________________
(४५२)
सादर्श:
[ चतुर्थीकारकेमंतिपत्तितो जायते । अनुद्देश्यत्वेपि च संप्रदानत्वमुपपादितमेव । पितृणामिक बाह्मणानामाप च स्वत्वभागित्वेनोद्देश्यत्वमप्यविरुद्धम् ।। · धात्वर्थतानवच्छेदकफलभागितया यत्र संप्रदानत्वम् ' वृक्षायोदकं सिञ्चति'
पत्ये शेते' इत्यादौ तत्रोद्देश्यत्वांशनिवेश आवश्यकः- यत्रान्योद्देशेन क्षिप्तजलस्य दैवाद् वृक्षसंयोगोऽन्योद्देशेन शयनादितश्च पत्यादेः फलसंबन्धस्तत्र तथाप्रयोगविरहात् । अत एव तत्र चतुर्थ्यर्थः स्वनिष्ठतया कत्रभिप्रेततत्फलं प्रति जनकत्वं तच्च सेकादिक्रियायामन्वेति, भाक्तं च तत्र संप्रदानत्वम्- उद्देश्यत्वागर्भसंप्रदानत्वे एव लाघवाच्छक्तेः, इतरत्र लक्षणाया अभ्युपगमात् । 'पितृभ्यो दद्यात्' इत्यादावनिर्धारितकर्तृकसंप्रदाने चतुर्थी तत्त्वं च तत्र त्यागजन्यस्वत्वभागितयोदश्यत्वमेवः। शक्याह- अनुद्देश्यत्वेपीति, उपपादितमिति- :स्वत्वनिरूपकत्वमेव संप्रदानत्वं न तु स्वत्वमागित्वेनोद्देश्यत्वम् अस्ति च श्राद्धद्रव्यनिष्ठस्वत्वस्य निरूपकत्वं ब्राह्मणानां स्वीकर्तृत्वादिति युक्तं संप्रदानत्वम् । पक्षान्तरेण श्राद्धे ब्राह्मणानामपि स्वत्वभागित्वेनोद्देश्यत्वमाह- पितृणामिति, तथा च ब्राह्मणानामपि स्वत्वभागित्वेनोद्देश्यत्वात् संप्रदानत्वं प्राप्तमेवेत्यर्थः ।
मुख्यं संप्रदानत्वमुक्त्वा माक्तमाह- धात्वर्थतेति, ' वृक्षायोदकमासिञ्चति । इत्यत्र द्रवद्रव्यक्रियानुकूलव्यापार एव धात्वर्थ इति वृक्षवृत्तिजलसंयोगो न धात्वर्थतावच्छेदक इति ताहशधात्वर्थतानवच्छेदकीभूतसंयोगरूपफलभागितया संप्रदामत्वमिष्टमस्तीति तत्रोद्देश्यत्वनिवेश आवश्यक एव तथा च धात्वर्थतानवच्छेदकफलमागितयोद्देश्यत्वं संप्रदानत्वमित्येव वक्तव्यम्. अस्ति चात्र तादृशजलसंयोगरूपफलगितयोद्देश्यत्वं संप्रदानभूतवृक्षस्य 'पत्ये शेते ' इत्यत्र च तादृशप्रीतिरूपफलमागितयोद्देश्यत्वं संप्रदानभूतपत्युः । उद्देश्यत्वांशनिवेशस्यावश्यकत्वे हेतुमाह- यत्रेति । तथाप्रयोगविरहात्='वृक्षायोदकमासिञ्चति ' 'पत्ये शेते । इत्यादि प्रयोगाभावात् । यद्यत्रोद्देश्यत्वनिवेशो न स्यात्तदाऽन्योद्देशेनापि क्षिप्तजलस्य दैवाद् वृक्षसंयोगे जाते , वृक्षायोदकमासिञ्चति' इति प्रयोगः स्यादेव न चैतदिष्टम् , उद्देश्यत्वनिवेशे कृते तु तत्र वृक्षस्य जलसंयोगभागितयोद्देश्यत्वाभावान्न तथाप्रयोगापत्तिरित्यर्थः । अत एवेति- उद्देश्यत्वांशनिवेशादेव यत्र वृक्षोद्देशेन जलः क्षिप्यते तत्र ' वृक्षायोदकमासिञ्चति' इति प्रयोगो भवति तत्र स्वनिष्ठतया चतुर्थ्यन्तार्थभूतवृक्षनिष्ठं यत् कर्मभिप्रेतम् सेकक्रियाकभिप्रेतं जलसंयोगरूपं फलं तज्जनकत्वमेव चतुर्थ्यर्थः, तच्च जनकत्वं सैकक्रियायामस्ति, अत्र च वृक्षकर्तृकस्वीकाराभावाद् भाक्तमेव संप्रदानत्वमित्याह- भाक्तमिति । एतत्संप्रदानत्वस्य भाक्तत्वे हेतुमाहउद्देश्यत्वेति, उद्देश्यत्वागर्भसंप्रदानत्वं हि स्वस्वनिरूपकत्वरूपं पूर्वमेवोक्तम् । इतरत्र' वृक्षायो. दकम् ' इत्यादिस्थले वृक्षादिनिष्ठे उद्देश्यत्वगर्भसंप्रदानत्वे लक्षणायाः चतुर्यो लक्षणायाः । "पितृभ्यो दद्यात् " इत्यादि चनस्य सामान्यतः प्रवृत्तत्वेन दानव-तुर्विशेषतो निर्धारणाभा
"Aho Shrutgyanam"