________________
संप्रदानवनिर्वचनम् ] ध्युत्पत्तिकादः।
(४४१) मैवम्- फलाश्रयतयेष्टत्वमेव हि कर्मत्वम्. फलसंबन्धितयेष्टत्वं संप्रदानत्वम्, ब्राह्मणादिश्च न त्यागजन्यस्वत्वाश्रयतया दातुरिष्टा, अपि तु तन्निरूपकतयैवाऽतो न तस्य कर्मता ।
न चाश्रयत्वमपि संबन्धविशेष इति गवादपि संप्रदानत्वं दुर्वारम्, आश्रयत्वेनाभिप्रायस्थले कर्मसंज्ञया बाधादन्य एव हि संबन्धः संप्रदानताघटक इति यद्युच्येत ? तदा 'वृक्षायोदकमासिञ्चति ' 'पत्मे शेते' इत्यादौ सेकजन्यजलसंयोग-शयनजन्यमीत्याद्याश्रयतयाभिप्रेतस्य वृक्षपत्यादेः संप्रदानत्वानुपपत्तिरिति वाच्यम्, धात्वर्थतावच्छेदकफलाश्रयत्वभिन्नफलसंबन्धस्य संप्रदानत्वशरीरे निवेशेन सामञ्जस्यात् । 'वृक्षायोदकमासिश्चति ' इत्यादौ द्रवद्रव्यक्रियानु
अथेत्यादिना शङ्कितं परिहरति- मैवमिति । कर्मत्वसंप्रदानत्वयोर्विशेषमाह- फलेति । यथा- 'प्रामं गच्छति । इत्यत्र क्रियाजन्यसंयोगरूपफलाश्रयतया ग्रामस्य कर्मत्वम्, 'ब्राह्मणाय गां ददाति ' इत्यत्र च ब्राह्मणस्य त्यागरूपक्रियाजन्यं यद् गोनिष्ठं स्वत्वरूपं फलं तत्संबन्धितया तादृशस्वत्वनिरूपकतयेष्टत्वमस्तीति संप्रदानत्वं प्राप्तमित्यर्थः । उपपादयति- ब्राह्मणादिश्चेति । तन्निरूपकतया त्यागजन्यस्वरवनिरूपकतया ब्राह्मणो दातुरिष्टः। तस्य ब्राह्मणस्य ।
ननु यदि " फलसंबन्धितयेष्टत्वं संप्रदानत्वम् " सदाऽऽश्रयत्वमपि संबन्धविशेष एवेत्यत्र फलाश्रयतयेष्टाया दानकर्मभूताया गोरपि फलसंबन्धितयेष्टत्वप्राप्त्या संप्रदानत्वं प्राप्तमित्याश
ङ्कते-न चेति । नन्वाश्रयत्वस्य संबन्धविशेषरूपत्वेपि फलाश्रयत्वेनाभिप्रायस्थले संप्रदानसंज्ञापेक्षया परभूतया कर्मसंज्ञया संप्रदानसंज्ञाया बाधाद् गवादेः फलाश्रयत्वेनाभिप्रायविषयत्वात् कर्मसंज्ञव भवतीति न संप्रदानत्वापत्तिस्तथा च ब्राह्मणादीनां संप्रदानसंज्ञासिद्धयर्थं संप्रदानत्वशरीरघटकः संबन्ध आश्रयत्वसंबन्धापेक्षया मिन्न एवेत्युच्यते इत्याशङ्कते- आश्रयत्वेनेति । उक्त दोषमुद्घाटयति- तदेति, यदि संप्रदानत्वशरीरघटकः संबन्ध माश्रयत्वसंबन्धापेक्षया भिन्न एव तदा फलाश्रयतयाभिप्रेतस्य संप्रदानत्वं न स्यादिति ' वृक्षायोदकमासिञ्चतिः' इत्यत्र सेकक्रियाजन्यजलसंयोगरूपफलाश्रयतयाभिप्रेतस्य वृक्षस्य संप्रदानत्वं न स्यात् ' पत्ये शेते ' इत्यत्र च शयनजन्यप्रीत्याश्रयतयाभिप्रेतस्य पत्युः संप्रदानत्वं न स्यात्, न चैतदिष्टमिति न संप्रदानत्वशरीरघटकः संबन्धः भाश्रयत्वसंबन्धभिन्न एवेति युक्तं तथा चाश्रयत्वस्यापि संबन्धंविशेषरूपलात् फलाश्रयतयाभिप्रेताया गोरपि संप्रदानत्वं प्राप्तमेवेत्यर्थः। परिहारमाह- धात्वर्थतेति, धात्वर्थतावच्छेदकीभूतं यत् फलं तादृशफलाश्रयत्वापेक्षया भिन्नो यः फलसंबन्धस्तस्यैव संप्रदानत्वशरीरे निवेशोस्ति तथा च धात्वर्थतावच्छेदकीभूतत्यागजन्यस्वत्वरूपफलाश्रयतया गो: कर्मत्वमेव न तु संप्रदानत्वमित्यर्थः । ' वृक्षायोदकमासिञ्चति । इत्यादौ वृक्षादेः संप्रदानत्वमुपपादयति- वृक्षायेति, अत्र द्रवद्रव्यसमवेतक्षरणरूपक्रियानुकूलव्यापारो धात्वर्थोस्ति संप्रदानतानिर्वाहको यः खलु वृक्षसमवेतो जलसंयोगः स च नोक्तधात्वर्थतावच्छेदक इति तदा
"Aho Shrutgyanam"