________________
(४४८)
सादर्श:
[ चतुर्थीकारकेच्छया यो व्यापारस्ततो विषादेराप गलाधस्तंयोगस्तत्र विषादौ क्रियाजन्यफलशालिवाभावबाधेपि तेन रूपेणेच्छाविषयत्वाभावोऽवाधितस्तत्र 'विषमनेन न भुज्यते' इतिप्रयोगोपपत्तिः । इच्छायघटितकर्मत्वतात्पर्येण च 'देवाद्विषं भुज्यते ' इतिप्रयोगस्य चोपपत्तिः ।
न च धात्वर्थतावच्छेदकफलशालित्वेनोद्देश्यत्वं कर्मत्वं तदनवच्छेदकफल-. शालित्वेनोद्देश्यत्वं संप्रदानत्वमिति विशेषः, स्वस्वत्वध्वंसावच्छिन्नत्याग एव ददात्यर्थो न तु परस्वत्वरूपफलावच्छिन्नोपीति वाच्यम्, उपेक्षाया अपि ददातेर्मुख्यार्थतापत्तेः। च “ इच्छाघटितस्य " इत्येतत्पाठात्पूर्वमुक्तदिशेच्छाघटितसूत्रसार्थक्योपपादकग्रन्थोऽक्ष्यते मन्ये स लेखकप्रमादादेव भ्रष्ट इति । "इच्छाघटितस्य " इत्यस्य ‘इच्छया अघटितस्य । इतिव्यात्ययाप्युक्तस्येच्छाघटितसूत्रयर्यस्य परिहारो यद्यपि संमवति तथापि नायं पक्षः स्वरसः प्रतिभाति । सूत्रद्वयसार्थक्यमाह-अत एवेति, व्यापारः भोजनव्यापारः । यदौटनेन सहाऽज्ञातं. विषं भुज्यते तदा विषे भोजनरूपक्रियाजन्यस्य गलाघःसंयोगरूपफलस्य सत्त्वेन तादृशक्रियाजन्यतादृशफलशालित्वाभावस्याऽसत्त्वेपि तेन रूपेण-उक्तक्रियाजन्यफलशालिवरूपेणेच्छाविषयत्वस्याभावोस्त्येवेति तत्र विषे इच्छाघटितकर्मत्वस्य प्रतिषेधार्थम् ' विषमनेन न भुज्यते' इति प्रयोग उपपद्यते, इच्छाघटितकर्मत्वप्रतिपादकसूत्राभावे उक्तस्थले इच्छानिवेशरहितकर्मत्वस्य विषेपि सत्त्वेन कर्मत्वापत्त्या 'विषमनेन न भुज्यते' इति प्रयोगो नोपपद्यतेति इच्छाघटितकर्मत्वनतिपादकस्य "फर्तरीप्सिततमं कर्म " इतिसूत्रस्यावश्यकता, 'देवाद्विषं मुज्यते' इत्यत्रेच्छाविषयत्वहीनस्यापि विषस्य कर्मत्वोपपत्त्यर्थमिच्छाद्यऽघटितकर्मत्वप्रतिपादकस्य " तथायुक्तं च" इति सूत्रस्यावश्यकतेति सूत्रद्वयमेव सार्थकम् ।
प्रकारान्तरेण कर्मत्वसंप्रदानत्वयोर्भेदं पूर्वरक्ष्युपपादयति- न चेति, 'ग्रामं गच्छति । इत्यत्र संयोगानुकूलव्यापारो धात्वर्थ इति धात्वर्थतावच्छेदकीभूतसंयोगरूपफलशालित्वेनोद्देश्यत्वम् इच्छाविषयत्वं ग्रामस्यास्तीति ग्रामस्य कर्मत्वं प्राप्तम्, ‘ब्राह्मणाय गां ददाति । इत्यत्र स्वस्वस्वध्वंसानुकूलत्याग एव धात्वर्थो न तु स्वस्वत्वध्वंसपूर्वकपरस्वत्वानुकूलत्यागो येन धात्वर्थतावच्छेदकीभूतपरस्वत्वरूपफलशालित्वेनोद्देश्यस्य ब्राह्मणस्य कर्मत्वं स्यात् तथा च दाधात्वर्थताऽनवच्छेदकीभूतं यत् परस्वत्वरूपं फलं तादृशफलशालित्वेनोद्देश्यत्वाद् ब्राह्मणस्य संप्रदानवं प्राप्तम्- स्वत्वस्य निरूपकत्वसबन्धेन ब्राह्मणेपि सत्तादित्यर्थः । ब्राह्मणस्योक्ततप्रदानत्व. प्रतिपादनार्थ परस्वत्वस्य दाधात्वर्थतानवच्छेदकत्वमाह- न विति । परिहारमाह- उपेक्षाया इति, स्वस्वत्वध्वंसावच्छिन्नत्यागमात्रस्य ददात्यर्थत्वे उपेक्षाया अपि स्वस्वत्वध्वंसानुकूलत्यागरूप. त्वेन मुख्यं ददात्यर्थत्वं स्यात्. न चैतदिष्टमिति न स्वस्वत्वध्वंसानुकूलत्यागमानं ददात्यर्थः किं तु स्वस्वत्वध्वंसपूर्वकपरस्वत्वानुकूलत्यागो ददात्यर्थस्तथा च संप्रदानस्यापि धात्वर्थतावच्छेदकी-- भूतपरस्वत्यरूपफलशालित्वं प्राप्तमिति कर्मत्वसंप्रदानत्वयोर्विशेषाभावस्तदवस्थ एवेत्यर्थः ।
"Aho Shrutgyanam"