________________
अथ चतुर्थी
4
ब्राह्मणाय गां ददाति ' इत्यादौ संप्रदानचतुर्थ्या : ब्राह्मणादिसंप्रदानकत्वं दानादौ बोध्यते । संप्रदानत्वं च मुख्यभाक्तसाधारणं क्रियाकर्म संबन्धितया कर्त्रभिप्रेतत्वम् । क्रियाकर्मत्वं क्रियाजन्यफलशालित्वम् । तद्वता संबन्धश्व तन्निष्ठफलभागित्वमेव, तथा च क्रियाजन्यफलभा गितया: कर्तुरिच्छाविषयत्वं पर्यवसन्नम् । " कर्मणा यमभिप्रैति " इतिसूत्रस्याप्ययमेवार्थ:- " कर्मणा यमभिप्रैति ” इत्यस्य कर्मणा यमभिसंबद्धुमिच्छति' इति शाब्दि कैर्विवरगात् । उक्तस्थले त्यागरूपक्रियाजन्यगोनिष्ठस्वत्वभागिवया दातुरिच्छाविषयो ब्राह्मण इति तस्य संप्रदानत्वम् ।
"
अथ निरुक्तस्य संप्रदानत्वस्यः कर्मत्वाऽविशेषः - " कर्तुरीप्सित " इतिसूत्रेण कर्तुः क्रियया व्याप्तुमिष्टस्य कर्मसंज्ञाविधानात् क्रियया व्याप्तुमिष्टत्वमपि हि कियाजन्यफलभागितयेच्छाविषयत्वमेव । न च तथायुक्तं चानीप्सितम् "
26
क्रमप्राप्तं चतुर्थ्यर्थनिरूपणमारभते - ब्राह्मणायेति । यतः संप्रदानचतुर्थ्या दानादौ ब्राह्मणादिसंप्रदानकत्वं बोध्यतेऽतः संप्रदानचतुर्थ्याः संप्रदानत्वमर्थस्तदुक्तम् - " चतुर्थी संप्रदाने १ इति । संप्रदानत्वस्वरूपमाह - संप्रदानत्वमिति, क्रियाकर्मसंवन्धितया कर्त्रभिप्रेतत्वमेव संप्रदानत्वं यथा ब्राह्मणाय गां ददाति ' इत्यत्र दानक्रियाकर्मभूता या गौस्तत्संबन्धितपा=तत्स्वा मित्वेन दानकर्त्रभिप्रायविषयत्वं ब्राह्मणेस्तीति ब्राह्मणस्य संप्रदानस्वं प्राप्तम् इदमेव च मुद्दासंप्रदानत्वं भाक्तं संप्रदानत्वमत्रे वक्ष्यति । कर्मत्वस्वरूप माह-क्रियाकर्मत्वमिति । तद्वता कर्मत्वयं चता । तन्निष्ठफळभागित्वम् = कर्मत्ववनिष्ठफलभागित्वम् । यथोक्तस्थले दानक्रियाकर्मत्ववती या गौस्तन्निष्टं फलभूतं यत्स्वत्वं तादृशस्वत्वभागित्वमेव गवा ब्राह्मणस्य संबन्धः । पर्यवसितार्थमाहतथा चेति । संप्रदानत्वमिति शेषः । दानक्रियाजन्यं यद् गोनिष्ठं स्वत्वरूपं फलं तद्भागितय दानकर्तुरिच्छाविषयत्वं ब्राह्मणेस्त्येवेत्यर्थः । उक्तसंप्रदानत्वस्वरूपे सूत्र प्रमाणयति-- कर्मणेति । " कर्मणा यमभिप्रेति " इति सूत्रस्याप्ययमेवार्थ इत्यत्र हेतुत्वेनोक्तसूत्र व्याख्यामनुवदतिकर्मणेति । गवादिरूपकर्मणा यं ब्राह्मणादिकमभिसंबद्धुमिच्छति स संप्रदानभूतो विज्ञेय इत्यर्थः । लक्षणसमन्वयमाह-उक्तस्थल इति । उक्तस्थले = ' ब्राह्मणाय गां ददाति ' इत्यत्र । तस्य=ब्राह्मणस्य ।
6
66
उक्तप्रतिपादनेन कर्मत्वसंप्रदानत्वयोर्विशेषो न प्राप्त इत्यभिप्रायेणाशङ्कते - अथेति । उक्त. संप्रदानत्वस्य कर्मत्वाविशेषमुपपादयति- कर्तुरित्यादिना | व्याप्तुम् = प्राप्तुम् । क्रियया व्यासुमिष्टस्य " इत्यस्यार्थमाह-क्रिययेति, तथा च क्रियाजन्यफलभागितयेच्छाविषयत्वमेव कर्मत्वं क्रियाजन्यफलभागितयेच्छाविषयत्वमेव च संप्रदानत्वमुक्तमिति कर्मत्वसंप्रदानत्वयोर्विशेषामावादैक्यं
" Aho Shrutgyanam"