________________
संप्रदानत्त्रनिर्वचनम् ] व्युत्पत्तिवादः।
(४५३ अथ यत्र : जनान्तरस्य वृक्षादिनिष्ठजलसंयोगादिरिच्छाविषयोऽन्येन च जनेनाऽन्योद्देशेन क्षिप्तजलादेवृक्षादिसंयोगस्तत्रापि — वृक्षायोदकमासिञ्चति जनः' इत्यादिप्रयोगापत्तिः-तत्तद्व्यक्तित्वस्य पदेनानुपस्थानात्. तेन रूपेण विशेष्यभू. तकर्तृव्यक्तीनामिच्छांशे भानासंभवाद् उपस्थितजनत्वावच्छिन्नेच्छाविषयत्वस्य च वृक्षसंयोगादावऽवाधात् । एवं तदीयकालान्तरीणेच्छामादायाप्यतिग्रसङ्गतादेवस्थ्यमिति चेत् ?, न-वृक्षादिनिष्ठत्वेनेच्छैव हि चतुर्थ्यन्तार्थस्तस्याश्च स्वविषयसंयोगादिजनकत्वस्वजन्यत्वोभयसंबन्धेन सेकादिक्रियायामन्यः, उक्तस्थले च यक्रियाव्यक्त्या जलसंयोगादिवृक्षादौ जन्यते तत्र कालान्तरीणपुरुषान्तरीणेच्छायाः स्वविषयसंयोगादिजनकत्वसंबन्धसत्त्वेपि स्वजन्यत्वाभावान्नोभयसंबन्धेनेच्छावैशिष्टयमित्य योग्यतैवेति वदन्ति । बात्=अभिलापाभावादत्रानिर्धारितकर्तृकसंप्रदाने-अनिर्धारितः कर्ता यस्य दानस्य तादृशदाननिरूपितसंप्रदाने चतुर्थी ।:तत्त्वम्-संपदामत्वम् । ___ ननु यदा कस्यचित् जनस्य ' वृक्षस्य जलसंयोगो भवतु । इत्याकारिकेच्छा स्याद् अन्येन च जनेनान्योद्देशेन क्षिप्तजलस्य वृक्षसंयोगो जातस्तत्रापि वृक्षस्य जनत्वावच्छिन्नसमवेतेच्छाविषयसंयोगरूपफलभागितयोद्देश्यत्वात् ' वृक्षायोदकमासिञ्चति । इतिप्रयोग आपघेतेत्याशडकते-अथेति । उपपत्तिमाह-तत्तद्व्यक्तित्वस्येति, जनादिपदेन देवदत्तादितत्तव्यतीनामुपस्थितिरेव न भवतीति तेन-तत्तद्व्यक्तित्वेन रूपेण विशेष्यभूतकर्तृव्यक्तीनाम् सेकादिकर्तृव्यक्तीनामिच्छांशे इच्छासमवायित्वेन भानासंभवात्, उपस्थितं च यज्जनत्वावच्छिन्नेच्छाविषयत्वं तस्य तु वृक्षनिष्ठजलसंयोगे बाधो नास्त्येव जलसंयोगस्य किंचिजनेच्छाविषयत्वादेव, एवं पूर्वकाले ' वृक्षस्य जलसंयोगो भवतु ' इतीच्छा जाता कालान्तरे तेनैव जनेनान्योद्देशेन क्षिप्तजलस्य वृक्षसंयोगे जाते तादृशजलवृक्षसंयोगस्यापि पूर्वकालिकेच्छाविषयत्वसंभवात् 'वृक्षाथोदकमासिञ्चति । इतिप्रयोगः स्यादित्याह-एवमिति । परिहरति-नेति, — वृक्षायोदकम् । इत्यत्र वृक्षोदकसंयोगस्येच्छाविषयत्वाद् वृक्षस्थापीच्छाविषयत्वं प्राप्तं सा चेच्छा विषयतासंबन्धेन वृक्षे वर्तते इति वृक्षनिष्ठत्वेन वृक्षनिष्ठा सेच्छेव — वृक्षाय ' इति चतुर्थ्यन्तपदस्यार्थस्तस्याथेच्छायाः स्वविषयसंयोगादिजनकत्वस्वजन्यत्वैतदुभयसंबन्धेन सेकक्रियायामन्वयः क्रियते स्वम्इच्छा । तथा च यत्र तेनैव जनेन बुद्धिपूर्वकं जलस्य वृक्षसंयोगेच्छयोदकमासिध्यते तत्र स्वमिच्छा तद्विषयो यो वृक्षजलसंयोगस्तजनकत्वमपि सेकक्रियायां भवति स्वमिच्छा तज्जन्यत्वमपि सेकक्रियायां भवति तादृशसेकक्रियाया उक्तेच्छाजन्यत्वादेवेति स्वविषयसंयोगजनकत्वस्वजन्यत्वेतदुभयसंबन्धेनेच्छायाः सेकक्रियायामन्वयस्य संभवात् ' वृक्षायोदकमासिञ्चति । इतिप्रयोगो भवति, उक्तानिष्टस्थले च यत्सेकक्रियाव्यतया जलसंयोगो वृक्षे जायते तत्रतत्सेकक्रियाव्यक्ती उक्तकालान्तरीणेच्छायाः पुरुषान्तरीणेच्छायाश्च स्वविषयसंयोगजनकत्वसंबन्धेनान्वयसंभवेपि तत्से
"Aho Shrutgyanam"