________________
( ४५६ )
[ चतुर्थी कारके
८८
L
युद्धाय संनह्यते ' इत्यादौ संनहनादिक्रियाजन्यफलाऽसंबन्धाद् युद्धादेर्न संप्रदानता निर्वाह इति नेयं संप्रदानचतुर्थी. अपि तु ' एधानाहर्तुं व्रजति इत्यर्थे ' एघेभ्यो व्रजति ' इत्यत्रेव ' युद्धं कर्तुं सोढुं वा संनह्यते ' इत्यर्थविवक्षया क्रियार्थोपपद " इति सूत्रान्तरेण तस्य च स्थानिनोऽश्रूयमाणस्य क्रियार्थोपपदस्य तुमुन्नन्तधातोः कर्मणि - स्वार्थनिष्ठ कर्मत्वे विवक्षिते स्वोत्तरं चतुर्थी' इत्यर्थस्तथा चाऽऽहरणकरणसहना युद्देश्यकत्वं तादृशचतुर्थ्यर्थ्य इत्यवधेयम् । अथ " यदग्नये च प्रजापतये च सायं जुहोति इत्यादावग्न्यादेवि " सर्वभूतेभ्य उत्सृष्टं मयैतज्जलमूर्जितम् इत्यादौ सर्वप्राणिनामिव च "पशुना रुद्रं यजते" इत्यादावपि त्यागविशेषरूपक्रियायां रुद्रादेरानराकर्तृसंप्रदानत्वं दुर्वारमिति तत्रापि चतुर्थी स्यादिति चेत्, न - गौरवितप्रीतिहेतुक्रिया
77
17
तादर्श:
6
"
1
प्रयोगान्तरमुदाहरति--- युद्धायेति, संनहनादिक्रियाजन्यफलस्य जयादिरूपस्य जनके युद्धे निरूपकत्वादिरूपः संप्रदानस्वनिर्वाहकः संबन्धो नास्तीति न युद्धस्य संप्रदानत्वमिति न युद्धपदोत्तरचतुर्थी संप्रदानचतुर्थी किंतु " क्रियार्थोपपदस्य च कर्मणि स्थानिनः " इति सूत्रेणायैव चतुर्थीत्यर्थः । अत्रोदाहरणमाह- एधानिति । एधान् = काष्ठानि । उक्तसूत्रस्यार्थमाहतस्येति, यथा ' एघानाहर्तुं व्रजति ' इत्यत्र ' आहर्तुम् ' इति तुमुन्नन्तधातुरेव स्थानी व्रजतीतिक्रियार्थोपपदं चास्ति नाम माहरणादिक्रियार्था या व्रजनादिक्रिया तद्बोधक जतीत्यादिक्रिया - पदमुपपदं यस्यास्ति स च तुमुन्नन्तधातुः ' एधेभ्यो व्रजति ' इत्यत्र श्रूयमाणं नास्तीन शतुमुन्नन्तधातोः कर्मणि= कर्मभूतेष्वेधेषु स्त्रार्थनिष्ठ कर्मत्वे घनिष्ठ कर्मत्वे विवक्षिते स्वोत्तरम्== एधपदोत्तरं चतुर्थी स्यादित्यनेन ' एधेभ्यो व्रजति ' इति सिद्धम् एवमेव ' युद्धाय मनह्यते इत्यत्रापि चतुर्थी ज्ञेया । अत्रत्यचतुभ्यर्थमाह- तथा चेति, 'फलान्याहर्तुं व्रजति- फलेम्यो व्रजति ' इत्यत्राहरणोद्देश्यकत्वम्, 'युद्धं कर्तुं संनह्यते-- युद्धाय संनह्यते ' इत्यत्र क णोद्देश्यकत्वम्, 'युद्धं सोढुं संनह्यते - युद्धाय संनह्यते ' इत्यत्र सहनोद्देश्यकत्वं चतुर्थ्यर्थम्त व्रजनादिव्यापारेऽन्वपस्तथा च ' एधाहरणोद्देश्यकत्रजनानुकूलकृतिमान् ' युद्ध सहनोद्देश्यकसंनहनानुकूलकृतिमान् ' इत्यादिः शाब्दबोधः । उद्देश्यत्वं च फलाहरणादीनां प्राप्तम् ।
.
शङ्कते - अधेति, संप्रदानत्वं द्विविधं भवति स्वीकर्तृसंप्रदानत्वमनिराकर्तृसंप्रदानत्वं च तत्र " दीयताम् ' इत्यादियाचनासंभवात् ब्राह्मणादीनां स्वीकर्तृसंप्रदानत्वम् 'सूर्याया ददाति इत्यादौ ' दीयताम् ' इत्यादिरूपायाः सूर्यादिकर्तृकपाचनाया असत्त्वेपि सूर्येण < मा दीयताम्' इत्यादिरूपो निराकारः = परिहारोपि न क्रियते इति तत्र सूर्यस्याऽनिराकर्तृसंप्रदानत्वम् एवम् यदनये " इत्यादावग्न्यादिकर्तृकपरिहाराभावाद् यथाम्यादेरनिराकर्तृ संप्रदानत्वं यथा च सर्वभूतेभ्यः " इतितडागोत्सर्गवाक्ये सर्वभूतानाम निराकर्तृ संप्रदानत्वं तथा
<<
66
66
"Aho Shrutgyanam"
7
पशुना रुद्र यजते " इत्यत्र रुद्रकर्तृकपशुकर्मकत्यागविषयकस्य " मह्यं पशुर्न देयः " इत्यादिरूपस्य परिहारस्याभाषाद् रुद्रस्यानिराकर्तृसंप्रदानत्वं किं न स्थात् १ प्राप्ते च संप्रदानत्वे