________________
(४५४)
[चतुर्थीकारके अत्रेदं सोम-उद्देश्यत्वाऽगर्भस्थैव त्यागजन्यस्वत्वभागित्वस्य ददातिसं. प्रदानतालपत्वे चैत्राकोदेशेन यदत्तं बत्र तादृशदानेन “ दम्पत्योर्मध्यगं धनम् " इत्यास्वत्पल्या अपि स्वत्वस्य प्रामाणिकतया संप्रदानत्वेन 'चैत्रपत्न्यै दत्तम्' इति व्यवहारापत्तेः । न च पत्युः स्वत्वमेव पत्नीस्वत्वं जनयति न तु तत्सामीति वाच्यम्, स्वत्ववति स्वत्वान्तरानुत्पत्तेः, तथा च सर्वत्रैवोद्देश्यत्वान्तर्भावः । भवतु च " पितृभ्यो दद्यात " इत्यत्रापि मुख्यमेव संग्रदानत्वं चतुर्थ्यर्थः। ___ अस्तु वा स्वस्वत्वेच्छाधीनतत्कत्वमेव मुख्यं दानक्रियासंप्रदानत्वं पितृस्वत्वाप्रसिद्धया न तेषां संप्रदानत्वम् । चतुर्थ्यर्थों धात्वर्थतावच्छेदकस्वत्वान्वयि कक्रियाव्यक्तेरुक्तकालान्तरीणपुरुषान्तरीणेच्छाजन्यत्वाभावात् स्वजन्यत्वसंबन्धेनान्वयाऽसंभवानोक्तानिष्टस्थले ' वृक्षायोदकमासिञ्चति । इति प्रयोगापत्तिः । एवं शयनक्रियायामपि स्वविषयप्रीतिजनकत्वस्वजन्यत्वेतदुभवसंबन्धेन चतुर्थ्यन्तार्थेच्छाया अन्वयमुपगम्योक्तातिप्र. सगो वारणीयः ।
उद्देश्यत्वनिवेशरहिते स्वत्वनिरूपकत्वरूपे संप्रदानत्वे दोषमुद्घाटयति-अत्रेदमित्यादिना, यद् धनं केवलं चैत्राय दत्तं सत्र यथा चैत्रस्य स्वत्वं तथा चैत्रपल्या अपि स्वत्वस्य जायमानत्वात संप्रदानत्वशरीरे उद्देश्यत्वनिवेशाभावाच यथा ' चैत्राय दत्तम् ' इति व्यवहारो भवति तथा 'वैत्रघरम्यै दत्तम् । इत्यपि व्यवहारः स्यात् " दम्पत्योर्मध्यगं धनम्" इतिप्रमाणेन देवतत्पल्योरुभयोरपि स्वत्वनिरूपफत्वसाम्यादित्यर्थः । ननु चैत्रस्वत्वमेव चैत्रपन्याः स्वत्वमुत्पादयति न तु तत्सामग्री-चैत्रस्वत्योत्पादिका दानादिसामग्रीति दानस्य चैत्रपत्नीस्वत्वानुत्पादकत्वादेव ' चैत्रपत्न्यै दत्तम् । इतिव्यवहारापत्तिरुक्तस्थले नास्तीत्याशङ्कयाह-न चेति । परिहारमाह-स्वत्ववतीति । तथा च " दम्पत्योर्मध्यगं धनम्" इतिप्रमाणेन दानक्रियया दम्पत्योरेकदेव स्वत्वमुत्पद्यते इति स्वीकार्य तथा च. चैत्राय दत्ते चैनपल्या अपि स्वत्वस्य जातपात् चैत्रपल्ये दत्तम् । इति व्यवहारः स्यादेव न चैतदिष्टमिति सर्वत्रैव संप्रदानत्वशरीरे उद्देश्यत्वनिवेशः कर्तव्यस्तथा चोक्तस्थले चैत्रपन्या उद्देश्यत्वाभावात् 'चैत्रपल्यै दत्तम् । इति व्यवहारापत्तिर्नास्त्येवेत्यर्थः । नन्वेवं यदि सर्वत्रैव संप्रदानत्वशरीरे उद्देश्यत्वनिवेशः स्यासदा मुख्यसंप्रदानस्वेप्युद्देश्यत्वनिवेशात् “ पितृभ्यो दद्यात् " इत्यत्र पितॄणामप्युद्देश्यत्वान्मुख्यमेव संप्रदानत्वं स्यादित्याशङ्क्योक्तं स्वीकरोति-भयतु चेति ।
पक्षान्तरमाह-अस्तु वेति । प्रथमस्वपदस्येच्छयान्वयः-स्वकीया या स्वत्वेच्छा परस्वत्वेच्छा सदधीनं यत तत्कत्वम् पूर्वोक्तं स्वत्वनिरूपकत्वं तदेव दानक्रियाया मुख्यं संप्रदानत्वं यथा गोनिष्ठस्वत्वस्य ब्राह्मणो निरूपको भवतु इत्याकारकेच्छाधीनं स्वस्वनिरूपकत्वं चैत्रादेरेवोक्तस्थले मवति न तत्पल्याः -'चैत्रपल्या इदं भवतु' इत्याकारकप्रधानेच्छाया अभावादिति न तत्र चैत्रपरल्यै
"Aho Shrutgyanam"