________________
दाधातुघटितप्रयोगाः ]
व्युत्पत्तिवादः ।
( ४५७ )
यज्य येस्तदर्थतावच्छेदकफलं प्रीतिस्तदाश्रयतया रुद्रस्य विवक्षितत्वात् कर्मसंज्ञकत्वेन द्वितीयैव न तु चतुर्थी, त्यागात्मकताहशक्रियायां निरुक्ताऽनिराकर्तृसंप्रदानत्वे सत्यपि तदविवक्षणात् । प्रीतिभागितयोद्देश्यत्वरूपसंप्रदानत्वविवक्षायां च 'रुद्राय यजते ' इत्यपि प्रयोगः । उभयविवक्षायां परत्वेन कर्मसंज्ञया बाधाद् द्वितीयैव । जुहोत्युत्सृजत्यादेः प्रीतिरूपफलावच्छिन्नत्यागाऽबोध कतया त्यागरूपक्रियाजन्यप्रीतिभागिनो देवतादेस्तत्कर्मताविरहान्नैव 'प्रजापति जुहोति' 'भूतान्युत्सृजति ' इत्यादयः प्रयोगाः ।
रजकस्य वस्त्रं ददाति ' इत्यत्र ददातिर्न त्यागार्थकोऽपि तु परायत्तीकरणार्थको गौणः, तदायत्तीकरणं च प्रकृते तत्कर्तृकनिर्णेजनेच्छाप्रकाशको व्यापारः, तदेकदेशे कर्तृत्वे रजकस्य संबन्धविवक्षायां शैषिकी षष्ठी ।
"
हन्तुः पृष्ठं ददाति ' इत्यत्र तत्कर्तृकताडनानुमतिप्रकाशको व्यापार एव सत्रापि = रुद्रपदोत्तरमपि चतुर्थी स्यादित्यर्थः । परिहरति- नेति, गौरवमस्त्यस्यामिति गौरविता या प्रीतिस्तादृशप्रीतिहेतुभूता क्रिया यजधात्वर्थ इति धात्वर्थतावच्छेदकं फलं सा प्रीतिरेवेति तादृशप्रीत्याश्रयतया रुद्रस्य विवक्षितत्वात् कर्मसंज्ञेव भवतीति रुद्रपदोत्तरं द्वितीयैव न चतुर्थीप्राप्तिः - पूर्वमेव धात्वर्थतावच्छेदकफलाश्रयत्वे कर्मत्वमित्युक्तत्वादित्यर्थः । किं च त्यागात्मकतादृशक्रियायाम्=यज्यर्थभूतत्यागरूपप्रीतिहेतुक्रियायामऽनिराकर्तृसंप्रदानत्वस्य रुद्रे सत्यपि विवक्षाभावान संप्रदानत्वमित्याह - त्यागात्मकेति । वस्तुतस्त्वत्र " कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा " इति वार्तिकेनैव रुद्रस्य कर्मसंज्ञेति बोध्यम् । रुद्राय यजते इतिप्रयोगमुपपादयति- प्रीतिभागितयेति । विशेषान्तरमाह-- उभयेति, यदि कर्मत्वसंप्रदानत्वयोरुभयोविवक्षा स्यात्तदापि परया कर्मसंज्ञया संप्रदानसंज्ञाया बाधाद् द्वितीयैव भवति न चतुर्थीत्यर्थः । जुहोत्यादिप्रयोगस्थले प्रीतिरूपफलस्य धात्वर्थतावच्छेदकत्वमेव नास्ति येन धात्वर्थतानवच्छेदकीभूतप्रीतिरूपफलभागितया तादृशस्यागक्रियाजन्यप्रीतिभागिनो देवतादेः कर्मत्वं स्यात् किं तु धार्थतावच्छेदकीभूततादृशप्रीतिभागितयोद्देश्यत्वात् संप्रदानत्वमेवेति " यदद्मये च प्रजापतये च " " सर्वभूतेभ्यः " इत्येवं चतुर्थ्यन्त एव प्रयोगो भवति न तु ' प्रजापति जुहोति इत्यादिरित्याह-- जुहोतीति ।
ननु रजकस्य व ददाति ' इत्यत्र रजकस्य कथं न संप्रदानसंज्ञा ? ददाति योगादित्याशङ्क्याह- रजकस्येति । परायत्तीकरणम् = पराधीनीकरणम् । तत्कर्तृक= रजककर्तृक । तदेकदेशे = उक्तव्यापारैकदेशे । उक्तकर्तृत्ववत्त्वं रजकस्येति संबन्धविवक्षायां षष्ठषेव रजकपदोत्तरं भवति न चतुर्थीत्यर्थः । रजककर्तृकवस्त्र कर्म क निर्णेज नेच्छाप्रकाशकव्यापारानुकूलकृतिमानिति शाब्दबोधः । • पृष्ठे मे ताडयताम्
प्रयोगान्तरमुदाहरति- हन्तुरिति । तत्कर्तृक= हन्तृकर्तृक । अत्र
&
"Aho Shrutgyanam"
"