________________
धारयत्यर्थनिर्वचनम् ]
व्युत्प्रधिवाहः ।
( ४५९.)
हिष्णुता परोत्कर्षगोचरो द्वेष इति यावत् तद्विषयस्य परस्य तेनैव संप्रदानता । अनूपा = युपिनि दोषाविष्करणं तद्विषयस्याप्यनेन संप्रदानता विषयताविशेषस्तत्र चतुर्थ्यर्थः ।
L
विप्राय शतं धारयति ' इत्यादौ " धारेरुत्तमर्णः " इत्यनेन धनिकविप्रादेः संप्रदानता ।
अथ कोयं धार्यर्थः ? न तावद् द्रव्यान्तरदानमङ्गीकृत्य परदत्तद्रव्यादानम्तथा सत्यादानात् परतः धारयति ' इति प्रयोगानुपपत्तेः-- आदानस्याऽवर्तमानत्वात् । न चेष्टापत्तिः- आविशोधनं तथा प्रयोगात् । नापि तादृशादानध्वंस:अधमर्णस्य तदकर्तृत्वात् । न चादानमिच्छाविशेषस्तद्वतः पुंसस्तदाश्रयतया तत्कर्तृत्ववत् तद्ध्वंसाश्रयतया तत्कर्तृत्वमप्यक्षतमिति वाच्यम्, एवमप्यादानध्वंसस्य परिशोधनोत्तरमपि सत्त्वेन तदानीमपि धारयति ' इति प्रयोगापत्तेः ।
८८
इत्यादिसूत्रारम्भ इव्यर्थः । सूत्रघटकेर्ष्या पदार्थमाह- ईष्येति । तद्विषयस्य ईर्ष्याविषयस्य | तेनैव= " क्रुधदुहेर्ष्यासूयार्थानाम् " इतिसूत्रेणव । सूत्रघटकाऽसूयापदार्थमाह- असूयेति । तद्विषयस्य=असूयाविषयस्य । अनेन = क्रुधद्रुह " इतिसूत्रेण । विषयताविशेषः विषयितारूयविषयता चतुर्थ्यर्थः सा चाऽसूयायामन्वेति - असूयाया अपि क्रोधवत् सविषयकपदार्थत्वादित्यर्थः । ' पुत्रादिनिरूपितविषयिताविशिष्टक्रोधादिव्यापारवान् ' इति शाब्दबोधः ।
प्रयोगान्तरमुदाहरति- विप्रायेति । धनिक्रविप्रादेः - उत्तमर्णस्येत्यर्थः ।
"
धारयत्यर्थ निरूपणायाशङ्कते - अथेति । नतु द्रव्यान्तरदानमङ्गीकृत्य = अहं तुभ्यं कालान्तरे मुद्रासह दास्यामीत्येवं द्रव्यान्तरव्यक्तिदानमङ्गीकृत्य यत् परदत्तद्रव्यस्य = उत्तमर्णदत्तद्रव्यस्याऽऽदानम् = ग्रहणं तदेव धार्यर्थः = धारयत्यर्थ इत्याशङ्क्याह- न तावदिति, परिहारे हेतुमाह - तथा सतीति, तथा सति = यद्युक्तादानमेत्र धारयत्य र्थस्तदाऽऽदानस्य क्रियारूपत्वेन स्वयमेव सद्यो विनाशित्वादाऽऽदानानन्तरमृणपरिशोधनपूर्वमपि ' धारयति ' इति प्रयोगो न स्यात्वारयत्यर्थभूतस्यादानस्याऽसत्त्वादित्यर्थः । न च परिशोधनपूर्वम् ' धारयति इति प्रयोगान भाव इष्टः प्रयोगस्यैवेष्टत्वादित्याह - न चेष्टापतिरिति । ननु यद्याऽऽदानानन्तरं सद्य एवादानं विनश्यति तदोक्तादानस्य ध्वंस एव धारयत्यर्थस्तथा चादानानन्तरमप्यादानध्वंसस्य सत्त्वात् नादानानन्तरम् धारयति इतिप्रयोगानुपपत्तिरित्याशङ्क्याह - नापीति । परिहारहेतुमाह-अधमर्णस्येति, आदानस्य ध्वंसस्तु स्वयमेव भवति न त्वधमर्णकर्तृक इति अधमर्णेनाकृतं धारत्यर्थभूतमादानध्वंसमादाय ' धारयति ' इति प्रयोगः कथं स्यात् न हि देवदत्तेनाऽकृतपाकमव्यादाय देवदत्तः पचति - आकाशं करोति' इत्यादिप्रयोगो भवतीत्यर्थः । ननूक्तादानमिच्छेक तथा चाधमर्णस्येच्छारूपादानाश्रयत्वेनेच्छा कर्तृत्वमस्त्येवेति तादृशादान रूपेच्छाध्वंसस्याप्याश्रयत्वं.
6
'
"Aho Shrutgyanam"