो जानाति' इत्यादौ चैत्रायंशे ज्ञानादेराश्रयता संबन्धेनान्वय
सादर्श:
"
८
यत् ( ८३ पृ.) " अथैतादृशरोत्यापत्तिवारणेपि " इत्यादिना C राज्ञः पुरुषः ' इत्यत्र 'विभक्तेः संबन्धवाचकत्वं न स्वीकार्यमित्युक्तं तत् परिहरति- राजादिपदस्येति, राज्ञः पुरुषः " . इत्यत्र राजपदस्य राजनि वस्तुतः शक्तत्वेपि यदा राजसंबन्धिनि शक्तत्वभ्रमः स्यात्तदा यथा 'राजसंबन्धिसंबन्धीपुरुषः' इत्येव बोधो भवति तथा राजपदस्य राजसंबन्धिनि लक्षणाग्रहदशायामपि 'राजसंन्यसंबन्धी ( राजसंबन्धिसंबन्धवान् ) पुरुषः 'इत्यन्वयबोधः सर्वानुभवसिद्ध एव तत्र राजपदस्य राजसंबन्धी अर्थः षष्ट्या एव संबन्धरूपोर्थो भासते इति न विभक्तेर्निरर्थकत्वमित्यर्थः । यत् ( ८८ पृ.) एवम् ' पचति चैत्र: ' इत्यादावपि कृतिसंबन्धेन पाकादेश्चैत्राद्यंशेऽन्वयबोधस्वीकार उचितः " इत्युक्तम्, तत्परिहरति- पचतीति । नञऽसत्त्वे य एव संबन्धः प्रकारतावच्छेदको भवति नञ्सत्त्वे स एव संबन्धः प्रतियोगितावच्छेदको भवतीति " प्रतियोभावान्वयौ तुल्ययोगक्षेमौ ” इत्यत्र व्युत्पादितं तथा च ८ पचति चैत्रः' इत्यत्र कृतिसंब“न्धेन पाकस्य चैत्रे प्रकारत्वोपगमे ' चैत्रो न पचति ' इति नञ्घटितवाक्यस्थले शाब्दबोधानुपपत्तिः स्याद् यतः ' चैत्रो न पचति ' इत्यत्र प्रतियोगितावच्छेदक संबन्धत्वं कृते
,
看
न संभवति कृतिरूपसंबन्धस्य वृत्त्य नियामकतया प्रतियोगितावच्छेदकसंबन्धत्वासंभवात्, तत्संबन्धावच्छिन्न=कृतिसंबन्धावच्छिन्नप्रतियोगिताका भावस्याप्रसिद्धत्वेन नत्रा तद्बोधनासंभवातू = कृतिसंबन्धावच्छिन्नप्रतियोगिताकाभावबोधनासंभवादिति न पचति चैत्रः' इत्यत्र कृतिसंबन्धेन पाकादेश्चैत्रादावन्वयः संभवतीत्यर्थः किं तु पाकस्यानुकूलत्वसंबन्धेन वा निरूपितसंबन्धेन वा कृतान्त्रयस्तादृश कृतेश्चाश्रयतासंबन्धेन चैत्रादावन्वयः स्वीकार्यः, आश्रयतासंबन्धस्य च वृत्तिनियामकत्वेन प्रतियोगितावच्छेदकत्वात् ' चैत्रो न पचति ' इत्यत्रान्वयबोधानु-पपत्तिर्नास्ति - आश्रयतासंबन्धेन कृत्यभावस्य प्रत्येतुं शक्यत्वात् । आख्यातस्यापि कृत्यर्थकत्वानाऽऽनर्थक्यमित्यर्थः ।
66
C
नन्वेवमपि=कृति संबन्धस्य वृत्त्यनियामकतया • न पचति चैत्रः । इत्यत्र शाब्दबोधानुपपयाssख्यातस्य कृत्यर्थकतया सार्थक्योपपादनेपि आश्रयतासंबन्धस्य वृत्तिनियामकत्वेन चैत्रो न जानाति ' इत्यादौ ' आश्रयतासंबन्धावच्छिन्नप्रतियोगिताकज्ञानाभाववांश्चैत्रः ' इतिबोधसंभवादाख्यातस्याश्रयत्वार्थकत्वकल्पनं निर्युक्तिकमित्याशङ्कते - अथैवमपीति । ११५ इति चेदित्यन्तं
"Aho Shrutgyanam"