________________
मेदान्ववादः ]
व्युत्पत्तिवादः ।
( १०३ )
त्वेन । तत्सापेक्षत्वं च तदर्थान्वितस्वार्थपरत्वम्, स्वार्थश्व - स्वीयनृत्तिग्रहविशेष्यः । अत एव 'शरैः शातितपत्र: ' 'चैत्रस्य दासभार्या' इत्यादौ न समस्यमानशातितदासपदादेः सापेक्षता - तदर्थैकदेशशातनदासत्वादावेव शरकरणकत्वचैत्र निरूपितत्वादीनामन्वयात् । तदर्थान्वितेत्यत्राऽभेदान्वयो वा निवेशनीय इतेि ।
66
“
मावा मातङ्गपदेन समास एव न संभवतीति ' ऋद्धस्य राजमातङ्गाः ' इत्यत्र 'राजमातङ्गाः " इतिसमासस्याऽसाधुस्वं स्यादित्यभिप्रायेणैवाभियुक्तानाम् ' ऋद्धस्य राजमातङ्गाः ' इतिप्रयोगपरिहारोऽस्तीत्यर्थः । किं वा सविशेषणानां वृत्तिर्न " इति नियमेन समासाघटकपदार्थस्य विशेपणत्वे तद्विशेष्यवाचकपदस्य पदान्तरेण समासो न भवतीति नियमेन ऋद्धस्य राजमातङ्गाः " इति प्रयोगाभावो विज्ञेयः । समासाघटकपदसापेक्षत्वं निरूपयति - तरसापेक्षत्वमिति । तत्सापेक्षत्वम्=विशेषणसापेक्षत्वम् । तदर्थान्वितस्वार्थपरत्वम् = विशेषणान्वितस्वार्थबोधकत्वम्, यथा स्य राजमातङ्गाः' इत्यत्र राजपदस्य ऋद्धपदार्थान्वितराजपदार्थबोधकत्वात्सापेक्षत्वं सापेक्षत्वादसमर्थत्वमसमर्थत्वात्समासासाधुत्वम् । स्वार्थपदार्थमाह-स्वार्थश्चेति । स्वीयेति - स्वनिष्ठवृत्तिग्रहविशेष्यः स्वार्थ इत्यर्थः यथा स्वं राजपदं तन्निष्ठा या वृत्ती राजा राजपदशक्य इति तादृशवृत्तिमहे विशेष्यतया भासमानत्वाद् राजपदस्य राजपदार्थः स्वार्थ: । अत एवेति- अत एव = समासघटकपदस्या समासाऽघटकपदवाच्यपदार्थान्वितस्वार्थपरत्वे सापेक्षत्वादेव । तथा च . ऋद्धस्य राजमातङ्गाः इत्यत्र समासघटकराजपदस्य स्वीयवृत्तिग्रह विशेष्यभूतराजपदार्थवाचकस्य समासाऽघटक (ऋद्ध) पदवाच्यार्थान्वितराजपदार्थपरत्वेन सापेक्षत्वात् समासासाधुत्वम् । शरैः शातितपत्रः इत्यत्र ..समासघटक शातितपदस्य सापेक्षत्वं नास्ति शातितपदस्य शरकरणकत्वरूपार्थान्वितस्वार्थपरत्वाभावात, तथा ' चैत्रस्य दासमार्या ' इत्यत्रापि समासघटकदा सपदस्य सापेक्षत्वं नास्ति - चत्रनिरूपितत्वरूपार्थान्वितस्वार्थपरत्वाभावात् तथा च नात्र समासानुपपत्तिरित्यर्थः । उक्ते हेतुमाह - तदर्थेति । तदर्थैकदेशे = शातितपदार्थैकदेशे शातने दासपदार्थैकदशदासत्वे चैव शरकरणकत्वस्य चैत्रनिरूपितत्वस्य चान्वयात् । विनिगमनान्तरमाह- तदर्थान्वितेति एवं हि- अमेदान्वयस्वार्थपरत्वं सापेक्षत्वमिति लब्धम् - समासाऽघटकपदवाच्यार्थेन सहाऽभेदसंवन्धेनान्वितस्वार्थबोधकत्वं सापेक्षत्वमित्यर्थः । तथा च " ऋद्धस्य राजमातङ्गाः ' इत्यत्र राजपदार्थर्द्धपदार्थयोरभेदान्यनबोधे तात्पर्यसत्त्वात् सापेक्षत्वं तेन च समासा साधुत्वम् । शरैः शातितपत्र: ' इत्यत्र तु समासाघटकपदवाच्यार्थेन शरेण समासघटकशातितपदार्थस्य नामेदान्वये तात्पर्य किं तु शराणां शातितपदार्थे स्वकरणकशातन फलशालिश्वेन भेदसंबन्धेनान्वये तात्पर्यमिति नात्र सापेक्षत्वापत्तिर्येन समासाऽसाधुत्वं स्यात् ' चैत्रस्य दासभार्या ' इत्यत्र च समासा घटक चैत्रपदार्थस्य समासघटकदासपदार्थे स्वनिरूपितस्वत्वरूपभेद संबन्धेनान्त्रय इति न समासानुपपत्तिरित्यर्थः ।
>
C
" Aho Shrutgyanam"
6
"