________________
संप्रदानत्व निर्वचनम् ]
व्युत्पतिः ।
( ४५५ )
CL
निरूपितत्वम् स्वत्वस्य च स्वस्वत्वध्वंसेच्छारूपे त्याने स्वजनकत्वस्वेच्छाधीनत्वोभयं संबन्धः, तल्लाभश्च विशिष्टस्य धातुशक्यतामते शक्तित एव तदन्तर्भा वेनैव शक्तयुपगमात् । फलव्यापारयोः पृथग् धात्वर्थतामते आकाङ्क्षावलादेव तादृशसंबन्धलाभः | पितृभ्यो दद्यात् इत्यत्र च चात्यर्थान्तर्गस्वत्वे चतुर्थ्या पित्राद्यन्वयी निरूपितत्वरूपो मुरूयो बाधितत्वान्न प्रत्याय्यते. अपि तु निरूपितत्वे नेच्छाविषयत्वरूपो लक्ष्यार्थ एव, ददातिस्तु तत्र मुख्य एव श्राद्धस्यापि ब्राह्मणापेक्षया दानत्वात् । " श्राद्धे ब्राह्मणस्य संप्रदानतानिर्वाहायाऽस्ति चोद्देश्यतापि ब्राह्मणस्य " इत्यादिकमभिधानस्य शूलपाणेरपि संप्रदानत्वशरीरे उद्देश्यत्वांशापरित्यागे निर्भरोऽवगम्यते, कर्मणा यमभिप्रैति ” इति प्रणयतो महर्षेः पाणिनेपेि संमतोयमर्थः ।
" शत्रवे भयं ददाति " इत्यादौ जनयतीति भाक्तोर्थः एव चोत्पादकव्यापाररूपे धात्वर्थे भयरूपं कर्म तद्योगितयोद्देश्यत्वाच्छ्रुत्वादेः संप्रदानत्वम् ।
17
दत्तम् ' इति व्यवहारापत्तिरिति भावः । स्वत्वान्वयि = स्वत्वनिष्ठम् । त्यागो हि स्वस्वत्वध्वंसेच्छारूप एव तादृशत्यागस्य ब्राह्मणस्वत्व जनकत्वमप्यस्ति तादृशस्वत्वेच्छाधीनत्वमप्यस्ति - तादृशस्वत्वोस्पत्तीच्छयैव व्यागस्योत्पत्तेरिति स्वत्वस्य = ब्राह्मणस्वत्वस्य त्यागे स्वजनकत्वस्वेच्छाधीन स्वैतदुभयसंबन्धेनान्वय इति नोक्तस्थले ' चैत्रपल्यै दत्तम् इतिप्रयोगापत्तिः । तल्लाभः = उक्तसंबन्धप्र तीतिः । विशिष्टस्य = खजनकत्वस्वेच्छाधीनत्वैतदुभयसंबन्धेन स्वत्वविशिष्टत्यागस्य । फलब्यापारयोः=श्यागरूपव्यापारे स्वत्वरूपफले च । तादृशसंबन्धकामः स्वजनकत्वस्वेच्छाधीनत्यैतत्संघन्वप्रतीतिः । अस्मिन् पक्षे " पितृभ्यो दद्यात् " इतिवाक्यस्य गतिमाह- पितृम्य इति, दीयमानद्रव्ये पितॄणां स्वत्वं नोत्पद्यते स्वीकाराभावादिति तादृशस्वत्वे पितृनिरूपितत्वं नास्त्येवेति बाधितमेव किं तु निरूपितत्वेनेच्छाविषयत्वमेव पित्रान्वयिस्वत्वे चतुर्थ्या प्रत्याय्यते तच चतुर्थ्या लक्ष्यार्थ एव न मुख्यार्थ इत्यर्थः । श्राद्धस्य ब्राह्मणापेक्षया तु दानत्वं मुख्यमेवेति तत्र - " पितृभ्यो दद्यात् " इत्यत्र ददातिस्तु मुख्यार्थ एवेत्याह- ददातीति । संप्रदानस्वशरीरे उद्देश्यत्व निवेशे शूलपाणेरप्यनुमितिमाह श्राद्धे इत्यादिना । पाणिन्यनुमितिमाहकर्मणेति । अयम् = उद्देश्यत्वनिवेशः । " अभिप्रेति ” इति सूत्रस्थपदेन संप्रदानभूतब्राह्मणादेरुदेश्यत्वं प्राप्तम् - अभिप्रायविषयत्वस्योद्देश्यत्वरूपत्वात् " अभिप्रेति " इत्यनेनाभिप्रायविषयत्वस्य प्राप्तत्वादित्यर्थः : ।
}
प्रयोगान्तरमुदाहरति-- शत्रव इति, ' भयं ददाति इत्यस्य ' भयं जनयति' इत्यर्थः । उत्पादकव्यापाररूपे==जनयतीत्युत्पत्त्यनुकूलव्यापाररूपे धात्वर्थे धात्वर्थस्य भयमेव कर्म ता कर्मभूतभययोगितयोद्देश्यत्वाच्छत्रोः संप्रदानत्वमित्यर्थः ।
"Aho Shrutgyanam"