________________
( ४५८ )
सादर्श:
"
ददात्यर्थः, तदेकदेशे कर्तृत्वे हन्तुः संबन्धविवक्षायां षष्ठी । एवम् चरणं ददाति' इत्यादावूहनीयम् ।
.4
इत्यादौ 'नारदाय रोचते कलहः रुच्यर्थानाम् इत्यनुशासनेन प्रीतिजन कतारूपरुच्यर्थघटकप्रीतिभागिनः संप्रदानसंज्ञा विहिता, तत्र चतुर्थ्यर्थ आश्रितत्वं प्रीतावन्वेवि तादृशक्रियाश्रयतया प्रीतिजनककलहादेः कर्तृता । पुष्पेभ्यः स्पृहयति ' इत्यत्र स्पृहाविषयपुष्पस्य " स्पृहेरीप्सितः " नेन संप्रदानत्वाच्चतुर्थी तदर्थों विषयित्वं तस्येच्छारूपक्रियायामन्वयः ।
"
इत्य
'पुत्राय क्रुध्यति' इत्यत्र " क्रुधदुह" इत्यादिसूत्रेण कर्मणः संप्रदानसंज्ञा तत्रापि चतुर्थ्यर्थी विषयित्वं कोपेऽन्वेति क्रोधस्य द्वेषविशेषात्मकतया भक्तिश्रद्धादि - वज्ज्ञानविशेषरूपत्वेन वा सविषयकत्वात् । एवम् ' शत्रवे दुह्यति' इत्यादावपि तेनैव संप्रदानत्वम्, द्रोहोऽपचिकीर्षा. अहितेच्छेति यावत्, अहितभागितया येच्छाविषयता तन्निरूपकत्वं चतुर्थ्यर्थ्य इच्छान्वयी, अहितान्वय्याधेयत्वं वा, अतः कर्मणा इत्यादिसूत्रस्याविषयः । ईर्ष्या =अक्षान्तिः परोत्कर्षास - इत्याकारकाऽनुमतिप्रकाशको व्यापारो ददात्यर्थः स च गौण एवेति न हन्तुः संप्रदानत्वम् । तदेकदेशे = उक्तव्यापारैकदेशे । प्रयोगान्तरमुदाहरति-- एवमिति, अत्र संवाहककर्तृकं यत्संवाहनं तदनुमतिप्रकाशको व्यापारो ददात्यर्थः, तदेकदेशे कर्तृत्वे संवाहकस्य संबन्धविवक्षास्तीति संवाहकपदोत्तर षष्ठयेव न चतुर्थीत्यर्थः ।
66
""
प्रयोगान्तरमुदाहरति- नारदायेति, प्रीतिजनकत्वमेव रुच्यर्थत्वमिति प्रीतिजनकतारूपो यो रुच्यर्थस्तदूघटकप्रीतेर्भागिनः संप्रदानसंज्ञा संप्रदानत्वाच्च नारदपदोत्तरं चतुर्थी । चतुर्थ्यर्थमाह - तत्रेति, कलहजन्यप्रीतेर्नारदाश्रितत्वाच्चतुर्थ्यर्थभूतमाश्रितत्वं प्रीतावन्वेति । तादृशकि याश्रयतया = प्रीतिजननानुकूल क्रियाश्रयतया । स्पष्टार्थीयं ग्रन्थः । नारदाश्रितप्रीतिजनकताश्रयः कलह इति शाब्दबोधः ।
प्रयोगान्तरमुदाहरति पुष्पेभ्य इति, तदर्थः = चतुर्थ्यर्थः । तस्य विषयित्वस्य । पुष्पनिष्ठविषयतानिरूपितविषयिताविशिष्टच्छाश्रयश्चैत्र इति शाब्दबोधः । विषयितासंबन्धेनेच्छायां पुष्पान्वयस्येष्टत्वाद् विषयित्वं चतुर्थ्यर्थः ।
प्रयोगान्तराण्युदाहरति- पुत्रायेत्यादिना चतुर्थ्यर्थस्य विषयित्वरूपोपपत्त्यर्थं क्रोधस्य सविषयकत्वमुपपादयति- क्रोधस्येति । एवमिति - तेनैय== " क्रुधदुह " इत्यादिसूत्रेणैव । द्रोहपदार्थमाह-- द्रोह इति । चतुर्थ्यर्थमाह- अहितेति, शत्रोरहितभागित्वेन येच्छाविषयता तन्निरूपकत्वमिच्छायामस्ति तदेव चतुर्थ्यर्थः । किं वाऽहिते यच्छत्रुवृत्तित्वं तदेव चतुर्थ्यर्थ इत्याहअहितान्चयीति । अत इति - यतोत्र पुत्रादीनां गवादिरूपकर्मणा संबद्धुमभिप्रायविषयत्वं नास्त्यतः. पुत्रादीनाम् "कर्मणा यमभिप्रेति" इतिसूत्रेण संप्रदानसंज्ञा न संभवतीति तदर्थम् " क्रुधद्रुह "
26
"Aho Shrutgyanam"
[ चतुर्थी कारके.
संवाहकस्य
79
“