________________
संप्रदानत्वनिर्वचनम् ]
व्युत्पत्तिवादः ।
( ४५१
८८
57
तदेव मुख्यं तथा च तत्र निरूपितत्वमात्रं चतुर्थ्यर्थो धात्वर्थतावच्छेदकस्वत्वेइन्देति, अत एव श्राद्धस्य पित्रपेक्षया यागत्वमेव दानत्वं तु ब्राह्मणापेक्षया " इति शूलपाणिः । तत्र त्यज्यमानेऽन्ने पितॄणां स्वत्वामुत्पत्या संप्रदानत्वासंभवात् । स्वत्वभागित्वेनोद्देश्यत्वं यदि संप्रदानत्वं स्यात्तदा पितॄणामपि तथात्वाक्षतेः पित्रापेक्षयापि दानत्वं स्यात्, न हि श्राद्धे पितॄणां स्वत्वभागित्वेन नोहेइयत्वम् - " पितरेतत्तेऽन्नं स्वधा इत्यादिश्राद्धरूपत्यागाभिलापस्वधार्थे त्यागे चतुर्थ्याः स्वत्वभागित्वेन पित्रादेरुद्देश्यत्वबोधकत्वात् । स्वत्वभागित्वेनोद्देश्यभूतस्यापि पित्रादेः स्वीकाराभावान्न स्वत्वम्, ब्राह्मणानां तत्रानुद्देश्यत्वेपि स्वत्वं पूर्वकपरस्वत्वानुकूलस्त्यागो दाधात्वर्थस्तत्र धात्वर्थतावच्छेदकं यत् परस्वत्वं तन्निरूपकत्वं ब्राह्मस्तीति तदेव स्वत्वनिरूपकत्वं मुख्यं संप्रदानत्वम् उक्तधात्वर्थतावच्छेदकस्वत्वे यद् ब्राह्मणनिरूपितत्वमस्ति तदेव चतुर्थ्यर्थस्तस्य च स्वत्वे आश्रयतासंबन्धेनान्त्रय इत्यन्वयः । उक्ते प्रमामाह - श्राद्धस्येति, अत एव = यत एव धात्वर्थतावच्छेदकस्वत्वनिरूपकत्वमेव संप्रदानत्वमत एव श्राद्धस्य पित्रपेक्षया यागत्वमेव न तु दानत्वं पितॄणां स्वत्वनिरूपकत्वाभावात् : श्राद्धस्य दानत्वं तु ब्राह्मणापेक्षयैव ब्राह्मणस्यैव स्वत्वनिरूपकत्वेन तत्र संप्रदानत्वात् । उक्ते हेतुमाह-तत्रेति, तत्र=श्राद्धे न्यज्यमानेऽन्ने पितॄणां स्वत्वं नोत्पद्यते तत्स्वीकाराभावादिति न पितॄणां संप्रदानत्वं संप्रदानत्वाभावाच न पित्रपेक्षया श्राद्धस्य दानत्वभित्यर्थः । विपक्षे बाधकमाहस्वत्वमागत्वेनेति, यदि स्वत्वभागित्वेनोद्देश्यत्वं संप्रदानत्वं स्यात्तदा पितॄणामपि तथात्वाऽक्षतेः श्राद्धे स्वत्वमागित्वेनोद्देश्यत्वस्य सत्त्वेन संप्रदानत्वप्राप्तत्या पित्रपेक्षयापि श्राद्धस्य दानत्वं स्यादेव, श्राद्धे पितॄणां स्वत्वभागित्वेनोद्देश्यत्वं व्यतिरेकमुखेनाह- न हीति । श्राद्धे पितॄणां स्वत्वभागित्वेनोद्देश्यत्वे प्रमाणमाह- पितरेतदिति, श्राद्धमपि त्याग एव स्वधाशब्दार्थोपि एवेति श्राद्धरूपत्यागस्याभिलापरूपो यः स्वधेतिशब्दस्तदर्थभूते त्यागे ते इतिचतुर्थी पितॄणां स्वत्वमागत्वेनोद्देश्यत्वं बोधयतीति श्राद्धे पितृणामपि स्वत्वमागित्वेनोद्देश्यत्वस्य सत्त्वात् संप्रदानत्वं स्यात् संप्रदानत्वाच्च पित्रपेक्षवापि श्राद्धस्य दानत्वं स्यात् न च पित्रपेक्षया श्राद्धस्य दानत्वमिष्टमिति न स्वत्वमागित्वेनोद्देश्यत्वं संप्रदानत्वं किं तु स्वत्वनिरूपकत्वमेव संप्रदानत्वमित्यर्थः । ननु श्राद्धे पितॄणां स्वत्वनिरूपकत्वमेव कथं नेत्याशङ्क्याह-- स्वत्वभागित्वेनेति यः खलु स्वीकरोति तस्यैव स्वत्वमुत्पद्यत इति तस्यैव स्वत्वनिरूपकत्वं भवति न खलु पितरः श्राद्धानं स्वीकुर्वन्तीति न पितॄणां स्वत्वं न च स्वत्वनिरूपकत्वं स्वत्वनिरूपकत्वाभावाच न संप्रदानत्वम् । ब्राह्मणानां च तत्र श्राद्धे उद्देश्यत्वाभावेपि पित्रुदेश्वत्वेन त्यक्तं द्रव्यं ब्राह्मणाय दीयते इति तादृशप्रतिपत्तिभूतदानात् स्वत्वं जायते स्वत्वोत्पत्त्या स्वत्वनिरूपकत्वं स्वत्वनिरूपकत्वाच्च संप्रदानत्वं तथा च ब्राह्मणापेक्षया श्राद्धस्य दानत्वम् । अप्रधानं कर्म प्रतिपत्तिरित्युच्यते इतिमीमांसाशास्त्रे द्रष्टव्यम् । ननु ब्राह्मणानामनुद्देश्यत्वे कथं संप्रदानत्वं स्यादित्या
त्याग
7
"Aho Shrutgyanam"