________________
(४५०)
सादरी:
[ चतुर्थीकारककूलव्यापारो धात्वर्थ, संप्रदानतानिर्वाहकसंयोगश्च न ताशधात्वर्थतावच्छेदक इति तदाश्रयत्वं निरुक्ताश्रयताभिन्नमेवेति तत्प्रकारकाभिप्रायविषयवृक्षादे: संप्रदानतानिर्वाहात् ।
न च 'पत्ये शेते' इत्यादौ धात्वर्थतावच्छेदकफला प्रसिद्ध्या तदनुपपत्तिः- भेदप्रतियोगिप्रविष्टे धात्वर्थतावच्छेदके फलत्वानिवेशेन प्रसिद्धिसंभवात् । एवं च ब्राह्मणाय मां ददाति ' इत्यादी ब्राह्मणनिरूपितत्त्वेनेच्छाविषयगोनिष्ठस्वत्वजनकत्यागकर्तेति बोधः । निरूपितत्वेन कर्तुरिच्छाविषयत्वं द्वितीयान्तार्थगोवृत्तित्वान्वयिधात्वर्थतापच्छेदकस्वत्वान्वाये चतुर्थ्यर्थः, स्वत्वजनकत्यागश्च ददात्यः ।
अत्र केचित्- ददातियोगे धास्वर्थतावच्छेदकस्वत्वनिरूपकत्वमेव संप्रदानत्वं श्रयत्वम् उक्तजलसंयोगाश्रयत्वं निरुक्ताश्रयतामिन्नम् धात्वर्थतावच्छेदकफलाश्रयत्वभिन्नमेवेति तप्रकारकाभिप्रायविषयस्य-धात्वर्थतानवच्छेदकीभूतजलसंयोगाश्रयत्वेनाभिप्रायविषयस्य वृक्षादेः संप्रदानत्वं युक्तमेव एवम्, ' पत्ये शेते ' इत्यत्र पतिवृत्तिः प्रीतिर्न धात्वर्थतावच्छेदकफलमिति तादृशधात्वर्थतानवच्छेदकीभूतप्रीतिरूपफलाश्रयत्वात् पत्युः संप्रदानत्वमित्यर्थः । “ धात्वर्थतावच्छेदकफलाश्रयत्वभिन्नफलसंबन्धस्य " इत्यत्र 'धात्वर्थतावच्छेदकफलभिन्नफलस्य ' इत्येवं पाठो युक्तः, भेदस्य फलेनान्वयाभिप्रायात् ।
‘ननूक्तप्रतिपादनेन 'धात्वर्थतावच्छेदकफलाश्रयत्वमिन्नफलसंबन्धितयेष्टत्वं संप्रदानत्वम् । इति प्राप्तं तत्र ‘पत्ये शते ' इत्यत्र धातोरकर्मकत्वेन धात्वर्थतावच्छेदकफलाऽप्रसिद्धया धात्वर्थतावच्छेदकफलाश्रयत्वभिन्नफलस्याप्यऽप्रसिद्धस्तदनुपपत्तिः पत्युः संप्रदानत्वानुपपत्तिरित्याशङ्कयाहन चेति । उत्तरमाह- भेदेति,धात्वर्थतावच्छेदकफलाश्रयत्वभिन्नफलसंबन्धितयेष्टत्वं संप्रदानत्वमिति नोच्यते येनोक्तदोषापत्तिः स्यात् किं तु धात्वर्थतावच्छेदकभिन्नफलाश्रयतयेष्टत्वं संप्रदानत्वमित्येवोच्यते तथा चाऽत्र धात्वर्थतावच्छेदकं यच्छयनत्वादिकं तद्भिन्नं यत् प्रीतिरूपमुक्तं फलं तदाश्रयत्वात् पत्युः संप्रधानत्वं युक्तमेवेत्यर्थः । ब्राह्मणाय गाम् ' इति वाक्याज्जायमानबोधस्वरूपमाह-- एवं चति । ब्राह्मणनिरूपितमिच्छाविषयीभूतं गोनिष्ठं यत्स्वत्वं तादृशस्वत्वजनकत्यागकर्तेत्यर्थः । चतुर्थ्यर्थमाह- निरूपितत्वेनेति, गामिति द्वितीयान्तार्थभूतं यद् गोवृत्तित्वं तदन्वयिगोवृत्तित्वान्वयि ( तादृशगोवृत्ति ) यद् धात्वर्थतावच्छेदकीभूतं स्वत्वं तादृशस्वत्वान्वयि यत् कर्तुरिच्छाविषयत्वम्-दानकर्तुः स्वत्वविषयकेच्छाविषयत्वं तदेव चतुर्थ्यर्थः, निरूपितत्वेनेत्यस्य ब्राह्म गनिरूपितमित्यर्थः । धात्वर्थमाह- स्वत्वजनकेति । तथा चात्र ब्राह्मणस्य धात्वर्थतानबच्छेदकीभूतोक्तेच्छाश्रयत्वात्संप्रदानत्वम् , गोश्च धात्वर्थतावच्छेदकीभूतस्वत्वाश्रयतया कर्मत्वमिति बोध्यम् ।
मसान्तरमनुवदति- अत्रेति, ददातियोगे= ब्राह्मणाय गां ददाति । इत्यादी स्वस्वत्वबंस
"Aho Shrutgyanam