________________
भेदान्वयवादः }
व्युत्पत्तिवादः ।
( १०१ )
एवम् 'राजपुरुषः " इत्यादिसमासवाक्यात् स्वत्वसंसर्गकशाब्दबोधस्वीकारे तादृश शाब्दबोधसामय्याः स्वत्वसंसर्गेण राजविशिष्टपुरुषतात्पर्यज्ञानादिघटिताया भिन्नविषयकप्रत्यक्षादिकं प्रति प्रतिबन्धकत्वाधिक्येन गौरवात् तत्र राजसंबन्धिमकारका भेदान्वयबोध स्वीकार एवोचितः ।
न च भवन्मतेपि तादृशाभेदान्वयबोधसामय्याः प्रतिबन्धकताधिक्येन गौरवमिति वाच्यम्, राजपदस्य राजसंबन्धिनि स्वारतिकलक्षणाग्रहदशायामभेदसंबन्धेन राजसंबन्धिविशिष्टपुरुषे तात्पर्यग्रहस भवन्मतेपि कर्मधारयत्वेनाभिमतात् तथाविधसमासवाक्यात् तादृशशाब्दबोधस्वीकारस्यावश्यकतया तादृशसामग्रीप्रतिबन्धकताया उभयमतसिद्धत्वात् ।
य - 'दधि पश्य' इत्यादी उप्तद्वितीयाविभक्तिस्मरणेन दधिकर्मकदर्शनबोधएवमिति, राजपुरुषः' इतिसमासे ' सत्वसंवन्धेन राजत्रान् पुरुषः इत्येवं स्वत्वसंसर्गकभेदrarararatniरे तादृशशाब्दबोधसामम्या:= ' 7 राजपुरुषः इति राजपदाव्यवहितोतरपुरुषपदसमभिव्याहारसामय्याः " स्वत्व संबन्धेन राजत्रान् पुरुषः ' इत्येवं स्वत्वसंसर्गेण राजविशिष्टो यः पुरुषस्तद्विषयकतात्यर्यज्ञानादिवटिताया विभिन्नविषयकप्रत्यक्षं प्रति प्रतिबन्धकत्वकल्पनापत्त्या गौरवम् । विभिन्न विषयकप्रत्यक्षं प्रति शाब्दसामय्याः प्रतिबन्धकत्वस्योभय वादिसिद्धत्वात् । तस्मादेतद्गौरवपरिहाराय तत्र = ' राजपुरुषः ' इतिसगते राजपदस्य राजसंबन्धिनि लक्षणां स्वीकृत्य ' राजसंबन्ध्यभिन्नः पुरुषः इत्येवं राज संबन्धिप्रकारकाऽभेदान्वय
बोध एवोचित इत्यर्थः ।
ननु विभिन्न विषयकप्र यक्षं प्रति शाब्दसामान्याः प्रतिबन्धकत्वेन भवन्मतेपि = प्रकारतावादेपि तादृशाभेदान्वयबोधसामग्र्या :-' (: राजपुरुषः इत्यत्र • राजसंबन्ध्यभिन्नः पुरुषः इत्येवं राजसंबन्धिप्रकारका भेदान्वयबोधसामग्र्या अभेदसंबन्धेन राजसंबन्धिविशिष्ट पुरुषविषयक तात्पर्यज्ञानादिघटिताया विभिन्नविषयकप्रत्यक्ष प्रति प्रतिबन्धकताकल्पनापत्त्या गौरवमस्त्येवेत्याशङ्कयाहन चेति । परिहारहेतुमाह-- राजपदस्येति, , राजपुरुषः इत्यत्र त्वया मेदान्वये स्वीकृतेपि यदा कस्य चिद् राजपदस्य राजसंबन्धिनि स्वारसिकलक्षाग्रहेणाऽमेदसंबन्धेन राजसंबन्धिविशिष्ट - पुरुषे तात्पर्यग्रहो भवति तदात्र त्वया राजपुरुषः ' इत्यत्र कर्मधारयत्वम् ( राजसंबन्धी चासौ पुरुष इति ) स्वीकृत्य तथाविधसमासवाक्यात् = ' राजपुरुषः इतिसमासवाक्यात् तादृशशाब्दबोधस्य = ' राजसंबन्ध्यभिन्नः पुरुषः ' इत्यऽभेदान्वयबोधस्य स्वीकार्यत्वात् ' राजपुरुषः ' इत्यत्रामेदान्वयबोध सामग्र्या विभिन्नविषयकप्रत्यक्षं प्रति प्रतिबन्धकत्वं यथा मम मते तथा तव मतेपि प्राप्तमेव किं तु तव मते ' राजपुरुषः " इत्यत्र भेदान्वयबोधसामग्र्या अपि विभिन्नविषयकप्रत्यक्षं प्रति प्रतिबन्धकत्वकल्पनं कर्तव्यं तदेवाधिक गौरवमित्यर्थः ।
L
पुनः परिहाराय संसर्गतावादिवचनमनुवदति - यत्त्विति, दधि पश्य ' इत्यत्र प्रकारता -
८
“
"Aho Shrutgyanam"
2
"