________________
• संप्रदानत्वनिर्वचनम् ]
sयुत्पत्तिवादः ।
( ४४७ )
इत्यनेन क्रियाजन्यफलभागितयाऽनभिप्रेतस्यापि क्रियाजन्यफलाश्रयस्य कर्मसंज्ञाविधानात् कर्मत्वं क्रियाजन्यफलशालित्वमेव न त्विच्छागर्भम्- संप्रदानत्वं विच्छागर्भमतो भेद इति वाच्यम्, कर्मत्वस्येच्छयाऽघटितत्वे सूत्रभेदवैयर्थ्यांपत्तेः।
न च फलाश्रयत्वेनानभिप्रेतस्यापि कर्मत्वे तत्साधारणक्रियाजन्यफलाश्रयतमेष्टस्थापि ग्रामादेः कर्मत्वोपपत्ताविच्छाघटिततत्सूत्रवैयर्थ्य दुर्वारमेवेति वाच्यम्, इच्छाघटितस्य निरुक्तरूपस्य यत्र बांधस्तत्र कर्मप्रत्ययेन तादृशमपि रूपं बोध्यते इत्येत्प्रतिपादनाय सूत्रद्वयप्रणयनात् । अत एव यत्रौदनस्य गलाघः संयोगेप्राप्तमित्यर्थः । ननु ' ग्रामं गच्छंस्तृणं स्पृशति' इत्यादौ तृणादीनामिच्छाविषयत्वाभावेपि कर्मत्वस्येष्टत्वात् कर्मत्वशरीरे इच्छानिवेशो नास्ति संप्रदानत्वशरीरे चेच्छानिवेशोस्तीति क्रियाजन्यफलशालित्वमात्रं कर्मत्वं क्रियाजन्यफलभागितयेच्छा विषयत्वं च संप्रदानत्वमित्येवमस्ति कर्मत्वसंप्रदानत्वयोर्विशेष इत्याशङ्क्याह--न चेति । परिहारमाह- कर्मत्वस्येति । यदि कर्मत्वशरीरे इच्छानिवेशो न स्यात्तदा कर्मसंज्ञाविधायकयोः " कर्तुरीप्सिततमं कर्म " तथायुक्तं इति सूत्रयोर्मध्ये एकस्य सूत्रस्य वैयथ्यं स्यात् - एकेनैव सूत्रेण ग्रामस्य तृणस्य च कर्मसंज्ञाप्राप्तिसंभवात्, न च सूत्रवैयर्थ्य युक्तम् ? तस्मात् कर्मत्वशरीरेपीच्छानिवेशोस्त्येव तथा च कर्तुरीप्सिततमं कर्म " इति सूत्रेण क्रियाजन्य फलाश्रयतयेच्छाविषयस्य ग्रामादेः कर्मसंज्ञा विधीयते, तथायुक्तं च " इत्यनेन चेच्छाया अविषयस्यापि क्रियाजन्यसंयोगादिरूपफला श्रयमात्रस्य तृणादेः कर्मसंज्ञा विधीयते इति विवेकः । तथा चोक्तरीत्या कर्मत्वसंप्रदानस्वयोस्तुव्यतापत्तिस्तदवस्थैवेत्यर्थः ।
62
च "
LL
GA
ननु यदि फलाश्रयत्वेनाऽनभिप्रेतस्यापि = क्रियाजन्यफलभागितयेच्छाया अविषयस्यापि तृणादेः कर्मत्वमिष्टमस्ति तदा तत्साधारणम् - तृणादिसाधारणं यत् क्रियाजन्यफलाश्रयत्वं तेन रूपेणेष्टस्य ग्रामादेरपि " तथायुक्तं च " इतिसूत्रेणैव कर्मत्वोपपत्तिः संभवतीति इच्छाघटितसूत्रस्य = " कर्तुरीप्सिततमं कर्म " इति सूत्रस्य वैयर्थ्य दुर्वारमेवेत्याशङ्क्याह-न चेति । परिहारमाह- इच्छाघटितस्येति, अयमर्थ:- " कर्तुरीप्सिततमं कर्म " इत्येतदिच्छाघटित सूत्राभावे तथायुक्तं चानीप्सितम् " इत्यनेन सूत्रेणानीप्सितस्य = क्रियाजन्यफलाश्रयतया इच्छाया अविषयस्यैव तृणादेः कर्मसंज्ञा स्यान्न त्विच्छाविषयस्य ग्रामादेरपीति ग्रामादेः कर्मसंज्ञाप्राप्त्यर्थम् कर्तुरीप्सिततमम् " इतीच्छाघटितसूत्रस्यावश्यकता । न चैवम् तथायुक्तं च" - इतिसूत्र वैयर्थ्यम्-" कर्तुरीप्सिततमम् " इत्यनेनैव सर्वत्र कर्मसंज्ञासंभवादिति वाच्यम्, इच्छाघटितस्य निरुक्तरूपस्य = क्रिया जन्यफलाश्रयतयेच्छाविषयत्वस्य यत्र = गुणादौ बाधस्तत्र तृणादौ कर्मप्रत्ययेन द्वितीयया तादृशमपि रूपम् = इच्छाविषयत्वरहितमपि कर्मस्वरूपं बोध्यते इत्येतत्प्रतिपादनाय = इच्छाविषयस्य ग्रामादेरिच्छाया अविषयस्य तृणादेश्व कर्मत्वप्रतिपादनाय कर्मसंज्ञाविधानाय वोक्तसूत्रद्वयं प्रणीतमस्ति - एकेन सूत्रेणोमयत्र कर्मसंज्ञायाः प्राप्तेरसंभवादिति । अत्र
RS
6
"Aho Shrutgyanam"
C