________________
( १०२ )
सादर्श:
[ प्रथमाकारके
"
वत् 'राजपुरुषः' इत्यादावपि उप्तषष्ठीविभक्तिस्मरणेन राजसंबन्धप्रकारकभेदान्वयबोधनिर्वाहे राजसंबन्धिनि निरूढलक्षणां स्वीकृत्याभेदान्वयबोधोपगमो नि. रर्थकः न च षष्ठीतत्पुरुषादिस्थलेपि कुप्तविभक्तिस्मरणे एव चेदन्वयबोधः ? तदा 'ऋद्धस्य राजमातङ्गाः' इत्यादिप्रयोगापत्तिः- तत्र मातङ्गादौ राजादीनामन्वयबोधोपपत्तये राजादिपदोत्तरषष्ठ्चादिविभक्त्यनुसंधानस्यावश्यकत्वेन समानविभक्तिकतया राजादौ ऋद्धादिपदार्थस्याऽभेदान्वयबोधसंभवादिति वाच्यम्, यतस्तत्र ऋद्धराजादीनामभेदान्वयबोधानुपपत्त्या नाभियुक्तानामप्रयोगः अपि तु समासाऽघटकपद सापेक्षतया राजपदस्याऽसामर्थ्याऽतिदेशात् समासाऽसाधुतेपि दधिमदोत्तरं लुप्तविभक्तेः स्मरणं यथा भवति तेन च 'दधिकर्मकं दर्शनम्' इति भेदान्वयबोrer भवति दनः स्वकर्मकत्वसंबन्धेन धात्वर्थे दर्शनेऽन्ययस्वीकारात् तथा 6 राजपुरुष:' इत्यश्राप लुप्तषष्ठी विभक्तिस्मरणेन राजसंबन्धप्रकारक भेदान्वयबोध निर्वाहे = ' राजसंबन्धवान् = राजनिरूपितस्त्ववान् पुरुषः ' इत्येवं राजसंबन्धप्रकारकस्य मेदान्वयबोधस्य राज्ञः पुरुषः ' इत्यव निर्वाहे संभवति सति राजपदस्य राजसंबन्धिनि लक्षणां स्वीकृत्या मेदान्वयबोध स्वीकासे व्यर्थः । एवं हि 'राज्ञः पुरुषः L " 'राजपुरुषः' इति समासाऽसमासवाक्ययोरेकगत्या लाघवमपि स्यादित्यर्थः । ननु L राजपुरुषः ' इत्यत्रापि यदि लुप्तषष्ठीस्मरणे सत्येवान्वयबोधः स्यात् तदात्र राजपदस्य स्मृतिविषयीभूतषष्ठयन्तत्यप्राप्त्या यथा ' ऋद्धस्य राज्ञो मातङ्गाः' इति प्रयोगो भवति तथा क्तेन ' राजपुरुषः ' इत्यत्रेव तत्र = ' राजमातङ्गाः ' इत्यत्रापि ' स्वत्वसंबन्धेन राजवन्तो मातङ्गाः ' इत्येवं मातङ्गेषु राजान्वयबोधोपपत्तये राजपदोत्तरं लुप्तषष्ट्या अनुसंधाने कृते राजपदस्य षष्ठन्तत्वं प्राप्तमिति ' ऋद्धस्य ' . 'राज्ञः इतिपदयोः समानविभक्तिकत्वापत्त्या 'नीलो घटः इत्यत्रैवात्रापि राजपदार्थे ऋद्धपदार्थस्याऽभेदान्वयः संभवतीति 'ऋद्धस्य राजमातङ्गाः ' इति प्रयोगः स्यादेव तस्मात् समासे लुप्तविभक्तिस्मरणं न युक्तं लुप्तविभक्तेरस्मरणे च ' राजमाताः इत्यत्रापि राजपदस्य षष्ठयन्सत्वाभावेन : समानविभक्तिकत्वाभावाद् ऋद्धपदार्थराजपदार्थयोरभेदान्वयाऽसंभवात् ' ऋद्धस्य राजमातङ्गाः ' इति प्रयोगापत्तिर्नास्ति तथा च ' राजपुरुषः " इत्यत्रापि लुप्तषष्ठीस्मरणं न युक्तमित्याशङ्क्याह- न चेति । संसर्गतावादी परिहारहेतुमाह-- यत इति । तत्र = 'ऋद्धस्य राजमातङ्गाः ' इत्यत्र यदि ऋद्धराजपदार्थयोरभेदान्वयः संभवेत्तदा 'ऋद्धस्य राजमातङ्गाः ' इति प्रयोगः स्यादेवात्र च ऋद्धराजपदार्थयोरमेदान्वयबोधो नैव संभवतीत्यमेदान्वयबोधानुपपत्तिमुद्दिश्याऽभियुक्तानाम् = प्रामाणिक वृद्धानाम् ऋद्धस्य राजमातङ्गाः इतिप्रयोगस्य परिहारो नास्ति येन खदुक्तरीत्या ऋद्धराजपदार्थयोरभेदान्वयापत्त्या लुप्तषष्ठी - स्मरणं न स्यात् । ऋद्धस्य राजमातङ्गाः' इत्यप्रयोगे हेतुमाह- अपि त्विति - " समर्थः पदविधिः ” इत्यत्र समर्थः समर्थेन सह समस्यते इतिनियमेन " सापेक्षमसमर्थवद् भवति " इति नियमेन च
裘
ऋद्धस्य राजमातङ्गाः ' इत्यपि प्रयोगः स्यात् । अत्र हेतुमाह- तत्रेति, त्वन्मतेनो
,
6
८
S
ऋद्धस्थं राजमातङ्गाः ' इत्यत्र राजपदस्य समासाघटक ऋद्धपदसापेक्षतया समर्थ
"Aho Shrutgyanam"